धृति
dhṛtiस्त्री · fem.In 17 kośas: 23 synonym verses, 9 as a nānārtha head word, 14 as a meaning of another word.
धृतिः संतोषः स्वास्थ्यं स्यादाध्यानं स्मरणं स्मृतिः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 षः (wrong syllable)
genderस्त्रीfem.
धृतिस्तुष्टिस्तु सन्तोषः प्रौढिस्तु कटभेदिका ।यत्नोत्साहोद्यमायामास्तरिषोऽध्यवसायवत् ॥ ९० ॥
अनुष्टुप्
genderस्त्रीfem.
ज्ञेया षोडशसंज्ञा वै नाम स्याद्यत्र भूपतेः ।अथ सप्तदशात्यष्टि तत्रैवाष्टदशा धृतेः ॥ ३२ ॥
अनुष्टुप्
genderस्त्रीfem.
इज्या स्त्रियां पुंसि मेनो धर्मो ना सत्रमस्त्रियाम् ।बर्हिः क्लीबे वितानं स्यादस्त्रियां च धृतिः स्त्रियाम् ॥ ५९ ॥
अनुष्टुप्
genderस्त्रीfem.
त्रिष्टुप् च जगती चातिजगत्यपि च शक्करी ।अष्टिर्धृतिर्द्वितीयाः स्युरतिपूर्वा तथा कृतिः ॥ ९० ॥
अनुष्टुप्
genderस्त्रीfem.
अमृता मानदा विश्वा तुष्टिः पुष्टी रतिर्धृतिः ।शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ॥ १७७ ॥
अनुष्टुप्
genderस्त्रीfem.
विष्कम्भः प्रीतिरायुष्मान्सौभाग्यश्चापि शोभनः ।अतिगण्डः सुकर्मा च धृतिः शूलं ततः पुनः ॥ ८ ॥
अनुष्टुप्
genderस्त्रीfem.
क्रन्दितं रुदितं क्रुष्टं स्वास्थ्यं क्लीबे धृतिः स्त्रियाम् ।सन्तोषः पुंसि धैर्यं षण् स्यातां रिङ्गणरिङ्खणे ॥ १२६ ॥
अनुष्टुप्
genderस्त्रीfem.
मषीषुधृत्यहिजटिजाटलीनां सृणेरपि ।मरीच्यशनिमौलीनां हलीकेल्योर्मणेरपि ॥ १२३ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
अष्टतिस्त्वाष्टतं क्लीबेऽथाष्टिराष्टं धृतिः पुनः ।धार्तं भवेत्त्वतिधृतिः क्लीबे त्वातिधृतं मतम् ॥ ९० ॥
अनुष्टुप्
genderस्त्रीfem.
तोषस्तु धैर्यं स्वास्थ्यं च स्वस्थता च धृतिश्चतुप्रा(?) ।हृदयं लिखति कर्मण यग्घृदयस्य हृल्लेखेति हृत् ।द्वयोर्व्रीडस्त्रपा लज्जा ह्री ह्रीका ह्रीकया युता ।नटाम्बि(न्ति)का च मन्दाक्षं तदन्यस्मादपत्रपा ॥ १५३ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शाङ्खिकः स्यात्काम्बिविको भस्रा चर्मप्रसेविकः ।धृतिः श्रुतिश्चोपध्मान्तः प्रसेवो दनायुधः ॥ २४० ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 त्का (wrong syllable); pāda 3, syllable 4 ति (syllables merged)
genderस्त्रीfem.
विलासः सहजो ज्ञेयो विभ्रमो भ्रूसमुद्भवः ।तुष्टिः प्रीती रतिः स्वास्थ्यं संतोषो निर्वृतिर्धृतिः ॥ ८१ ॥
अनुष्टुप्
genderस्त्रीfem.
अथ स्वास्थ्यं च सन्तोषो धृतिः स्यात् स्मरणं स्मृतिः ।अध्यानं धीर्मतिर्बुद्धिर्मनीषा धिषणा पुनः ॥ ४५३ ॥
अनुष्टुप्
genderस्त्रीfem.
शुश्रूषाऽन्वेषणा कुम्भाव्रज्या चर्या कृषिर्लिपिः ।पताका कतिका धूली रचनासन्ततिर्षृतिः ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः ।स्रष्टृता चात्मसंवित्तिरप्यधिष्ठातृतेत्यमी ॥ ५१ ॥
अनुष्टुप्
genderस्त्रीfem.
स्याद्द्रोहचिन्ता व्यापादः संकेतसमयौ समौ ।धियो गुणास्तु शुश्रूषा श्रवणं ग्रहणं धृतिः ॥ २७३ ॥
अनुष्टुप्
genderस्त्रीfem.
वैवर्ण्यमश्रु प्रलय इति भावाश्च सात्त्विकाः ।निर्वेदो ग्लानिशङ्कास्मृतिधृतिमतयः प्रीतिनिद्रावहित्थाव्रीडेर्ष्यासुप्त्यसूया मरणमलसतोन्मादहर्षावमर्षाः ।तर्कापस्मारमोहश्रममदजडिमव्याधिवेगा विषादोगर्वश्चिन्तौग्य्रदैन्ये भयमपि चपलत्वं च संचारिभावाः ॥ ९५८ ॥
अनुष्टुप्two metres in one verse
वैवर्ण्यक्लीअश्रुक्लीप्रलयपुंसात्त्विकभावपुंनिर्वेदपुंग्लानिस्त्रीशङ्कास्त्रीस्मृतिस्त्रीधृतिस्त्रीमतिस्त्रीप्रीतिस्त्रीनिद्रास्त्रीअवहित्थास्त्रीव्रीडास्त्रीईर्ष्यास्त्रीसुप्तिस्त्रीअसूयास्त्रीमरणक्लीअलसतास्त्रीउन्मादपुंहर्षपुंअमर्षपुंतर्कपुंअपस्मारपुंमोहपुंश्रमपुंमदपुंजडिमन्पुंव्याधिपुंवेगपुंविषादपुंगर्वपुंचिन्तास्त्रीऔग्र्यक्लीदैन्यक्लीभयक्लीचपलत्वक्लीसंचारिभावपुं
genderस्त्रीfem.
धृतिर्मुदि वशः कान्तौ मूलकर्म तु कार्मणम् ।वशीक्रिया संवननं विहारस्तु परिक्रमः ॥ १७१० ॥
अनुष्टुप्
genderस्त्रीfem.
उग्रः प्रभुर्धृतिर्विष्णुर्विश्वकर्मा महेश्वरः ।शत्रुघ्नश्चेटि(न्धि)का पुष्टिः पञ्चमी वह्निवासिनी ॥ १९ ॥
अनुष्टुप्
genderस्त्रीfem.
बहुरूपोऽर्धमकुटो दशबाहुर्दशाव्ययः ।ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः ॥ ४७ ॥
अनुष्टुप्
genderस्त्रीfem.
शुश्रूषाबहुला श्रौषिः श्रवणज्ञा तु चत्वरी ।धृतिस्तु तुष्टिः संतोषः प्रौढिः स्तु कियदेतिका ॥ १६६ ॥
अनुष्टुप्
genderस्त्रीfem.
अविषादो धृतिर्धैर्यमवष्टंभस्तु सौष्ठवम् ।वीराणां यद्रणे नृत्तं तस्मिन्वीरजयन्तिका ॥ २०८ ॥
अनुष्टुप्
genderस्त्रीfem.
धृति as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् आत्मन्आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च ॥ १०९ ॥ Amarakośa 3.3.109
- धरणिकोश आत्मन्आत्मा कलेवरे यत्ने स्वभावे परमात्मनि । चित्ते धृतौ च बुद्धौ च परव्यावर्तनेऽपि च ॥ Dharaṇikośa 19.3.8
- कोषकल्पतरु धत्तेवितः स्याच्छ्रम्भतिर्हिंसा प्रणयानुद्भरा(टा?)र्थकः । अवात्स केलिकलहेऽत्यर्थशान्तावपीरितः । धत्ते दधाति दधते मलते बिभर्ति स्कुभ्नाति बालयति पोषयतीह तद्वत् । स्कुभ्नोति तत्र च भुरण्यति मल्लते च धृत्यां धियत्यपि धरत्यपि मञ्चते च ॥ ६६ ॥ Koṣakalpataru 3.5.66
- कोषकल्पतरु उपवहतिवहतिर्वेः परिणये न्यासाप्त्योः संहतौ नतौ । उदो विवाह आङोऽसौ करणेऽथोपतो धृतौ ॥ ४१ ॥ Koṣakalpataru 3.5.41
- कोषकल्पतरु हरणयाम्यायां दिशि यज्ञदानविधिषु स्त्री तत्प्रतिष्ठास्वथ स्निग्धाकर्कशयोस्त्रये च मसृणोऽथ स्यात्क्षुमायां स्त्रियाम् । पुंसि द्वावुषणोषणौ रसभिदि स्त्रीत्वे कणायामिमौ क्लीबे स्तो मरिचेऽथ पुंसि धिषणो वाचस्पतौ स्त्री धियि । रतपरिभवयोः स्याद्धर्षणं स्त्रीत्वसत्यां नयनरुजि यमे स्याद्धर्षणो योगभेदे । हरणमपि विवाहस्वे भुजे स्याद्धृतौ च श्रवणमपि हृतस्त्रि श्रोत्रतत्कर्मणोश्च ॥ २६ ॥ Koṣakalpataru 6.15.26
- कोषकल्पतरु नियतिपुमानगस्तिर्मुनिवृक्षभेदे स्यात्संगतिः संगमबुद्धिनाम्नोः । स्त्री संनतिः स्यात्प्रणतौ ध्वनौ च दैवे च धृत्यां नियतिः स्त्रियां स्यात् ॥ ३१ ॥ Koṣakalpataru 6.16.31
- कोषकल्पतरु आत्मन्क्लेदा सुधांशौ नरि चौषधौ[18b]च स्नेहा च मित्रे नरि शीतरश्मौ । आत्मा नरि स्याद्धृतिबुद्धिशील- ब्रह्मप्रयत्नेषु वपुर्हृदोश्च । व्यावर्तने स्यात्परतश्च काले- ऽथाध्वा तु संस्थानपथोश्च शास्त्रे ॥ ८५ ॥ Koṣakalpataru 6.21.85
- कोषकल्पतरु मात्रग्रन्थे निदेशे च वदन्ति शास्त्रं मात्रं तु कार्त्स्न्ये च धृतौ द्वयोनम् । स्त्री त्वक्षरस्यावयवे तथाल्पे परिच्छदश्रोत्रविभूषयोश्च ॥ ३२ ॥ Koṣakalpataru 6.27.32
- नानार्थार्णवसंक्षेप आत्मन्देहे यत्ने धृतौ कीर्तौ बुद्धौ मनसि च श्रुते । धर्मे स्वभावे पुत्रेऽर्थे परस्य प्रतियोगिनि ॥ १३ ॥ Nānārthārṇavasaṃkṣepa 2.2.13
- नानार्थार्णवसंक्षेप अव्ययअव्ययोऽस्त्री स्वराद्याद्येष्वीश्वरस्य दशस्वपि । ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः ॥ ४६ ॥ Nānārthārṇavasaṃkṣepa 4.46
- परमानन्दीयनाममाला आत्मन्बुद्धौ चित्ते धृतावार्या दुर्गामात्रोस्तथैव च । आजिर्युद्धे समक्ष्मायामाधिर्मानसवेदना ॥ ५३ ॥ Paramānandīyanāmamālā 5.1.53
- शब्दरत्नावली आत्मन्आसनं स्याद्गजस्कन्धे पीठे यात्रानिवर्तने । आजीनं वाजिभूषायां ग्रहणे च नपुंसकम् । आत्मा स्वभावे मनसि प्रयत्ने च धृतावपि ॥ Śabdaratnāvalī 7.20.35
- शब्दरत्नाकर आत्मन्आत्मा तु जीवपरयोः शरीरे स्वस्थभावयोः । धृतावग्नौ मतौ वातेऽप्याधिर्व्यसनबन्धयोः ॥ १८७२ ॥ Śabdaratnākara 4.1.1872
- वैजयन्ती आत्मन्अंशुः सूत्रादिसूक्ष्मांशेऽप्यंकश्चिह्नेंऽतिकोरसोः । आत्मा जीवे धृतौ देहे स्वभावे परमात्मनि ॥ ६ ॥ Vaijayantī 6.1.6