काण्ड
kāṇḍaपुं · masc.In 20 kośas: 41 synonym verses, 11 as a nānārtha head word, 19 as a meaning of another word.
बाणे पृषत्कविशिखौ खगगार्ध्रपक्षौ काण्डाशुगप्रदरसायकपत्त्रवाहाः ।पत्त्रीष्वजिह्मगशिलीमुखकङ्कपत्त्ररोपाः कलम्बशरमार्गणचित्रपुङ्खाः ॥ ७७८ ॥
वसन्ततिलका
genderपुंmasc.
स्तम्बस्तु गुच्छो धान्यादेर्नालं काण्डोऽफलस्तु सः ।पलः पलालो धान्यत्वक्तुषो बुसे कडंगरः ॥ ११८२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 बु (wrong syllable)
genderपुंmasc.
गुणोपसर्जनोपाग्र्याण्यप्रधानेऽधमं पुनः ॥ १४४१ ॥निकृष्टमणकं गर्ह्यमवद्यं काण्डकुत्सिते ।अपकृष्टं प्रतिकृष्टं याप्यं रेफोऽवमं ब्रुवम् ॥ १४४२ ॥खेटं पापमपशदं कुपूयं चेलमर्व च ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 4 प (wrong syllable)
genderविadj.
genderपुंmasc.
अर्वाणमणकमपसदमवममवद्यं निकृष्टमपकृष्टम् ।अधमं चेलं काण्डं खेटं पापं च रेफसं प्राहुः ॥ ३३७ ॥
गीतिः
genderविadj.
कङ्कपत्त्रशरमार्गणबाणाश्चित्रपुङ्खविशिखेषुकलम्बाः ।सायकप्रदरकाण्डपृषत्काः पत्त्रिणः खगशिलीमुखरोपाः ॥ ४६६ ॥
स्वागता
genderपुंmasc.
धान्यशूकं च किंशारुः कणिशं धान्यशीर्षकम् ।नालं काण्डं क्षुपो गुच्छो व्रीहिः स्तम्बकरिः स्मृतः ॥ ५७९ ॥
अनुष्टुप्
genderक्लीneut.
खलूरिका तु तद्भूभिरवष्टम्भश्च सौष्ठवम् ।युग्या गुणनिका ग्राह्या काण्डोऽस्त्री विशिखः पुमान् ॥ २६६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
अपि पत्रलता सा स्याद्दण्डोऽस्त्री लगुडः पुमान् ।यष्टिर्द्वयोः स्त्रियां यष्टी काण्डोऽप्यस्त्री ततः पुनः ॥ ३१४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
नगाद्यारोह उच्छ्राय उत्सेधोऽप्युच्छ्रयश्च सः ।स्कन्धकाण्डप्रकाण्डाश्च मूलाच्छाखावधिस्तरोः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
शरो बाण इषुः काण्ड उत्कटः सायकः क्षुरः ।इक्षुरिक्षुरिकापत्रो विशिखोऽथ महाशरः ॥ ३३८ ॥
अनुष्टुप्
genderपुंmasc.
जातं चापि च जालं च पेटकं काण्डमस्त्रियाम् ।पटली संहतिर्वृन्दं निकुरम्बं कदम्बकम् ॥ २०२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
काण्डोऽस्त्रियां घनरसो नरा नारा अपि स्त्रियाम् ।भूम्नि गावः स्त्रियां भूम्नि गौः स्त्रियामपि सर्वतः ॥ १३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
सर्गो वर्गः परिच्छेदो द्योताध्यायाङ्कसंग्रहाः ।उल्लासः परिवर्त्तश्च पटलः काण्डमस्त्रियाम् ॥ ६२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
दण्डोऽस्त्रियां चतुर्हस्तो धनुरत्र न योषिति ।हस्तषोडशकोन्माने दण्डे काण्डं न योषिति ।धनुषां तु सहस्रे द्वे क्रोशः क्रोशद्वयं पुनः ॥ ६३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कङ्कपत्रः पत्रवाहः पृषत्कः सायकश्च सः ।कलम्बः प्रदरोऽस्त्रीकौ बाण-काण्डाविषुस्त्रिषु ॥ २२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
सस्यस्य मञ्जरी चाथ काण्डोऽस्त्री सस्यनाडिका ।नाली नालं निफलस्तु पलालोऽस्त्री पलश्च सः ॥ ४९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 फ (wrong syllable)
genderपुंक्लीm. n.
आक्रीड-कोदण्ड-तरण्ड-मण्ड-प्रकाण्ड-काण्डानि पलाण्डु-मुण्डौ ।दृढोऽथ बाणोऽप्यणु-वारवाण-कार्षापण-स्वर्ण-सुवर्ण-चूर्णाः ॥ ४४ ॥
उपजातिः
genderपुंक्लीm. n.
अभिधानशब्दः प्रत्येकमभिसम्बध्यते । संवत्सराभिधायिनां शब्दानां संवत्सरपर्यायाणां च । गिर्यादिपर्यायाणां च । पुंयोगः स्यादित्यर्थः । तद्यथा अयं संवत्सरः हायनोऽब्द इत्यादि । अयं गिरिः पर्वतः धरः शैल इत्यादि । मासाभिधायिनाम् । अयं मासः द्विपक्षः । मासविशेषोऽपि अयं चैत्रः वैशाखः ज्येष्ठः आषाढ इत्यादि । अर्णववाचिनाम् । अयमर्णवः समुद्रः सागरः पारावारः सरित्पतिरित्यादि । अयमृतुः वसन्तः ग्रीष्मः ।देववाचिनाम् । देवः सुरः । असुरवाचिनाम् । असुरः दैत्यः । शराभिधायिनाम् । शरः काण्डः । अयमसिः खड्गः मण्डलाग्रः । अयं पङ्कः कर्दमः जम्बालः । अयमरिः शत्रुः वैरी रिपुः विपक्ष इत्यादि ।भाष्कच्छुकशारज्ज्विष्टकाश्च नित्यं स्त्रि[स्त्री]यामीषिका च ।विद्युद्दिग्भूम्यभिधानं वल्ली सरितां च विज्ञेयम् ॥ ३१ ॥
metre not recognised
संवत्सरपुंहायनपुंअब्दपुंगिरिपुंपर्वतपुंधरपुंशैलपुंमासपुंचैत्रपुंवैशाखपुंज्येष्ठपुंआषाधपुंअर्णवपुंसमुद्रपुंसागरपुंपारावारपुंसरित्पतिपुंऋतुपुंवसन्तपुंग्रीष्मपुंदेवपुंसुरपुंअसुरपुंदैत्यपुंशरपुंकाण्डपुंअसिपुंखड्गपुंमण्डलाग्रपुंपङ्कपुंकर्दमपुंजम्बालपुंअरिपुंशत्रुपुंवैरिन्पुंरिपुपुंविपक्षपुंभास्स्त्रीकच्छुस्त्रीकशास्त्रीरज्जुस्त्रीइष्टकास्त्रीईषिकास्त्रीविद्युत्स्त्रीदिश्स्त्रीभूमिस्त्रीवल्लीस्त्रीसरित्स्त्री
genderपुंmasc.
स्तम्बे तु गुच्छो धान्यादेर्नाले काण्डोऽफले त्विह ।स्यात् पलालो धान्यत्वचि तुषः बुसे कडङ्गरः ॥ ४०१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शिलीमुखः शरो बाणो मार्गणो रोपणः कणः ।इषुः काण्डं क्षुरप्रं च नाराचं तोमरं खगः ॥ ७८ ॥
अनुष्टुप्
genderक्लीneut.
अवद्यमपकृष्टं च निकृष्टं ब्रुवरेफसी ।याप्यं काण्डावमे चेलं कुपूयं खेटमेव च ॥ ३३१ ॥
अनुष्टुप्
genderविadj.
लक्ष्यं शरव्यकं वेध्यं बाणनाम शराशुगौ ।काण्डः पत्रीषुनामाथ पत्रवाहश्च सायकः ॥ ३८३ ॥
अनुष्टुप्
genderपुंmasc.
खण्डवारुण्डकाण्डानि मण्डषण्डाण्डदण्डकाः ।आक्रीडवारबाणौ च बाणकार्षांपणव्रणाः ॥ १३७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
प्रतानिनी लता वीरुद्गुल्मिनी व्रततिर्द्रुगा ।अङ्कुरो द्विदलः काण्डः प्रकाण्डो मूलमस्तकम् ॥ १५० ॥
अनुष्टुप्
genderपुंmasc.
जीवनं सर्वभद्रं च पाथः काण्डं कुशं विषम् ।भूसारं सारसाधारं सारं नीरं जलं जडम् ॥ ४ ॥
अनुष्टुप्
genderक्लीneut.
निषङ्गस्तूणतूणीरावुपासङ्गस्तथेषुधिः ।इषुर्बाणः शरः पत्री काण्डो विशिख आशुगः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
बाणः काण्डः कलम्बश्च कादम्बश्चोऽस्त्रकण्टकः ॥ १२७१ ॥
अनुष्टुप्
genderपुंmasc.
स्तम्बो गुच्छो धान्यमूले नालं काण्डो भवेत् पुनः ।पलालश्च पलोऽफलः स्यात् तु वै धान्यत्वक् तुषः ॥ २१३१ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 फ (wrong syllable); pāda 4, syllable 5 न्य (wrong syllable)
genderपुंmasc.
करीरमस्ति वंशस्याङ्कुरेऽग्रं पूर्वभागतः ।काण्डमेरण्डवंशादौ विरूढः स्यात् फलाङ्कुरे ॥ २१३५ ॥
अनुष्टुप्
genderक्लीneut.
अधममणकं गर्ह्यं निकृष्टं काण्डकुत्सिते ।अवद्यमपकृष्टञ्च प्रतिकृष्टं ब्रुवं पुनः ॥ २६२० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
genderविadj.
इरा कमन्धं नारोदं जडपीथ-घृत-क्षरम् ।ऋतमूर्जं काण्ड-सरं कोमलं सोम इत्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
genderक्लीneut.
वृक्षादिदैर्घ्य उच्छ्राय उत्सेध उच्छ्रयोऽपि च ।स्कन्धः काण्डः प्रकाण्डोऽस्त्री मूलाच्छाखावधेस्तरोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
genderपुंक्लीm. n.
मूलपत्रकरीराग्रफलकाण्डविरूटकम् ।त्वक् पुप्पं कवकञ्चैव शाकं दशविधं स्मृतम् ॥
अनुष्टुप्
genderक्लीneut.
धनुर्ना तावरं क्लीबे स्यादिष्वासः शरासनम् ।तृणता काण्डमित्येवं क्वचित् केचित् प्रचक्षते ॥
अनुष्टुप्
genderक्लीneut.
कलम्वः स्याद्वीरतरो मार्गणोऽप्याशुगः खगः ।तूणक्ष्वेडः पृषत्केषुरोपकाण्डविपर्यकाः ॥
अनुष्टुप्
genderपुंmasc.
रेफकाण्डौ गर्हितः स्यात् प्रतिकृष्टः प्रकृष्टकः ।मलीमसः कच्चरः स्यात् मलिनौ मलदूषितः ॥
अनुष्टुप्
genderविadj.
सर्गोद्यतपरिच्छेदपटलाध्यायसंग्रहाः ।उल्लासः परिवर्तश्च वर्गाङ्ककाण्डमस्त्रियाम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्क (wrong syllable)
genderपुंक्लीm. n.
पत्रिशरविशिखसायकबाणपृषत्काशुगप्रदराः ।काण्डखगरोपमार्गणनालीकाधोमुखकलम्बाः ॥ १३३० ॥
उपगीतिः
genderपुंmasc.
भद्रमूषिक आसन्दी कुन्दुरुन्दुरुरुन्दुरः ।मूषको वज्रदशनः क्रमः काण्डो बिलेशयः ॥ १३१ ॥
अनुष्टुप्
genderपुंmasc.
उच्छ्वासः परिवर्तश्च पटलः काण्डमस्त्रियाम् ।स्थानं प्रकरणं पर्वाह्निकं च ग्रन्थसन्धयः ॥ २५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
इक्ष्वादेर्ग्रन्थिभेदे द्रुप्रकाण्डेऽवसरेऽपि च ।काण्डी तु हस्तिपिप्पल्यां स्त्री कारस्तु महीपतेः ॥ १९१ ॥
अनुष्टुप्
काण्ड as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् पीलुद्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः । Amarakośa 3.3.363
- धरणिकोश वाणशोणः कोकनदच्छवौ निगदितः शोणः समुद्रान्तरं शोणो लोहितघोटकोऽपि च तयोर्भेदे च शोणः स्मृतः । वाणः स्यादसुरान्तरे कविवरे वाणी च वाग्देवता वाणौ केवलकाण्डयोश्च कथितौ वाणा स्मृता झिण्टिका ॥ Dharaṇikośa 14.2.1
- धरणिकोश पीलुपीलुर्मतो गजे वृक्षे क्रिमौ काण्डप्रसूनयोः । कीलः कफोणिकाघाते स्थाणौ च ज्वलनार्चिषि ॥ Dharaṇikośa 27.2.5
- कोषकल्पतरु बाणधान्यांशेऽतितनौ कणो नरि युगे त्वेष स्फुलिङ्गे लवे कृष्णाजीरकयोश्च नक्तजकृमौ च स्त्री रणस्तु क्वणे । कोणेऽस्त्री तु स संगरे नरि पुनः सत्वादिसंध्यादिक- श्वेताद्येषु वृकोदरे पचिकरे रत्यां च विद्यादिंषु । व्यायामेन्द्रियदानपोपरगते(?)धर्मे च ना स्याद्गुणो- ऽथ व्यापारमुहूर्तपर्वसु महे सूक्ष्मेऽपि काले क्षणः । ना द्यूतव्यवहारवित्तभृतिषु स्याच्छ्वेंतकानां मितौ मूल्ये चामिषशाककेऽपि च पणः कार्षापणेऽपीरितः । संख्यासैन्यविशेषयोः पशुपतेर्भृत्येषु संघे गणो घ्राते घ्राण[278b]मुदीरितं च परवत्तन्नासिकायां द्विमुक् । काणो ना करटे तथैकनयने त्रय्यां स्त्रियां त्वौषधौ बाणो ना दनुजे स्त्रियां कुसुमभित्काण्डाङ्गकाण्डेषु च ॥ ३ ॥ Koṣakalpataru 6.15.3
- कोषकल्पतरु घातघातस्तु काण्डे प्रहृतौ च पोतः पुनर्वहित्रे पृथुके च पुंसि । लोतं तु मुष्टेऽश्रुणि ना तु मेषे गीतं पुनः शब्दितगानयोः स्यात् ॥ १३ ॥ Koṣakalpataru 6.16.13
- कोषकल्पतरु दायकाण्डेऽपि दायस्तु विभाज्यवित्ते सोल्लुण्ठवाक्ये युतकोत्थवित्ते । दानेऽथ बाहुल्यसदृक्षयोः स्यात् प्रायस्तथैवानशने च मृत्यौ ॥ ७ ॥ Koṣakalpataru 6.26.7
- कोषकल्पतरु शरनासानिले मध्यमपञ्चमादौ शरोऽस्त्रियां तेजनके च काण्डे । दध्यग्रके वारिणि तु द्वयोने धरस्तु शैले कमठाधिपे च ॥ ३ ॥ Koṣakalpataru 6.27.3
- कोषकल्पतरु नालक्रूरे गजे श्वापदवाचकश्च व्यालोऽथ नालं त्रिषु पद्मदण्डे । काण्डे पुमाञ्शाककदम्बके स्त्री पुमांस्तथा स्याज्जलनिर्गमेऽपि ॥ ६२ ॥ Koṣakalpataru 6.28.62
- कोषकल्पतरु पीलु… तथा शाकविशेषके च स्यात्पोतके भेलककन्दकेऽन्त्ये । पीलुः पुमान्स्रंसित[67b]रौ गजे च तालास्थिखण्डे कुसुमे च काण्डे ॥ ७७ ॥ Koṣakalpataru 6.28.77
- नानार्थार्णवसंक्षेप शल्यशल्यमस्री शलाकायां शङ्कुसंज्ञायुधान्तरे । अजयस्तु वदत्येनं काण्डेऽर्थस्तस्य चिन्त्यताम् ॥ १३०६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1306
- नानार्थार्णवसंक्षेप सवनतद्वतिच्छादिते चाथ सवत्तं क्लीबलिङ्गकम् । सोमाभिषवणे स्नाने काण्डेऽथो शाकटायनः ॥ १८९६ ॥ Nānārthārṇavasaṃkṣepa 4.1896
- परमानन्दीयनाममाला नालनन्दा तिथ्यन्तरे वाचि मणिकेऽथ नलं कजे । पितृदेवे कपौ वृक्षे नालं काण्डमृणालयोः ॥ २६६ ॥ Paramānandīyanāmamālā 5.18.266
- परमानन्दीयनाममाला पीलुपीलुः काण्डे तरौ पुष्पे परमाणौ मतङ्गजे । पृथुर्भूपे विशाले च पुरं मन्दिरदेहयोः ॥ २९१ ॥ Paramānandīyanāmamālā 5.19.291
- शब्दरत्नावली वारणपुमांस्तु न स्त्रियां रूपभेदाक्षरविलेपने । वारणो दैत्यान्तरे काण्डे केवले गोस्तनेऽपि च ॥ Śabdaratnāvalī 7.15.15
- शब्दरत्नावली बादरायणरोमहर्षणं रोमाञ्चे सूते विभीतके पुमान् । बादरायण उन्मत्ते काण्डे च करपात्रके ॥ Śabdaratnāvalī 7.15.99
- शब्दरत्नावली पुष्करपुष्करं हस्तिहस्ताग्रे वाद्यभाण्डे मुखे जले । व्योम्नि खङ्गफले काण्डे पद्मे तीर्थोषधीभिदोः ॥ Śabdaratnāvalī 7.27.89
- शब्दरत्नावली पीलुपालीच्छात्रादिदेये तु यूकाश्पश्रुयुतस्त्रियोः । पीलुर्गजे द्रुमे काण्डे परमाणुप्रसूनयोः ॥ Śabdaratnāvalī 7.28.24
- त्रिकाण्डशेष विशिखाआदौ प्रधाने प्रमुखं वैशाखो मन्थमासयोः । काण्डे ना विशिखा रथ्या विशाखा भे गुहे पुमान् ॥ ५१ ॥ Trikāṇḍaśeṣa 3.3.51
- वैजयन्ती पीलुपीयुः काल उलूके च पीलुः काण्डे गजे द्रुमे । पुण्ट्राः कृमीक्षुतिलकाः पत्री श्येने शरे खगे ॥ ३२ ॥ Vaijayantī 6.1.32