कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ॡ

ḹ

In 4 kośas: 0 synonym verses, 10 as a nānārtha head word.

धरणिकोश Dharaṇikośa · धरणिदास अकाराद्यन्ताः Dharaṇikośa 34.1.3 · p. 234
ऋ कथितोऽदितौ स्वर्गे तद्वल्लृद्वयमिष्यते ।एऐशब्दौ तु हेहैवदाह्वानामन्त्रणौ स्मृतौ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 थि (wrong syllable)
meanings
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास प्रथमः परिच्छेदः Paramānandīyanāmamālā 1.8 · p. 2
लृर्देव्यां लॄस्तु वाराह्यां लताभेदेऽपि कीर्तितः ।एर्विष्णुशैलयोरैश्च श[2]म्भावोर्धातरि स्मृतः ॥ ८ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश अव्ययवर्गप्रकाशः Śabdaratnāvalī 8.2 · p. 299
लृरदित्यां ॡ दितौ च एर्विष्णौ ऐर्महेश्वरे ।ओ ब्रह्मण्यौरनन्ते च अं विधौ अः पितामहे ॥
अनुष्टुप्
meaningsदिति
तन्त्राभिधान Tantrābhidhāna · अज्ञात मन्त्राभिधान Tantrābhidhāna 1.6 · p. 1
ऌः स्थाणुदक्षगुल्फस्थो गण्डाख्यः श्रीधरोऽपि च ।ॡ-कारोऽपि हृषीकेशो हरोऽसौ वामगण्डकः ॥ ६ ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात मन्त्राभिधान Tantrābhidhāna 1.35 · p. 4
ईकारो वेदमाता चं क्लीबं ऋ ॠ ऌ ॡ स्मृतम् ।एतत् सर्वं महेशानि! पठनीयं प्रयत्नतः ॥ ३५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ऋ (wrong syllable)
meanings
ॡकारः कमला हर्षा हृषीकेशो मधुव्रतः ।सूक्ष्मा कान्तिर्वामगण्डो रुद्रः कामोदरी सुरा ॥ ३२ ॥
अनुष्टुप्
का(शा)न्तिकृत् स्वस्तिका शक्रो मायावी लोलुपो वियत् ।दशमी सुस्थिरो माता नीलपीतो गजाननः ॥ ३३ ॥
अनुष्टुप्
कामिनी विश्वपा कालो नित्या शुद्धा शुचिः कृती ।सूर्या धैर्या कर्षणी च एकाकी दनुजप्रसूः ॥ ३४ ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात एकाक्षरकोषः Tantrābhidhāna 3.3 · p. 23
ऋ-कारो देवमाता स्याद् ॠ-कारो दनुजप्रसूः ।ऌ-कारो देवयोनिः स्याल् ॡ-र्माता सद्भिरुच्यते ॥ ३ ॥
अनुष्टुप्
meaningsमातृ
तन्त्राभिधान Tantrābhidhāna · अज्ञात बीजनिघण्टु Tantrābhidhāna 4.1 · p. 27
अ विद्युज्जिह्वा, आ कालवज्री, इ गर्जिनी,ई धूम्रभैरवी, उ कालरात्रिः, ऊ विदारी, ऋ महारौद्री,ॠ भयङ्करी, ऌ संहारिणी, ॡ करालिनी, ए ऊर्ध्वकेशी,ऐ उग्रभैरवी, ओ भीमाक्षी, औ डाकिनी, अं रुद्रराकिणी,अः चण्डिका, क क्रोधीशः, ख वामनः, ग चण्डः,घ विकारी, ङ उन्मत्तभैरवः, च ज्वालामुखः, छ रक्तदंष्ट्रः,ज असिताङ्गः, झ वडवामुखः, ञ विद्युन्मुखः, ट महाज्वालः,ठ कपाली, ड भीषणः, ढ रुरुः, ण संहारी, त भैरवः,थ दण्डी, द बलिभुक्, ध उग्रशूलधृक्, न सिंहनादी,प कपर्दी, फ करालाग्निः, ब भयङ्करः, भ बहुरूपी,म महाकालः, य जीवात्मा, र क्षतजोक्षितः, ल बलभेदी,व रक्तपटः, श चण्डीशः, ष ज्वलनध्वजः, स धूमध्वजः,ह व्योमवक्त्रः, क्ष त्र्यैलोक्यग्रसनात्मकः ॥
metre not recognised