कामिनी
kāminīस्त्री · fem.In 14 kośas: 16 synonym verses, 4 as a nānārtha head word, 12 as a meaning of another word.
विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना ।प्रमदा मानिनी कान्ता ललना च नितम्बिनी ॥ ३ ॥सुन्दरी रमणी रामा कोपना सैव भामिनी ।
अनुष्टुप्
genderस्त्रीfem.
रामा वामा वामनेत्रा पुरन्ध्री,नारी भीरुर्भामिनी कामिनी च ।योषा योषिद्वासिता वर्णिनी स्त्री,स्यात्सीमन्तिन्यङ्गना सुन्दरी च ॥ ४८१ ॥
शालिनी
genderस्त्रीfem.
स्त्री वधूटी वधू रामा मत्तकाशिनितम्बिनी ।वरारोहा भोगवती कामिनी वामलोचना ॥ ३४९ ॥
अनुष्टुप्
genderस्त्रीfem.
रमणी कामिनी कान्ता कोपना मत्तकाशिनी ।अङ्गना ललना भीरुर्भामिनी युवतिश्चरी ॥ ८ ॥
अनुष्टुप्
genderस्त्रीfem.
मण्डूकजननी मेध्या वीरा दिव्याऽपरा च सा ।सूक्ष्मपत्रा लघुब्राह्मी जलजाऽप्यथ कामिनी ॥ ५५५ ॥
अनुष्टुप्
genderस्त्रीfem.
वृत्ता श्यामा गन्धकान्ता कान्ताह्वा कामिनी प्रिया ।कारम्भा कङ्गुनी विष्वक्सेना गन्धफलीति च ॥ ४८ ॥
अनुष्टुप्
genderस्त्रीfem.
तद्विशेषा स्वनामानुरूपार्था भीरुरङ्गना ।कामिनी मानिनी कान्ता ललना वामलोचना ॥ ७ ॥
अनुष्टुप्
genderस्त्रीfem.
ह्रादिनी स्वेदनी कर्तनी काकिनीदामनी शिञ्जिनी वर्तनी कामिनी ।नीलिनी मालिनी चेतना भावनासामिधेनी तथा मातुलानी भवेत् ॥ ५८ ॥
स्रग्विणी
genderस्त्रीfem.
स्त्री नारी वनिता मुग्धा भामिनी भीरुरङ्गना ।ललना कामिनी योषिद् योषा सीमन्तिनीति च ॥ ३० ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्री नारी वनिता योषा ललना महिलाबला ।कामिनी भामिनी रामा रमणी च नितम्बिनी ॥ २ ॥
अनुष्टुप्
genderस्त्रीfem.
ललना कामिनी कान्ता सुन्दरी च नितम्बिनी ।प्रमदा रमणी रामा भाविनी भीरुरित्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
अङ्गना योषिदबला नारी वामा नितम्बिनी ।प्रतीपदर्शिनी योषा कामिनी वामलोचना ॥ १०३३ ॥
अनुष्टुप्
genderस्त्रीfem.
विशेषाः कामिनीकान्ताभीरुबिम्बाधराङ्गनाः ॥ १३६ ॥
genderस्त्रीfem.
भ्रूमध्यं माधवस्तुष्टिर्दक्षनेत्रञ्च नासिका ।शान्तः कान्तः कामिनी च कामो विघ्नविनायकः ।नेपालो भरणी रुद्रो नित्या क्लिन्ना च पावकः ॥ १३ ॥
अनुष्टुप्
genderस्त्रीfem.
वधूर्वामेक्षणा योषिदेकाक्षी स्त्री च कामिनी ॥स्त्रीं॥
genderस्त्रीfem.
प्रतीपदर्शिनी वामा प्रमदा भीरुरंगना ।अबला भामिनी कान्ता कामिनी वामलोचना ॥ ५ ॥
अनुष्टुप्
genderस्त्रीfem.
सेनानीस्तु गुहेऽन्यवद्बलपतौ स्याद्ध्रादिनी तु स्त्रियांवज्रे विद्युति कामिनी तु गदिता वन्दा शतावर्यपि ।सेनासैन्यभिदापगासु गदिता ज्ञैर्वाहिनी वर्तनि-स्त्वध्वा*सु च तर्कुपिण्डमलिनाद्ध्वा( ? )सूदिता कोविदैः ॥ ९५ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
त्रि तु वाग्विकले द्वे तु कामी सारसपक्षिणि ।त्रि तु कामवति स्त्री तु कामिनी ललनान्तरे ॥ २०३ ॥
अनुष्टुप्
meaningsललना
कामिनी as a meaning in nānārtha verses
- धरणिकोश प्रमदाप्रमदा कामिनी मत्ता प्रमदो हर्ष उच्यते । अर्बुदो मांसकीले तु संख्याभेदेऽपि चार्बुदः ॥ Dharaṇikośa 17.2.8
- धरणिकोश अङ्गनाजीवनं जीवने तोये जीवनी चौषधी स्मृता । अङ्गनं प्राङ्गणे गत्यामङ्गना कामिनी स्मृता ॥ Dharaṇikośa 19.2.54
- धरणिकोश श्यामाश्यामा रात्रौ शारिवायां श्यामौ च हरितासितौ । श्यामा प्रियङ्गुराख्याता श्यामा च कापि कामिनी ॥ Dharaṇikośa 24.3.7
- धरणिकोश वामवामं निर्भरसुन्दरद्रविणयोर्वामं प्रतीपार्थकं वामं सव्यमुदाहृतं कविवरैर्वामः स्मृतः शंकरः । वामः कामः पशौ पयोधरवरे वामा स्मृता कामिनी वामी स्याद्वडवा तथोष्ट्रकवधूर्वामी शिवा गर्दभी ॥ Dharaṇikośa 24.3.8
- नानार्थार्णवसंक्षेप मनाकाअथो मनाका कामिन्यां हस्तिन्यां च प्रकीर्तिता । अथात्र रभसेनायमर्धश्लोक उदारितः ॥ ६८ ॥ Nānārthārṇavasaṃkṣepa 3.1.68
- नानार्थार्णवसंक्षेप ललनाएष्वेवार्थेषु विज्ञेयं ललनं तु नपुंसकम् । विलासे ललना तु स्त्री कामिन्यां रभसः पुनः ॥ १५४८ ॥ Nānārthārṇavasaṃkṣepa 4.1548
- शब्दरत्नावली सिन्दूरतिलकमतङ्गे पुंसि कामिन्यां सिन्दूरतिलकः स्त्रियाम् । Śabdaratnāvalī 7.1.220
- शब्दरत्नावली अङ्गनाअसनो वृक्षभेदे स्यादसनं क्षेपणेऽपि च । अङ्गनाऽपि च कामिन्यां क्लीबं प्राङ्गनयानयोः ॥ Śabdaratnāvalī 7.20.28
- शब्दरत्नावली ललनारोचना स्त्री तु गोपित्ते रक्तकह्लारयोषितोः । रोचनः कूटशाल्मल्यां पुंसि स्याद्रोचके त्रिषु ॥ रोही वटद्रुमेऽश्वत्थे तया रोहितके पुमान् । लङ्घनं क्रमणे चोपवासे प्लवनेऽपि च ॥ ललना स्त्री शिवाभेदरसनाकामिनीषु च । लेखनन्तु लिपिन्यासे भूर्जे च छर्दनेऽपि च ॥ वर्जनं हिंसने दाने तथा त्यागविशेषके । वपनं मुण्डने क्लीबं वीजाधानेऽपि तत्स्मृतम् ॥ Śabdaratnāvalī 7.20.70
- तन्त्राभिधान ॡकामिनी विश्वपा कालो नित्या शुद्धा शुचिः कृती । सूर्या धैर्या कर्षणी च एकाकी दनुजप्रसूः ॥ ३४ ॥ Tantrābhidhāna 2.11.34
- तन्त्राभिधान ततः पूतना हरिः(विः) शुद्धिः शक्ती शक्तिर्जटी ध्वजा । वामस्फिग्वामकट्यौ च कामिनी मध्यकर्णकः ॥ १०२ ॥ Tantrābhidhāna 2.33.102
- वैजयन्ती मनाकामहिषी पशुराट्पत्न्योर्मर्यादा सीम्नि धारणे । पेटा पुरी च मञ्जूषा मनाका कामिनी गजी ॥ १९ ॥ Vaijayantī 7.2.19