वियत्
viyatक्ली · neut.In 19 kośas: 23 synonym verses, 17 as a meaning of another word.
व्योमान्तरिक्षं गगनं घनाश्रयो विहाय आकाशमनन्तपुष्करे ।अभ्रं सुराभ्रोडुमरुत्पथोऽम्बरं खं द्योदिवौ विष्णुपदं वियन्नभः ॥ १६३ ॥
upajati 12
genderक्लीneut.
द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् ।नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम् ॥वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी ।विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम् ॥तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम् ।विहायाः शकुने पुंसि गगने पुन्नपुंसकम् ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
नभो मरुद्वर्त्म वियद्विहाय-स्तारापथः पुष्करमन्तरिक्षम् ।व्योमाम्बरं विष्णुपदं च खं द्यौ-र्विहायसा स्याद्गगनं तथा द्युः ॥ १३७ ॥
उपजातिः
genderक्लीneut.
वायुगर्भः सूर्यरथो वियद्विष्णुपदं पदम् ।दिग्दिशाशाककुब्दीर्णिर्हरिद्देववधूः सरिः ॥ ३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सू (wrong syllable)
genderक्लीneut.
गोनन्दाङ्कनवानां च ग्रहखेटा खगास्तथा ।शून्याभ्रगगनं व्योम खमंबर नभो वियत् ॥ २६ ॥
अनुष्टुप्
genderक्लीneut.
अन्तरिक्षं नभो व्योम गगनं सुरवर्त्म खम् ।वियद्विष्णुपदं दिव्यं वायुवर्त्म विहायसम् ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
पुंस्याकाशः क्लीबपुंसोर्विहायाः षण्नभोम्बरम् ।पुष्करं व्योम गगनमनन्तं खं दिवं वियत् ॥ २२ ॥
अनुष्टुप्
genderक्लीneut.
व्योमाम्बरं पुष्करमन्तरिक्ष-मत्रान्तरिक्षे सरकोऽस्त्रियां खम् ।अनन्तमाष्ट्रं गगनं वियच्चनभो नभाकं नभसो नभश्च ॥ १ ॥
उपजातिः
genderक्लीneut.
नपुंसके नाम-धनान्धकार-वियद्धृषीकाम्बुरुहाम्बु-खानाम् ।रत्नान्त्र-सूक्ताशुभ-पुण्य-दुःख-सुखान्न-गासृक्पिशिताशनानाम् ॥ ७० ॥
उपजातिः
genderक्लीneut.
एते स्त्रीलिङ्गे उदिताः कथिताः । इयं शाला गृहविशेषः । माला स्रक् । दोला क्रीडासाधनम् । वेला कूलं समुद्रस्य । फेला भक्तोच्छिष्टं धानाश्च । शिला अश्मा । तुला पलशतानुमानम् । लीला अतिरसकोविदश्च । सेना हस्त्यश्वपदातिसमुदायः । पालिः पङ्क्तिप्रदेशः । बलिः करः उपहारः । दद्रुः कुष्ठविशेषः । वागुरा मृगबन्धनी रज्जुः ।पातालजालमलखलकपालशैवालशीलनालानिचीरचीवरवियन्ति च विद्धि तृतीयाप्रकृतिकानि ॥ ३७ ॥
metre not recognised
genderक्लीneut.
खं विहायो वियद्व्योम गगनाकाशमम्बरम् ।द्यौर्नभोऽभ्रोऽन्तरीक्षं च मेघवायुपथोऽप्यथ ॥ ५३ ॥
अनुष्टुप्
genderक्लीneut.
भगं नित्यं च नीरूपं मूलस्थानं च शाश्वतम् ।ब्राह्मीरन्ध्रं च संपूर्णं वियद्विः खगमङ्गणम् ॥ ८ ॥
अनुष्टुप्
genderक्लीneut.
अन्तरिक्षं वियद्व्योम खं विहायो महाविलम् ।इन्द्रः शचीपतिर्वज्री सुत्रामा पाकशासनः ॥ ३३२ ॥
अनुष्टुप्
genderक्लीneut.
वियद्विहायोऽनन्तं च सुरवर्त्म घनाश्रयः ।आदित्यः सविता सूर्यो रविर्भानुर्दिनेश्वरः ॥ ६० ॥
अनुष्टुप्
genderक्लीneut.
वियद्विष्णुपदं खञ्च द्यौदिवौ च मरुत्पथः ।व्योमाऽनन्तं विहायश्च पुष्करं गगनं नभः ॥ १६४ ॥
अनुष्टुप्
genderक्लीneut.
सुरवर्त्म मरुद्वर्त्म मेघवर्त्म वियन्नभः ।द्वे स्त्रियौ द्यो-दिवौ वा तु पुंस्याकाश-विहायसी ॥
अनुष्टुप्
genderक्लीneut.
विष्णुपदं वियदम्बरमभ्रमनन्तं नभोऽन्तरिक्षं खम् ।व्योमसुरवर्त्मपुष्करगगनानि द्योदिवौ स्त्रियावस्त्री ॥ १५९ ॥
गीतिः
genderपुंक्लीm. n.
ब्रह्मा वामाऽऽद्यजो ह्रस्वः करसूः प्रणवाद्यकः ।ब्रह्माणी कामरूपश्च कामेशी वासिनी वियत् ॥ ७ ॥
अनुष्टुप्
genderक्लीneut.
पितामहो द्विठान्तो भूः क्रिया कान्तिश्च सम्भवः ।द्वितीया मानदा काशी विघ्नराजः कुजो वियत् ।स्वरान्तकश्च हृदयमङ्गुष्ठो भगमालिनी ॥ ११ ॥
अनुष्टुप्
genderक्लीneut.
वियत् स्पर्शश्च हृद्धंस इला ग्रासः क्रमाः स्मृताः ।मातृकावर्णसंज्ञास्तु ता ज्ञात्वा चोद्धरेन्मनून् ॥ ५८ ॥
अनुष्टुप्
genderक्लीneut.
विभुः खं स्वर्द्युरभ्रं च व्योम शून्यं नभो वियत् ।हंसश्चाकाशवर्णानां संज्ञा माया विसर्गतः ॥ ६० ॥
अनुष्टुप्
genderक्लीneut.
विभुः-ऌ, स्वः-ॡ, खं-अं, द्युः-ङ, अभ्रं-ञ, व्योम-ण, शून्यं-न, नभः-म, वियत्-श, हंसः-ह
metre not recognised
genderक्लीneut.
अंतरिक्षं नभो व्योम गगनं सुरवर्त्म खम् ।वियद्विष्णुपदं दिव्यं वायुवर्त्म विहायसम् ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
वियत् as a meaning in nānārtha verses
- कोषकल्पतरु विष्णुपदक्लीबे विष्णुपदं सरोजवियतोः क्षीराम्बुधौ त्वादिमे स्त्रीसंक्रान्तिकुशस्थलीसुरधुनीसंज्ञासु संकीर्तितम् । स्याद्देशे च जने पुमाञ्जनपदोऽथो पुंस्त्वव( ? )खेचरे रम्योक्तौ परवत्प्रियंवद इति प्रोक्तोऽववादः पुनः ॥ ४२ ॥ Koṣakalpataru 6.19.42
- नानार्थार्णवसंक्षेप विहायस्विहाया वियति द्वे तु विहगे महति त्रिषु । स्तेने च ना तु वीरोज्झो योऽग्निहोत्रं स्वयं नहि ॥ १७३६ ॥ Nānārthārṇavasaṃkṣepa 4.1736
- शब्दरत्नावली सर्वतोमुखसर्वतोमुख उग्रे च ब्रह्मब्राह्मणयोः पुमान् । क्लीबं वियति पानीये क्षेत्रज्ञे च पुमानयम् ॥ Śabdaratnāvalī 7.2.20
- शब्दरत्नावली जूजो विषे वेगिते भुक्तौ तेजः पिशाचजेतृषु । जूः स्याद्वियतिभारत्यां पिशाच्यां यवने स्त्रियाम् ॥ Śabdaratnāvalī 7.8.1
- शब्दरत्नावली सूमसूमं नपुंसकं क्षीरे सलिले च वियत्यपि । सोमश्चन्द्रे समीरे च पितृदेवे धनाधिपे ॥ Śabdaratnāvalī 7.25.28
- शब्दरत्नावली तूलीतुला माने च सादृश्ये भाण्डराशिप्रभेदयोः । तूली प(?) ब्रह्मदारुवियत्सु च नपुंसकम्(?) ॥ Śabdaratnāvalī 7.28.19
- शब्दरत्नावली नभस्नभः क्लीबं वियति ना मेघे श्रावणप्रावृषोः । पनवः कण्टकिफले कन्टके वानरान्तरे ॥ Śabdaratnāvalī 7.32.25
- शब्दरत्नाकर द्योतृडाशायां पिपासायां द्वास्तु द्वाराभ्युपाययोः । द्योदिवौ स्वर्गवियतोराशोपायगमेषु दिक् ॥ २२४३ ॥ Śabdaratnākara 4.1.2243
- तन्त्राभिधान अनुस्वारअनुस्वारश्च बिन्दुश्च दण्डो दण्डी वियद्विदुः । प्रद्युम्नश्चाक्रूरश्चापि शीर्षञ्च मरणं प्रिये! ॥ ११ ॥ Tantrābhidhāna 1.11
- तन्त्राभिधान ऌऌः स्थाणुः श्रीधरः शुद्धो मेधा धूम्रो बको वियत् । देवयोनिर्दक्षगण्डो वहेशः कौन्त-रुद्रकौ ॥ २९ ॥ Tantrābhidhāna 2.10.29
- तन्त्राभिधान ॡका(शा)न्तिकृत् स्वस्तिका शक्रो मायावी लोलुपो वियत् । दशमी सुस्थिरो माता नीलपीतो गजाननः ॥ ३३ ॥ Tantrābhidhāna 2.11.33
- तन्त्राभिधान अंशिरः शम्भुर्नरेशश्च सुखदुःखप्रवर्तकः । पूर्णिमा रेवती शुद्धः कन्याचर(रो) रविर्वियत् ॥ ५१ ॥ Tantrābhidhāna 2.16.51
- तन्त्राभिधान ङकान्तिः श्वेताह्वयो धीरो द्विजात्मा ज्वालिनी वियत् । मन्त्रशक्तिश्च मदनो विघ्नेशी चात्मनायकः ॥ ७० ॥ Tantrābhidhāna 2.22.70
- तन्त्राभिधान ञञ-कारो बोधिनी विश्वा कुण्डली म(सु)खदो वियत् । कौमारी नागविज्ञानी सव्याङ्गुलनखो बकः ॥ ८६ ॥ Tantrābhidhāna 2.27.86
- तन्त्राभिधान नवामनो ज्वालिनी दीर्घो निरीहः सुगतिर्वियत् । शब्दात्मा दीर्घघोणा च हस्तिनापुर-मेचकौ ॥ ११९ ॥ Tantrābhidhāna 2.37.119
- तन्त्राभिधान ममातङ्गमालिनी बिन्दुः श्रवणाभं रथो वियत् ॥ १३८ ॥ Tantrābhidhāna 2.42.138
- तन्त्राभिधान शबाहुर्हंसो वियत् वक्त्रं हृदनङ्गाङ्कुशः खलः । वामोरुः पुण्डरीकात्मा कान्तिः कल्याणवाचकः ॥ १५५ ॥ Tantrābhidhāna 2.47.155