All kośas › Tantrābhidhāna
तन्त्राभिधान Tantrābhidhāna
821 verses · 5,340 words tagged · 1,460 marked doubtful (dashed)
मन्त्राभिधान
ॐ नमः
श्रीतन्त्राभिधानम्
[1]मन्त्राभिधानम् । (Sloka count: 30+5)
अथ मन्त्राभिधानम्
श्रीभैरव उवाच-
अ-कारः केशवो विष्णुः श्रीकण्ठोऽपि स्वरादिकः ।मस्तकञ्च ललाटञ्च ह्रस्वश्च वरवर्णिनि! ॥ १ ॥
1.1 · p. 1
अनुष्टुप्
आ प्रतिष्ठा मुखं दीर्घं नारायणोऽप्यनन्तकः ।इ-कारो माधवः सूक्ष्मो दक्षनेत्रञ्च लोचनम् ॥ २ ॥
1.2 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)
ई-र्गोविन्दस्त्रिमूर्तिः स्याद् वामाक्षि कमला कला ।माया लक्ष्मी रतिः शान्तिर्वैष्णवी बिन्दुमालिनी ॥ ३ ॥
1.3 · p. 1
अनुष्टुप्
उः शिवः प्रणवं विष्णुर्दक्षकर्णोऽमरेश्वरः ।ऊ-रर्घीशो वामकर्णः कथितो मधुसूदनः ॥ ४ ॥
1.4 · p. 1
अनुष्टुप्
ऋ-र्नासा दक्षनासा च भाव(र)भूतिस्त्रिविक्रमः ।ऋ-कारो वामनासा च वामनोद्यदधीश्वरः ॥ ५ ॥
1.5 · p. 1
अनुष्टुप्
ऌः स्थाणुदक्षगुल्फस्थो गण्डाख्यः श्रीधरोऽपि च ।ॡ-कारोऽपि हृषीकेशो हरोऽसौ वामगण्डकः ॥ ६ ॥
1.6 · p. 1
अनुष्टुप्
ए-कारो विजया शक्तिर्भगसंज्ञाभिधायकः ।पद्मनाभो महेशानि! प्रोक्तो झिण्टीशनायकः ॥ ७ ॥
1.7 · p. 1
अनुष्टुप्
-----------------------------------ऐ-कारो भौतिकश्चैव दामोदरोऽधराह्वयः ।अष्टस्वरोऽपि विज्ञेयो हिमपर्वतकन्यके! ॥ ८ ॥
1.8 · p. 1
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
ओ-कारश्चोर्ध्वदन्तश्च सद्योजातश्च सत्यकः ।वासुदेवो महेशानि! दन्तोमे परिकीर्त्तितः ॥ ९ ॥
1.9 · p. 2
अनुष्टुप्
औ-कारो मनुराख्यातो दन्तान्तोऽधोरदाह्वयः ।सङ्कर्षणोऽपि देवेशि! कथितोऽनुग्रहेश्वरः ॥ १० ॥
1.10 · p. 2
अनुष्टुप्
अनुस्वारश्च बिन्दुश्च दण्डो दण्डी वियद्विदुः ।प्रद्युम्नश्चाक्रूरश्चापि शीर्षञ्च मरणं प्रिये! ॥ ११ ॥
1.11 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्रू (wrong syllable)
विसर्गः सर्ग आख्यातो विष(प)द्विषममानसः ।अनिरुद्धो महासेनः कलाज्ञोऽपि रमापि च ॥ १२ ॥
1.12 · p. 2
अनुष्टुप्
कः क्रोधीशो मुखं चक्री व्रतदेवः सुरो रविः ।ख-श्चण्डो देवि! चण्डेश ऋद्धिश्चैव तथा गदी ॥ १३ ॥
1.13 · p. 2
अनुष्टुप्
ग-कारो देवि! शारङ्गी स्मृतिः पञ्चान्तकोऽपि च ।घ-कारश्च महेशानि! खड्गी चैव शिवोत्तमः ॥ १४ ॥
1.14 · p. 2
अनुष्टुप्
ङ-कारश्चैव रुद्रश्च शङ्खी चैव वरानने! ।च-कारः कूर्चसंज्ञः स्यात् कथितश्च प्रिये! हली ॥ १५ ॥
1.15 · p. 2
अनुष्टुप्
छ-कारो मुषली ज्ञेय एकनेत्रश्च शैलजे! ।जः शिवोऽर्चिर्महेशानि! शूली च चतुराननः ॥ १६ ॥
1.16 · p. 2
अनुष्टुप्
झः पाशी स्यादजेशश्च ञ-कारः सर्वकोऽङ्कुशी ।ट-कारो देवि! सोमेशो मुकुन्दश्च प्रकीर्त्तितः ॥ १७ ॥
1.17 · p. 2
अनुष्टुप्
ठ-कारो लाङ्गली चन्द्रो नन्दयोनिर्नगात्मजे! ।ड-कारश्च महेशानि! खड्गार्धाकारसंज्ञकः ॥ १८ ॥
1.18 · p. 2
अनुष्टुप्
-----------------------------------ढ-कारश्चार्धनारीशो नवश्च परमेश्वरि! ।ण-कारश्चात्युमाकान्तो विज्ञेयो नरजित् प्रिये! ॥ १९ ॥
1.19 · p. 2
अनुष्टुप्metre not read in every line
त-कारो हरिराख्यात आपटी च वरानने! ।थ-कारो देवदेवेशि! कुष्ठो दण्डी च कीर्त्तितः ॥ २० ॥
1.20 · p. 3
अनुष्टुप्
द-कारः सत्यसंज्ञः स्यादद्रिश्च परमेश्वरि! ।ध-कारश्च महेशानि! मीनः सानुग एव च ॥ २१ ॥
1.21 · p. 3
अनुष्टुप्
न-कारो मेषसंज्ञः स्याद्दीर्घी सौरिश्च कीर्त्तितः ।प-कारो लोहितः पार्श्वं शूरश्च परमेश्वरि! ॥ २२ ॥
1.22 · p. 3
अनुष्टुप्
भ-कारश्च द्विवचनो विश्वमूर्तिश्च कीर्त्तितः ।म आदित्यो महाकालो वैकुण्ठोऽपि विषं प्रिये! ॥ २४ ॥
1.24 · p. 3
अनुष्टुप्
यकारः पवनः काली पुरुषोत्तम एव च ।रोऽसुः पञ्चकसीशोऽग्निरङ्कुशं परगुर्विणी ॥ २५ ॥
1.25 · p. 3
अनुष्टुप्
ल-कारश्च पिनाकीश इन्द्रांशौ स्वर्बलानुजः ।व-कारो वरुणो बालो मेदः खड्गीश्वरोऽजरः ॥ २६ ॥
1.26 · p. 3
अनुष्टुप्
श-कारश्च महेशानि! वृषघ्नः कथितो बकः ।ष-कारः श्वेत आख्यातो मूर्द्धन्यो वृषसंज्ञकः ॥ २७ ॥
1.27 · p. 3
अनुष्टुप्
सः कुली शक्तिराख्यातो हंसो दुःखीशसंज्ञकः ।भृगुर्देवी च परमा चन्द्रोऽपि परमेश्वरि! ॥ २८ ॥
1.28 · p. 3
अनुष्टुप्
ह-कारो नकुलीशोऽपि हंसः प्राणोऽङ्गुलं प्रिये ।महेशो नकुली चैव वराहो गगनं रविः ॥ २९ ॥
1.29 · p. 3
अनुष्टुप्
-----------------------------------ळ-कारो विमलो जीवः शिवो भूमिर्वरानने! ।क्ष-कारो नरसिंहश्च मेरुः संवर्तकोऽपि च ॥ ३० ॥
1.30 · p. 3
अनुष्टुप्metre not read in every line
तव स्नेहान्महादेवि! कथितं मातृकाक्षरम् ।पर्यायैरपि विज्ञेयं न प्रकाश्यं कदाचन ॥ ३१ ॥
1.31 · p. 4
अनुष्टुप्
ओङ्कारः प्रणवो ध्रुवश्च गिरिजे! तारश्च वेदादिकोह्रीं लज्जा गिरिजा च शक्तिरपि हृल्लेखा च माया परा ।श्रींकारः कमला च विष्णुवनिता क्रोङ्कारबीजं शृणिःस्वाहा वह्निवधूः शिरोऽपि ठयुगं फट्कारमस्त्राक्षरम् ॥ ३२ ॥
1.32 · p. 4
शार्दूलविक्रीडितम्
हूं कूर्चं परमेशि! दीर्घकवचं हुं वर्मवीजं नमःस्वान्तं हृच्च नतिस्तुषारगिरिजे! स्त्रींकारबीजं वधूः ।ऐङ्कारोऽपि च वाग्भवोऽथ सुतरां आंबीजकं पाशकंसौर्देवी च परा च शक्तिरथ वं तत् तोयबीजं प्रिये! ॥ ३३ ॥
1.33 · p. 4
शार्दूलविक्रीडितम्
क्लीं कामो ग्लौञ्च भूबीजं श्रौं विश्वः क्ष्रौं नृकेशरी ।हौं प्रासादं शिवो गञ्च विघ्नराज उदाहृतः ॥ ३४ ॥
1.34 · p. 4
अनुष्टुप्
ईकारो वेदमाता चं क्लीबं ऋ ॠ ऌ ॡ स्मृतम् ।एतत् सर्वं महेशानि! पठनीयं प्रयत्नतः ॥ ३५ ॥
1.35 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ऋ (wrong syllable)
-----------------------------------
1.36 · p. 4