कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

अव्ययवर्गः · अकाराद्यन्ताः

॥ अकाराद्यर्धश्लोकः ॥

अ स्वल्पार्थेऽप्यभावे च विष्णावीशे त्वनव्ययम् ।आङितीषदभिव्याप्तिसीमार्थे धातुयोगजे ॥
34.1.1 · p. 234
अनुष्टुप्
आ प्रगृह्यं स्मृतौ वाक्येऽनुकम्पायां समुच्चये ।ई रुषोक्तावखेदे च कामदेवे त्वनव्ययम् ॥
34.1.2 · p. 234
अनुष्टुप्
ऋ कथितोऽदितौ स्वर्गे तद्वल्लृद्वयमिष्यते ।एऐशब्दौ तु हेहैवदाह्वानामन्त्रणौ स्मृतौ ॥
34.1.3 · p. 234
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 थि (wrong syllable)
ओऔशब्दौ तु होहौवत्संबुद्ध्याह्वानयोः स्मृतौ ।निपातानामसत्वादि प्रायेणार्थाः प्रकीर्तिताः ।येचित्केचित्क्वचिद्ग्रन्थे मया प्राप्ताः प्रकीर्तिताः ॥
34.1.4 · p. 234
अनुष्टुप्