कमला
kamalāस्त्री · fem.In 19 kośas: 19 synonym verses, 7 as a nānārtha head word, 7 as a meaning of another word.
लक्ष्मीः पद्मा रमा या मा ता सा श्रीः कमलेन्दिरा ।हरिप्रिया पद्मवासा क्षीरोदतनयापि च ॥ २२६ ॥
अनुष्टुप्
genderस्त्रीfem.
लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया ॥इन्दिरा लोकमाता मा क्षीरोदतनया रमा ।भार्गवी लोकजननी क्षीरसागरकन्यका ॥ २७ ॥
अनुष्टुप्
genderस्त्रीfem.
लक्ष्मीः श्रीः कमला पद्मा पद्मवासा हरिप्रिया ।क्षीरोदतनया मा च शब्दज्ञैरिन्दिरा स्मृता ॥ ३१ ॥
अनुष्टुप्
genderस्त्रीfem.
कमला कमलावासभूमिका लोकमातृका ।प्रद्युम्नो मन्मथः श्रीमानड(?)मीनध्वजोऽङ्गजः ॥ ७ ॥
अनुष्टुप्
genderस्त्रीfem.
कालरुन्धो रन्तिदेवः शतावर्तो युगन्धरः ।लक्ष्मीः पद्मालया पद्मा कमला विष्णुवल्लभा ॥ १० ॥
अनुष्टुप्
genderस्त्रीfem.
हेमा सरस्वती कामा कमलाऽपि च सूनृता ।सुमुखा हंसपादा च वासोरी रतिलालसा ॥ ३३ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रियोन्नतिरुलूती स्यात्पुत्रस्तु सुमुखोऽथ च ।इन्दिरा चञ्चलार्था स्यान्मा रमा कमलापि च ॥ ५२ ॥
अनुष्टुप्
genderस्त्रीfem.
हरिप्रियाऽम्भोनिधिजा…श्रीःलक्ष्मीन्दिरा पङ्कजमन्दिरा श्रीः ।लक्ष्मीश्च लक्षी तरला रमानाम्आलोकमाता कमलाह्वया सा ॥ २७ ॥
इन्द्रवज्राmetre not read in every line
genderस्त्रीfem.
लक्ष्मीः क्षीरोदधिसुता श्रीः पद्मा कमला रमा ।पद्मवासा हरेः कान्ता ता सा या मेन्दिरापि च ॥ ९ ॥
अनुष्टुप्
genderस्त्रीfem.
गुलुची कलभा स्थूणा कमला चामरावती ।अमराचालिनी मेषा दुर्गाभारी मुदा परा ॥ ६४ ॥
अनुष्टुप्
genderस्त्रीfem.
उस्रा करौटी घाटी च कमला मोदकारिणी ।बहुक्षीरादिसुगुणयुक्तायां नैचिकी मता ॥ ४९७ ॥
अनुष्टुप्
genderस्त्रीfem.
रोधोवक्रा निर्झरिणी रङ्गिणी शैलिनी तथा ।गंगायां कमला सीता त्रिस्रोता भीष्मसूरपि ॥ ७१ ॥
अनुष्टुप्
genderस्त्रीfem.
कपिशाता गुण्डिका च कमला कर्ममोचनी ।ह्रादिन्यादिमहानद्यः सर्वास्ताः सिन्धुसंगताः ॥ ७९ ॥
अनुष्टुप्
genderस्त्रीfem.
शारङ्गाच्युतकोदण्डौ पृष्णिगर्भासिनन्दकौ ।इन्दिराऽब्धिसुता लक्ष्मी कमला कमलालया ॥ ३९५ ॥
अनुष्टुप्
genderस्त्रीfem.
लक्ष्मीः श्रीः कमला पद्मा मा रमा कमलालया ।इन्दिरा हरिपत्नी सा लोकमाताब्धिनन्दिनी ॥ २५ ॥
अनुष्टुप्
genderस्त्रीfem.
लक्ष्मीर्मा सा रमा पद्मा पद्मवासा हरिप्रिया ।इन्दिरा कमला ता श्री ई आ क्षीराब्धिमानुषी ॥ ३०९ ॥
अनुष्टुप्
genderस्त्रीfem.
लक्ष्मीः श्रीरिन्दिरा पद्मा कमला च हरिप्रिया ।पद्मालया जलधिजाभार्गवी सा च मा रमा ॥
अनुष्टुप्
genderस्त्रीfem.
पद्मायामीरी आ या च कमला कमलीन्दिरा ।इन्दिः श्री-लक्ष्म्यौ क्विब्यन्तौ यरौ शम्बर-संबरौ ॥ ९६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 री (wrong syllable); pāda 3, syllable 5 क्ष्म्यौ (wrong syllable)
genderस्त्रीfem.
वनमाला वैजयन्ती वक्षोरत्नं तु कौस्तुभम् ।इन्दिरा मा रमा लक्ष्मीः कमला कमलालया ॥ २५ ॥
अनुष्टुप्
genderस्त्रीfem.
हेमाद्यैश्चित्रिते चर्मण्यथ स्त्री कमला श्रियाम् ।मृगे तु द्वे कश्मलं तु क्लीबं मोहपुरीषयोः ॥ ३२९ ॥
अनुष्टुप्
meaningsश्री
सलिले करवालादेर्हेमाद्यैश्चित्रिताजिने ।कमला श्रीः कपर्दस्तु जटाजूटे वराटके ॥ २०५९ ॥
अनुष्टुप्
meaningsश्री
रक्ताब्जेऽब्जेऽप्सु च श्रीस्तु कमला कमलो मृगः ।अक्ली कोल्यां क्रोष्टुकोल्यां कर्कन्धूः स्त्री तु संयुगे ॥ २७ ॥
अनुष्टुप्
meaningsश्री
कमला as a meaning in nānārtha verses
- कोषकल्पतरु चपलस्त्रियां सुविद्युत्कमलाकणासु श्रियामसत्यां चरमे तु शीघ्रे । विशेष्यवत्स्यात्तरले चलेऽथा- स्त्री प्रस्तरे स्यादुपलश्च रत्ने ॥ ९४ ॥ Koṣakalpataru 6.28.94
- शब्दरत्नावली क्षीराब्धिजशीतभानौ पुमान् स्त्री तु कमलायां निगद्यते । ग्रहराजो हिमकरे गीष्पतौ च दिवाकरे ॥ Śabdaratnāvalī 7.8.33
- शब्दरत्नावली लम्बालम्बा स्यात्कमलागौर्य्योः स्यात् स्त्रियां तिक्ततुम्बीषु । बिम्बोऽस्त्री तु मण्डपे स्यात्प्रतिबिम्बे च पुंस्यपि ॥ Śabdaratnāvalī 7.23.6
- शब्दरत्नावली लक्ष्मीरुमा स्त्रियां लवणभित्सुग्रीवकान्तयोः स्त्रियाम् । अथ लक्ष्मीस्तु सम्पत्त्यां शोभायां वरयोषिति ॥ वृद्धिनामौषधे फल्यां कमलायामपि स्त्रियाम् । वमिर्वान्तौ स्त्रियामेव पुंसि धूर्ते हुताशने ॥ Śabdaratnāvalī 7.25.20
- तन्त्राभिधान ईई-र्गोविन्दस्त्रिमूर्तिः स्याद् वामाक्षि कमला कला । माया लक्ष्मी रतिः शान्तिर्वैष्णवी बिन्दुमालिनी ॥ ३ ॥ Tantrābhidhāna 1.3
- तन्त्राभिधान श्रींओङ्कारः प्रणवो ध्रुवश्च गिरिजे! तारश्च वेदादिको ह्रीं लज्जा गिरिजा च शक्तिरपि हृल्लेखा च माया परा । श्रींकारः कमला च विष्णुवनिता क्रोङ्कारबीजं शृणिः स्वाहा वह्निवधूः शिरोऽपि ठयुगं फट्कारमस्त्राक्षरम् ॥ ३२ ॥ Tantrābhidhāna 1.32
- तन्त्राभिधान ॡॡकारः कमला हर्षा हृषीकेशो मधुव्रतः । सूक्ष्मा कान्तिर्वामगण्डो रुद्रः कामोदरी सुरा ॥ ३२ ॥ Tantrābhidhāna 2.11.32