All kośas › Tantrābhidhāna
तन्त्राभिधान Tantrābhidhāna
821 verses · 5,340 words tagged · 1,460 marked doubtful (dashed)
एकाक्षरकोषः
[3]एकाक्षरकोषः । (Sloka count: 38)
अ-कारो वासुदेवः स्यादाकारश्च पितामहः ।पूजायामपि माङ्गल्ये आ-कारः परिकीर्त्तितः ॥ १ ॥
3.1 · p. 23
अनुष्टुप्
इ-कार उच्यते कामो लक्ष्मी-री-कार उच्यते ।उ-कारः शङ्करः प्रोक्त ऊ-कारश्चापि रक्षणे ॥ २ ॥
3.2 · p. 23
अनुष्टुप्
ऋ-कारो देवमाता स्याद् ॠ-कारो दनुजप्रसूः ।ऌ-कारो देवयोनिः स्याल् ॡ-र्माता सद्भिरुच्यते ॥ ३ ॥
3.3 · p. 23
अनुष्टुप्
ए-कारः कथितो विष्णुरै-कारश्च महेश्वरः ।ओ-कारस्तु भवेद्ब्रह्मा औ-कारो रुद्र उच्यते ॥ ४ ॥
3.4 · p. 23
अनुष्टुप्
अं स्याच्च परमं ब्रह्म अः स्याद्देवो महेश्वरः ।कः प्रजापतिरुद्दिष्टो को वायुरिति शब्दितः ॥ ५ ॥
3.5 · p. 23
अनुष्टुप्
क-श्चात्मा च समाख्यातः कः प्रकाश उदाहृतः ।कं शिरो जलमाख्यातं कं सुखञ्च प्रकीर्त्तितम् ॥ ६ ॥
3.6 · p. 23
अनुष्टुप्
-----------------------------------पृथिव्यां कुः समाख्याता कुत्सायां कुः प्रकीर्त्तितः ।ख-मिन्द्रियं समाख्यातं खमाकाशमुदाहृतम् ॥ ७ ॥
3.7 · p. 23
अनुष्टुप्metre not read in every line
खं स्वर्गे च समाख्यातं खं सर्पे च प्रकीर्त्तितम् ।तथा श्वभ्रे च खं प्राहुः खं शून्ये च प्रकीर्त्तितम् ॥ ८ ॥
3.8 · p. 24
अनुष्टुप्
गो गणपतिरुद्दिष्टो गो गन्धर्वः प्रकीर्त्तितः ।गं गीतं गा च गाथा स्याद् गौर्धेनुर्गौ सरस्वती ॥ ९ ॥
3.9 · p. 24
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ण (wrong syllable)
गौर्मातापि समुद्दिष्टा पृथिव्यां गौः प्रकीर्त्तिता ।घो घण्टायां समाख्यातः किङ्किणी घा प्रकीर्त्तिता ॥ १० ॥
3.10 · p. 24
अनुष्टुप्
उपमा घा समाख्याता कुस्वरे घुः प्रकीर्त्तितः ।हनने घा समाख्याता गन्धने घः प्रकीर्त्तितः ॥ ११ ॥
3.11 · p. 24
अनुष्टुप्
ङ-कारो भैरवः ख्यातो ङ-कारो विषये स्मृतः ।च-कारश्चन्द्रमाः ख्यातस्तस्करश्चः प्रकीर्त्तितः ॥ १२ ॥
3.12 · p. 24
अनुष्टुप्
निर्मलं छं समाख्यातं तरणी छः प्रकीर्त्तितः ।छेदने छः समाख्यातो विद्वद्भिः शब्दकोविदैः ॥ १३ ॥
3.13 · p. 24
अनुष्टुप्
वेगिते जः समाख्यातो जघने जः प्रकीर्त्तितः ।जेता च जः समाख्यातः प्रसिद्धैः शब्दकोविदैः ॥ १४ ॥
3.14 · p. 24
अनुष्टुप्
झञ्झावाते झ-कारः स्यान्नष्टे झः समुदाहृतः ।ञ-कारो गायने प्रोक्तो ञ-कारो धर्घरध्वनौ ॥ १५ ॥
3.15 · p. 24
अनुष्टुप्
टङ्कारे टः पृथिव्यां टा टो ध्वनौ च प्रकीर्त्तितः ।ठो महेश्वर आख्यातः शून्ये च ठः प्रकीर्त्तितः ॥ १६ ॥
3.16 · p. 24
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
बृहद्ध्वनौ च ठः प्रोक्तस्तथा चन्द्रस्य मण्डले ।ड-कारः शङ्करः प्रोक्तस्त्रासध्वन्योः प्रकीर्त्तितः ॥ १७ ॥
3.17 · p. 24
अनुष्टुप्
-----------------------------------ढ-कारः कीर्त्तिता ढक्का निर्गुणे च ध्वनावपि ।ण-कारः कीर्त्तितो ज्ञाने निर्णयेऽपि प्रकीर्त्तितः ॥ १८ ॥
3.18 · p. 24
अनुष्टुप्metre not read in every line
त-कारः कथितश्चौरः क्रोडे पुच्छे प्रकीर्त्तितः ।शिलोच्चये थ-कारः स्यात् थ-कारो भयरक्षणे ॥ १९ ॥
3.19 · p. 25
अनुष्टुप्
दं कलत्रे समाख्यातं दो दान-च्छेद-धातुषु ।धं धने च धनेशे धो धा धातरि निदर्शितः ॥ २० ॥
3.20 · p. 25
अनुष्टुप्
धिषणा धीः समाख्याता धूश्च स्याद्भार-चिन्तयोः ।न-कारः सुगते बन्धे नुः स्तुतौ च प्रकीर्त्तितः ॥ २१ ॥
3.21 · p. 25
अनुष्टुप्
नेता नीश्च समाख्यातस्तरणौ नौः प्रकीर्त्तिता ।(न-कारः सौगते बुद्धौ स्तुतौ सूर्ये च कीर्त्तितः ॥ २२ ॥
3.22 · p. 25
अनुष्टुप्
नशब्दः स्वागते बन्धौ वृक्षे सूर्ये च कीर्त्तितः ।)पः कुबेरः समाख्यातः पश्चिमे च प्रकीर्त्तितः ॥ २३ ॥
3.23 · p. 25
अनुष्टुप्
पवने पः समाख्यातः पाः पाने पाश्च पातरि ।कफे वाते फ-कारः स्यात्तथाह्वाने प्रकीर्त्तितः ॥ २४ ॥
3.24 · p. 25
अनुष्टुप्
झञ्झावाते फ-कारः स्यादक्षरे च प्रकीर्त्तितः ।कोपे फिश्च समाख्यातस्तथा निष्फलभाषणे ॥ २५ ॥
3.25 · p. 25
अनुष्टुप्
वक्षःस्थले च बः प्रोक्तो गदायां समुदाहृतः ।नक्षत्रं भं बुधैः प्रोक्तं भ्रमरे भः प्रकीर्त्तितः ॥ २६ ॥
3.26 · p. 25
अनुष्टुप्
भा दीप्तिरपि भूर्भूमिर्भीर्भयं कथिता बुधैः ।मः शिवश्चन्द्रमा वेधा मा च लक्ष्मीः प्रकीर्त्तिता ॥ २७ ॥
3.27 · p. 25
अनुष्टुप्
मा च मातरि माने च बन्धने मूः प्रकीर्त्तिता ।यशो यः कथितः शिष्टैर्यो वायुरिति शब्दितः ॥ २८ ॥
3.28 · p. 25
अनुष्टुप्
-----------------------------------याने यातरि यस्त्यागे कथितः शब्दवेदिभिः ।रः स्यात् कामेऽनिले वह्नौ शब्दे रुः परिकीर्त्तितः ॥ २९ ॥
3.29 · p. 25
अनुष्टुप्metre not read in every line
धने रा रीश्च रो धान्ये रुर्भये च प्रकीर्त्तितः ।ल इन्द्रे लवणे लः स्याल्ला दाने श्लेषणेऽपि लीः ॥ ३० ॥
3.30 · p. 26
अनुष्टुप्
लः श्लेषे चाशये चैव प्रलये साधनेऽपि लः ।मानसे वरुणे चैव ल-कारः सान्त्वनेऽपि च ॥ ३१ ॥
3.31 · p. 26
अनुष्टुप्
प्रचेता वः समाख्यातः कलसे वः प्रकीर्त्तितः ।पक्षी च विर्निगदितो गमने विः प्रकीर्त्तितः ॥ ३२ ॥
3.32 · p. 26
अनुष्टुप्
वदन्ति शं बुधाः श्रेयः शश्च शास्ता निगद्यते ।शीः शसं शयनं चाहुर्हिंसा शूश्च निगद्यते ॥ ३३ ॥
3.33 · p. 26
अनुष्टुप्
ष-कारः कीर्त्यते श्रेष्ठे षूश्च गर्भविमोचने ।उपसर्गे परोक्षे च ष-कारः परिकीर्त्तितः ॥ ३४ ॥
3.34 · p. 26
अनुष्टुप्
सोऽपसर्गः समाख्यातः सा तु लक्ष्मीर्निगद्यते ।सः कोपे करणे सः स्यात्तथा शूलिनि कीर्त्तितः ॥ ३५ ॥
3.35 · p. 26
अनुष्टुप्
स-कारो वानरः प्रोक्तः स-कारः सर्व उच्यते ।सा चैव गौः समाख्याता संसर्गः स प्रकीर्त्तितः ॥ ३६ ॥
3.36 · p. 26
अनुष्टुप्
हः कोपे धारणेऽपि स्यात् हः शूलिनि समीरितः ।हिः पद्यपूरणे प्रोक्तो हिः स्याद्धेत्ववधारणे ॥ ३७ ॥
3.37 · p. 26
अनुष्टुप्
क्षः क्षेत्रे रक्षसि प्रोक्तो नियतं शब्दवेदिभिः ।क्षिः क्षेत्रे क्षत्ररक्षे च नृसिंहे च प्रकीर्त्तितः ॥ ३८ ॥
3.38 · p. 26
अनुष्टुप्
॥ इति श्रीपुरुषोत्तमदेवविरचित एकाक्षरकोषः समाप्तः ॥
------------------------------------
3.39 · p. 26