सूर्या
sūryāस्त्री · fem.In 8 kośas: 6 synonym verses, 4 as a nānārtha head word, 1 as a meaning of another word.
सूर्याऽमरा पीतपुष्पी सुपर्णी चेन्द्रवल्लरी ।रक्तेर्वारुर्विषलता वारुणी बालकप्रिया ॥ ४०७ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रत्यूषाण्डः खतिलको जगद्दीपोऽम्बुतस्करः ।वेदोदयः सहस्राङ्को रात्रिहृत्त्रिदशावृतः ॥संवत्सररथः कालभृत्स्वा लोकप्रकाशनः ।सूर्यस्य स्त्री देवता चेत्सूर्या सूरीतरा भवेत् ॥त्रिष्वतः सूर्यदेवत्यादित्या सौरी च ऋङ्मुखा ॥ ३४ ॥
अनुष्टुप्
genderस्त्रीfem.
आस्फोता दधिपुष्पी खट्वाथाद्य(?)पराजिता ।गर्दभी जनिका सूर्या श्वेतपाटलिपिण्डका ॥ ३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
संज्ञा तु यमकालिन्दीमाता सूर्या सुवर्चला ।विश्वकर्मसुता स्वातिः सुवेनुर्द्युमयीति च ॥
अनुष्टुप्
genderस्त्रीfem.
त्रसरेणुर्महावीर्या स्वातिः सूर्या सुवर्चला ।सुरेणुर्द्युमयी त्वाष्ट्री प्रिये चेते विवस्वतः ॥ २० ॥
अनुष्टुप्
genderस्त्रीfem.
विष्णुक्रान्ता परास्फोताश्वखुरी शीतलात्र तु ।श्वेतायां चारिणी सूर्या गिरिकर्णी गवादिनी ॥ १३४ ॥
अनुष्टुप्
genderस्त्रीfem.
[72] वन्ध्यः स्यादफलो वृक्षो वन्ध्या चापत्यवर्जिता ।सूर्योऽर्कस्तत्प्रिया सूर्या सूर्या स्यात्काचिदोषधिः ॥
अनुष्टुप्
शक्तौ त्वेकत्र शक्तीनां नवानां शार्ङ्गधन्वनः ।सूक्ष्मा स्त्री ना तु सूर्यः स्याद् भास्करे वाचि तु स्त्रियाम् ॥ १५३५ ॥
अनुष्टुप्
meaningsवाच्
सूर्या स्याद्गिरिकर्ण्यां च श्वेतायां स्यूतवाक् तु ना ।प्रसवेऽथ त्रिरूते स्थात् सूतस्तु नरि सारथौ ॥ १५३६ ॥
अनुष्टुप्
meaningsगिरिकर्णी
गणदेवविशेषे ना साधनीयेऽभिधेयवत् ।सूर्या सूर्यप्रियौषध्योः सूर्येऽर्कपर्णसूरयोः ॥स्थेयः पुरोहिते वादपक्षनिर्णेतरि स्मृतः ।सेव्यं त्रिषु च सेवार्हे क्लीबं वीरणमूलके ॥सैन्यं क्लीबं बले सेनासमवेतेऽभिधेयवत् ।सौम्यो ना ज्ञे तिष्वनुग्रे सोमदेवमनोज्ञयोः ॥हार्यस्त्रिषु च हर्त्तव्ये पुमान् विभीतके द्रुमे ।हृदयं हृदि हिते हृज्जे हृत्प्रिये त्रिषु च द्वयोः ॥भरणे स्त्री वृद्धिनामौषधे मन्त्रान्तरे पुमान् ।
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र्क (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)
सूर्या as a meaning in nānārtha verses
- तन्त्राभिधान ॡकामिनी विश्वपा कालो नित्या शुद्धा शुचिः कृती । सूर्या धैर्या कर्षणी च एकाकी दनुजप्रसूः ॥ ३४ ॥ Tantrābhidhāna 2.11.34