हर
haraपुं · masc.In 20 kośas: 27 synonym verses, 2 as a nānārtha head word, 81 as a meaning of another word.
शंभुः शर्वः स्थाणुरीशान ईशो रुद्रोड्डीशौ वामदेवो वृषाङ्कः ।कण्ठेकालः शंकरो नीलकण्ठः श्रीकण्ठोग्रौ धूर्जटिर्भीमभर्गौ ॥ १९५ ॥मृत्युंजयः पञ्चमुखोऽष्टमूर्तिः श्मशानवेश्मा गिरिशो गिरीशः ।षण्ढः कपर्दीश्वर ऊर्ध्वलिङ्ग एकत्रिदृग्भालदृगेकपादः ॥ १९६ ॥मृडोऽट्टहासी घनवाहनोऽहिर्बुध्नो विरूपाक्षविषान्तकौ च ।महाव्रती वह्निहिरण्यरेताः शिवोऽस्थिधन्वा पुरुषास्थिमाली ॥ १९७ ॥स्याव्द्योमकेशः शिपिविष्टभैरवौ दिक्कृत्तिवासा भवनीललोहितौ ।सर्वज्ञनाट्यप्रियखण्डपर्शवो महापरा देवनटेश्वरा हरः ॥ १९८ ॥पशुप्रमथभूतोमापतिः पिङ्गजटेक्षणः ।पिनाकशूलखट्वाङ्गगङ्गाहीन्दुकपालभृत् ॥ १९९ ॥गजपूषपुरानङ्गकालान्धकमखासुहृत् ।
शालिनी
शम्भुपुंशर्वपुंस्थाणुपुंईशानपुंईशपुंरुद्रपुंउड्डीशपुंवामदेवपुंवृषाङ्कपुंकण्ठेकालपुंशंकरपुंनीलकण्ठपुंश्रीकण्ठपुंउग्रपुंधूर्जटिपुंभीमपुंभर्गपुंमृत्युंजयपुंपञ्चमुखपुंअष्टमूर्तिपुंश्मशानवेश्मन्पुंगिरिशपुंगिरीशपुंषण्ढपुंकपर्दिन्पुंईश्वरपुंऊर्ध्वलिङ्गपुंएकदृश्पुंत्रिदृश्पुंभालदृश्पुंएकपादपुंमृडपुंअट्टहासिन्पुंघनवाहनपुंअहिर्बुध्नपुंविरूपाक्षपुंविषान्तकपुंमहाव्रतिन्पुंवह्निरेतस्पुंहिरण्यरेतस्पुंशिवपुंअस्थिधन्वन्पुंपुरुषास्थिमालिन्पुंव्योमकेशपुंशिपिविष्ठपुंभैरवपुंदिग्वासस्पुंकृत्तिवासस्पुंभवपुंनीललोहितपुंसर्वज्ञपुंनाट्यप्रियपुंखण्डपर्शुपुंमहादेवपुंमहानटपुंमहेश्वरपुंहरपुंपशुपतिपुंप्रमथपतिपुंभूतपतिपुंउमापतिपुंपिङ्गजटपुंपिङ्गेक्षणपुंपिनाकभृत्पुंशूलभृत्पुंखट्वाङ्गभृत्पुंगङ्गाभृत्पुंअहिभृत्पुंइन्दुभृत्पुंकपालभृत्पुंगजासुहृद्पुंपूषासुहृद्पुंपुरासुहृद्पुंअनङ्गासुहृद्पुंकालासुहृद्पुंअन्धकासुहृद्पुंमखासुहृद्पुं
genderपुंmasc.
शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः ।ईश्वरः शर्व ईशानः शङ्करश्चन्द्रशेखरः ॥ ३० ॥भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः ।मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥ ३१ ॥उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् ।वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ॥ ३२ ॥कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः ।हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः ॥ ३३ ॥गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः ।व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः ।अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः ॥ ३४ ॥
अनुष्टुप्
शम्भुपुंईशपुंपशुपतिपुंशिवपुंशूलिन्पुंमहेश्वरपुंईश्वरपुंशर्वपुंईशानपुंशङ्करपुंचन्द्रशेखरपुंभूतेशपुंखण्डपरशुपुंगिरीशपुंगिरिशपुंमृडपुंमृत्युञ्जयपुंकृत्तिवासस्पुंपिनाकिन्पुंप्रमथाधिपपुंउग्रपुंकपर्दिन्पुंश्रीकण्ठपुंशितिकण्ठपुंकपालभृत्पुंवामदेवपुंमहादेवपुंविरूपाक्षपुंत्रिलोचनपुंकृशानुरेतस्पुंसर्वज्ञपुंधूर्जटिपुंनीललोहितपुंहरपुंस्मरहरपुंभर्गपुंत्र्यम्बकपुंत्रिपुरान्तकपुंगङ्गाधरपुंअन्धकरिपुपुंक्रतुध्वंसिन्पुंवृषध्वजपुंव्योमकेशपुंभवपुंभीमपुंस्थाणुपुंरुद्रपुंउमापतिपुंअहिर्बुध्न्यपुंअष्टमूर्तिपुंगजारिपुंमहानटपुं
genderपुंmasc.
ईशानः शशिशेखरः पशुपतिः शूली शिवः शङ्करः,शर्वः शम्भुरुमापतिश्च गिरिशः श्रीकण्ठ उग्रो हरः ।सर्वज्ञस्त्रिपुरान्तकस्त्रिनयनो रुद्रः कपर्दी भवो,भूतेशः परमेश्वरोऽन्धकरिपुर्दक्षाध्वरध्वंसकृत् ॥ ११ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
अवगाहो वगाहश्च विश्रामो विश्रमो भवेत ।शर्वः सर्वश्च शम्भौ तु तत्र हारो हरे भवेत् ॥ २७६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
मेषो रभ्रोरणोर्णायुर्मेढो वृष्णिर्हुडुर्हरः ।उरभ्रो लोमशः शृङ्गी स्यादविश्चैडको बली ॥ ४७३ ॥
अनुष्टुप्
genderपुंmasc.
उद्भिज्जास्तरुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम् ।मनःपर्यायतो हारि हरं ज्ञं रममित्यपि ॥ ९९ ॥
अनुष्टुप्
genderविadj.
पर्परीको रोहिदश्वो वसुर्वायुसखो हरः ।उषर्भुद्बहलो हव्यः कृशानुर्जागृविर्यसुः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
कटप्रूर्मिहिराणः स्याच्छिपिविष्टः कपालभृत् ।वामदेवो जगद्योनिरुड्डीशो धूर्जटिर्हरः ॥ ८६ ॥
अनुष्टुप्
genderपुंmasc.
सूर्या विश्वे वसवस्तुषिता आभास्वरा हरा मरुतः ।स-महाराजिकसाध्या गणदेवाः साधिकारकथिताः ॥ ११ ॥
आर्याmetre not read in every line
genderपुंmasc.
[10b] शंभुः शूली भगाली गिरिश-पशुपति-स्थाणु-सर्वज्ञ-सर्व-श्रीकण्ठ-श्यामकण्ठ-स्मरहर-मखभिद्-भर्ग-भालेक्षणेशाः ।कण्ठेकालः कपर्द्दि-त्रिपुरहर-हरेशान-शर्वाम्बिकेशाभूतेश-व्योमकेशान्धकरिपु-शमिर-त्र्यक्ष-गङ्गाधराह्वः ॥ ६४ ॥
स्रग्धरा
genderपुंmasc.
उग्रकर्मा तु नवमी दौर्गी च दशमी पुनः ।धर्मिणी यमदेवत्या वैश्वी त्वेकादशी हरः ।क्लीबे हरिदिनं नन्दा दशम्याः साऽरुणोदये ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
उग्रः शूली कपाली च शिपिविष्टो भवो हरः ।उमापतिर्विरूपाक्षो विश्वरूपः कपर्द्यपि ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
गिरीशो गिरिशो मृत्युंजयः षण्ढोग्रभैरवाः ।एकदृग्भालदृग्नीललोहिताः शूलभृद्धरः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.doubtful
आयुधेऽस्त्रं च शस्त्रं च हरं प्रहरणं तथा ।धनुर्धनुश्च चापश्च कथितौ पुंनपुंसकौ ॥ ३५६ ॥
अनुष्टुप्
genderक्लीneut.
बलात्कारे हरः(ठः?) सायः प्रसभः(भं?) प्रसरोऽपि च ।उत्पाते ता(चो?)पसर्गः स्यादजन्यं जन्यमित्यपि ॥ ३९० ॥
अनुष्टुप्
genderपुंmasc.
वधे प्रहरणं प्राणहरणं क्रथनं हरः ।क्षणनं निर्गन्ध(न्थ?)नं च निराकरणमित्यपि ॥ ३९५ ॥
अनुष्टुप्
genderपुंmasc.
हीरः कपर्दी च शिवो दक्षयज्ञहरो हरः ॥ ३ ॥
genderपुंmasc.
रुद्रस्त्रिलोचनः शर्वः स्थाणुर्गङ्गाधरो हरः ।ईशान ईशो गिरिशो गिरीशः प्रमथाधिपः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
श्रीकण्ठो नीलकण्ठश्च गिरीशो गिरिशो हरः ।ईश ईश्वर ईशानः भीमो भर्गश्च धूर्जटिः ॥ २३१ ॥
अनुष्टुप्
genderपुंmasc.
सारोऽस्त्रियां निधाने तु शेवधिर्नर-षण्ढभाक् ।शङ्करे जोटी जोटीङ्गो गिरीशो गिरिशो हरः ॥ ७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 टी (wrong syllable)
genderपुंmasc.
शंभुः शंकर ईश्वरः पशुपतिः शर्वः शिवस्त्र्यम्बकोभूतेशः परमेश्वरः पुररिपुः शूली हरो धूर्जटिः ।ईशानः शशिशेखरस्त्रिनयनो भीमः पिनाकी मृडोरुद्रः स्थाणुरुमापतिः स्मरहरो भर्गः कपर्दी भवः ॥ ४३ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
महाब्राह्मी वासुदेवो धनेशः केशवोऽमृतम् ।कीर्त्तिर्निवृत्तिर्वागीशो नरकारिर्हरो मरुत् ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
कामघ्नः कामना चेशो मोहिनी विघ्नहृन्मही ।उटसूः कुटिला श्रोत्रं पारद्वीपो वृषो हरः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
हृषीकेशो हरः सूक्ष्मो वामगण्डः कुबेरदृक् ।अर्द्धर्च्चौ नीलचरण ॡ-कारश्च त्रिकण्ट(कूट)कः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
ऊर्ध्वदन्तश्चानिरुद्धो हरो भानुः स्वरः शशी ।मनश्चानङ्ग-कवचौ निगूढ अं-स्वरः स्मृतः ॥ १६ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 ढ (wrong syllable)
genderपुंmasc.
ॡ-र्हरो वामगण्डश्च मायावी शक्र-स्वस्तिकौ ।शान्तिकृत् शुद्ध-रुद्रौ च नीलपादोपलोनुपः ॥ १९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 क्र (wrong syllable)
genderपुंmasc.
चतुर्मुखे ब्रह्मसंज्ञः पंचवक्त्रे हराह्वयः ।षण्मुखे तु गुहाख्योऽथ किंपाके काकमर्दकः ॥ ८० ॥
अनुष्टुप्
genderपुंmasc.
हर as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् अजअजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः ॥ ३० ॥ Amarakośa 3.3.30
- नामलिङ्गानुशासनम् वृषाकपिगोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी । Amarakośa 3.3.246
- नामलिङ्गानुशासनम् भवदवदावौ वनारण्यवह्नी जन्महरौ भवौ ॥ २०६ ॥ Amarakośa 3.3.206
- धरणिकोश भालाङ्कभालाङ्कः करपत्रे स्याच्छाकभेदे च रोहिते । सर्वलक्षणसंपूर्णपूरुषे कच्छपे हरे ॥ Dharaṇikośa 1.3.5
- धरणिकोश अजद्विजो विप्रेऽण्डजे दन्ते हरेणुपुष्पयोर्द्विजा । अजा हरिहरब्रह्मच्छागा रघुप्तुतोऽप्यजः ॥ Dharaṇikośa 7.2.1
- कोषकल्पतरु सञ्जसञ्जो विरिञ्चौ च हरेऽथ कञ्जः । केशे विरिञ्चे[267b]चरमे तु पद्मे- ऽमृतेऽथ कामे च[हरे]हरौ च ॥ २० ॥ Koṣakalpataru 6.7.20
- कोषकल्पतरु नीलकण्ठस्या[275a]न्नीलकण्ठोऽपि च कालकण्ठो हरे मयूरे चटकेऽञ्जनाक्षे । दात्यूहके स्यादपि पीतसारे स्याद्धारिकण्ठः पिकवाचको ना ॥ ६६ ॥ Koṣakalpataru 6.11.66
- कोषकल्पतरु रैवतसंघात उक्तोऽथ हरेऽद्रिभेदे स्याद्रैवतोऽथाल्पतनौ किरातः । स्यान्नार्यति[ति ? ]क्तेऽन्त्यजजातिभेदे मन्दाकिनीकुट्टनिकागतः स्त्री ॥ ११ ॥ Koṣakalpataru 6.16.11
- कोषकल्पतरु अपराजितउपधूपित उद्दिष्टः सपीपमरणे प्रधूपिते तद्वत् । अपराजितस्तु विष्णौ हरे स्त्रियां त्वौषधीभेदे ॥ ८७ ॥ Koṣakalpataru 6.17.87
- कोषकल्पतरु वृषाकपिस्याद्विप्रलापोऽपि विरुद्धवाके ऽपार्थोदिते ना तु वृषाकपिः स्यात् । हरे हरौ च ज्वलनेऽथ कम्पे भये परीकम्पमुशन्ति सन्तः ॥ २० ॥ Koṣakalpataru 6.22.20
- कोषकल्पतरु शम्भुकस्तूरिकायां गदिता स्त्रियां च विभुः शिवे व्यापिनि तु त्रिषु स्यात् । नित्ये प्रभौ ब्रह्मणि तु स्वभूः स्यात् विष्णौ च शंभुस्तु हरे हरौ च ॥ ४५ ॥ Koṣakalpataru 6.24.45
- कोषकल्पतरु वामस्त्री तु क्षा[31a]न्तिभुवोर्गदे गदभिदि स्यादाममस्त्री त्रये- ऽपक्वेऽथ प्रहरे च संयमगतो यामोऽथ वामो हरे । चेतोजे जलदे धने तु चरमे, सव्ये प्रतीपेऽवरे त्रय्यां, योषिति रासभीषु करभीष्वश्वाशृगाल्योः स्त्रियाम् ॥ ६० ॥ Koṣakalpataru 6.25.60
- कोषकल्पतरु घोरपौरः पुरोत्थे त्रिषु कत्तृणेऽन्त्ये वेरं तु वातिंगणदेहयोः स्यात् । काश्मीरके ना तु हरेऽस्ति घोरो भीमेऽन्यवद्ध्रस्वहये तु टारः ॥ २३ ॥ Koṣakalpataru 6.27.23
- कोषकल्पतरु भद्रभद्रो हरे स्याद्वृषभे च मेरु- कदम्बके वारणजातिभेदे । स्याद्रामदूतेऽपि च खञ्जरीटे श्रेष्ठे तु साधुन्यपि वाच्यलिङ्गः ॥ ४५ ॥ Koṣakalpataru 6.27.45
- कोषकल्पतरु बभ्रुव्याघ्रोऽपि र[49b]क्ते उरुबौ स्त्रियां तु निदिग्धिकायां मृगराजजातौ । हरौ हरेऽग्नौ नकुले च वज्रे मुनौ विलासे नरि बभ्रुरुक्तः ॥ ६१ ॥ Koṣakalpataru 6.27.61
- कोषकल्पतरु खरुवज्रे शरे चाथ खरुर्हरे स्या- द्दर्पे च दन्ते तुरगे स्त्रियां तु । पतिंवरायां त्रितये तु पाण्डौ भरुर्हरौ पुंसि हरे च हेम्नि ॥ ६३ ॥ Koṣakalpataru 6.27.63
- कोषकल्पतरु कुरुभर्त्तर्यपि स्यात्तु चरुर्नृलिङ्गो हव्यान्नतद्भाण्डगतः कुरुस्तु । हरे च कूरे नरि राजभेदे पुंभूम्न्यसौ जङ्गलवाचकश्च ॥ ६४ ॥ Koṣakalpataru 6.27.64
- कोषकल्पतरु हरिइन्द्रार्कचन्द्रानिलविष्णुसिंह- यमांशुवाजिप्लवगप्लवेषु । हरे च कीरे नरि लोकभेदे हरिः प्रदिष्टः कपिलेऽन्यलिङ्गः ॥ ६९ ॥ Koṣakalpataru 6.27.69
- कोषकल्पतरु भूरिभूरिः पुमान्विष्णुहराब्जभूषु हेम्न्यन्तिमे प्राज्यगतोऽन्यलिङ्गः । गिरिस्तु ना पक्षधराक्षिरुक्षु गुडेरके स्त्री तु स गीर्णिवाची ॥ ७० ॥ Koṣakalpataru 6.27.70
- कोषकल्पतरु दिगम्बरदिगम्बरः पुंसि हरेऽन्यवत्तु क्षु[61a]द्रे च नग्ने तिमिरे तु षण्ढे । पीताम्बरो दैत्यरिपौ नटे च कदम्बरः पुंसि हलायुधे च ॥ ९६ ॥ Koṣakalpataru 6.27.96
- कोषकल्पतरु ईशईशो हरे चापरवत्प्रभौ स्या- त्स्त्रियां शिवालाङ्गलदण्डयोश्च । वेशोऽस्त्रियां स्याद्गृहमात्रकेऽपि नेपथ्यवेश्यागृहयोस्तथैव ॥ ८ ॥ Koṣakalpataru 6.30.8
- कोषकल्पतरु विशालाक्षस्याद्भूतवृक्षोऽथ हरे च तार्क्ष्ये भवेद्विशालाक्ष इह स्त्रियां तु । बराङ्गनायां धवपादपे तु कटाक्षयुक्ते सकटाक्ष उक्तः ॥ ७३ ॥ Koṣakalpataru 6.30.73
- नानार्थार्णवसंक्षेप उअथैकाक्षरपुल्लिँङ्गा अकारो विष्णुवेधसोः । कण्ठस्थानस्वरे चाथ स्यादुकारो हरे हरौ ॥ १ ॥ Nānārthārṇavasaṃkṣepa 1.2.1
- नानार्थार्णवसंक्षेप शम्भुशक्रः कुटजवृक्षे च महेन्द्रेऽप्यथ शम्भुवाक् । हरे हरौ विरिञ्चे च स्यादर्हत्यथ शापवाक् ॥ ११९ ॥ Nānārthārṇavasaṃkṣepa 2.2.119
- नानार्थार्णवसंक्षेप अजतत्राप्यसत्त्वे क्ली ना तु चक्रविष्कम्भदारुणि । अजो हरे विधौ विष्णौ ताते दशरथस्य च ॥ ३१ ॥ Nānārthārṇavasaṃkṣepa 2.5.31
- नानार्थार्णवसंक्षेप खरुपिण्याके खरुशब्दस्तु गीतभेदे स्मरे हरे । दर्पे च ना द्वे पुरुषे कश्चिद्दृप्ते तु स त्रिषु ॥ ३१६ ॥ Nānārthārṇavasaṃkṣepa 2.5.316
- नानार्थार्णवसंक्षेप पर्वन्पुंसि ग्रामनिवेशे त्रिः शून्ये पर्वस्तु ना हरे । इक्ष्वादीनां तु काण्डस्थग्रन्थिमध्ये नपुंसकम् ॥ ७२४ ॥ Nānārthārṇavasaṃkṣepa 2.5.724
- नानार्थार्णवसंक्षेप भगवत्कपर्दे तु पुमान्ना तु भगवान् हरशार्ङ्गिणो । बुद्धे च त्रि तु पूज्येऽथ पार्वत्यां भगवत्यसौ ॥ १२८५ ॥ Nānārthārṇavasaṃkṣepa 4.1285
- नानार्थार्णवसंक्षेप महाकालमहाकालस्तु किम्पाके हरे बाणासुरे तथा । शाश्वतः प्रमथेऽप्याह महाराजस्तु कीर्तितः ॥ ९७ ॥ Nānārthārṇavasaṃkṣepa 6.97
- नानार्थार्णवसंक्षेप नीलकण्ठपुमान् हरे मूलकाख्यशाके च द्वे तु बर्हिणे । अत्रापि पूर्ववत् सादि नीलग्रीवस्तु ना हरे ॥ ३२३ ॥ Nānārthārṇavasaṃkṣepa 6.323
- नानार्थार्णवसंक्षेप परमेष्ठिन्त्रिरुत्तमेऽन्यः कश्चित् तु निर्वृतेऽन्यो हरादिषु । परिवादिध्वनिस्तु स्यात् परिवादवति त्रिषु ॥ ३७० ॥ Nānārthārṇavasaṃkṣepa 6.370
- नानार्थार्णवसंक्षेप वृषाकपिवृषाकपिस्तु पुंसि स्यादग्नौ सूर्ये हरे हरौ । सूक्तस्य विहिसोतोरित्यस्य द्रष्टरि चाप्यृषौ ॥ ५८४ ॥ Nānārthārṇavasaṃkṣepa 6.584
- नानार्थार्णवसंक्षेप अपराजितअथापराजितः पुंसि हरे विष्णौ स्त्रियां पुनः । ब्रह्मणो ब्रह्मलोकस्थपुरे छान्दोग्यकीर्तिते ॥ २ ॥ Nānārthārṇavasaṃkṣepa 7.2
- नानार्थार्णवसंक्षेप देवदुन्दुभिस्त्री तु तीक्ष्णार्जके कृष्णवचायां चाथ ना हरे । नन्दिवर्धनशब्दोऽयं सोमवंशसमुद्भवे ॥ ५८ ॥ Nānārthārṇavasaṃkṣepa 7.58
- परमानन्दीयनाममाला एककुण्डलएककुण्डल आख्यातो रेवतीरमणे हरे । किन्नराणामधीशेऽप्यैरावतः शक्रवारणे ॥ ८१ ॥ Paramānandīyanāmamālā 5.5.81
- परमानन्दीयनाममाला खरc{अथ खकारादयो यथा ।} खरस्तिग्मे च दुःस्पर्शे गर्दभे राक्षसान्तरे । तुरंगमे हरे दन्ते खल्लो निम्नेंऽशुके खगे ॥ १४५ ॥ Paramānandīyanāmamālā 5.8.145
- परमानन्दीयनाममाला नीलकण्ठईक्षणे श्रवणे वापि स्मृतं निशमनं बुधैः । नीलकण्ठो हरे केकिखञ्जरीटपिकेष्वपि ॥ २८२ ॥ Paramānandīyanāmamālā 5.18.282
- परमानन्दीयनाममाला भीमभूभृद्वरे गिद्रे शेषे भूतिर्लक्ष्म्यां च भस्मनि । भीमो रौद्रे हरे भूपे भावाटः कामुके मुनौ ॥ ३३४ ॥ Paramānandīyanāmamālā 5.20.334
- परमानन्दीयनाममाला स्थाणुस्तोमो मखे चये स्तोकः चातकस्वल्पयोरपि । स्थाणुः कीले हरे सूनमङ्कुरे कुसुमे मतम् ॥ ३६१ ॥ Paramānandīyanāmamālā 5.27.361
- शारदीयाख्यनाममाला हरिश्रीसिंहे च कपौ शुके हरिहरे चामीकरे भार्गवे चन्द्रेभे कविराजवाजिवहने वंशे यमे पारदे । नागे वर्णसमीरणेऽपि दहने स्कन्दे च संक्रन्दने मार्तण्डेऽशनिपन्नगेश्वरदिने खड्गे हरिः कीर्तितः ॥ १२८ ॥ Śāradīyākhyanāmamālā 3.5.128
- शब्दरत्नावली अजअजो हरिहरब्रह्मछागस्मरनृपेषु च । अब्जो शङ्केऽस्त्रियां नातु धन्वन्तर्यम्बुजेन्दुषु ॥ Śabdaratnāvalī 7.8.2
- शब्दरत्नावली साधिष्ठसाधिष्टोऽतिदृढेऽत्पार्थे श्रीकन्ठे हरदेशयोः । Śabdaratnāvalī 7.12.14
- शब्दरत्नावली स्वामिन्स्वामी पुमान् कार्त्तिकेये प्रभौ विष्णौ हरे हरौ । स्थापन्योषधिभेदे स्त्री क्लीबं सवनरोपणे ॥ Śabdaratnāvalī 7.20.95
- शब्दरत्नावली विलासिन्पुमान्नरपतौ कामदेवे वैषयिकेऽपि च । विश्वक्सेनो वासुदेवे गन्धफल्यामपि स्त्रियाम् ॥ विलेपनी यवाग्वान्तु सुरेशवरयोषिति । विलासी तु स्मरे कृष्णे हरे भुजगभोगिनोः ॥ Śabdaratnāvalī 7.20.123
- शब्दरत्नावली सनातनसदादानो गन्धहस्तिन्यैरावतगणेशयोः । सम्बदनं वशीकारे क्लीबमालोचनेऽपि च ॥ समादानं समीचीनग्रहे बौद्धाह्णिकेऽपि च । सम्वाहनन्तु भारादिवाहने चाङ्गमर्दने ॥ समापनं परिच्छेदप्रमापनसमाप्तिषु । सनातनो हरे विष्णौ नित्यपित्रतिथिष्वपि ॥ सनातनी भवान्यान्तु वाण्यब्धिसुतयोः स्त्रियाम् । स्तनयित्नुर्जलधरे विद्युति स्तनिते स्त्रियाम् ॥ सरोजिनी तु कमलाकरपङ्कजयोः स्त्रियाम् । समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ॥ संयमनं व्रते बन्धे यमपूर्यामपि स्त्रियाम् । भवेत्सारसनं काञ्च्यामुरस्तेन तनुत्रिणाम्(?) ॥ सामयोनिर्ग्रजब्रह्मसामोत्थेषु भवेत्पुमान् । सुदर्शनो विष्णुचक्रे जम्बूवृक्षे सुरलाये ॥ क्लीबं महेन्द्रनगरे प्रज्ञौषधिभिदोः स्त्रियाम् । सुयामुनोऽच्युते मेघे प्रासादवत्सराजयोः ॥ सुकर्मा योगभेदे स्यात्सत्कर्मविधिकर्मणोः । सुधन्वा वीरभेदे स्याद्धानुष्के विश्वकर्मणि ॥ सुपर्वा पुंसि वंशे तु धूमपर्वामरेषु च ॥ Śabdaratnāvalī 7.20.127
- शब्दरत्नावली अभिरूपअभिरूपो बुधे रम्ये कामेन्दुहरविष्णुषु । अवन्वेपो दूषणे स्यादहङ्कारे च लेपने ॥ Śabdaratnāvalī 7.21.20
- शब्दरत्नावली वामवामः स्तने हरे कामे पुंसि क्लीबं धनेऽपि च । चारुप्रतीपसव्येषु नार्यामपि वामा स्त्रियाम् ॥ Śabdaratnāvalī 7.25.21
- शब्दरत्नावली खरुऐन्द्रिर्जयन्ते काके ना स्त्री शचीशिवयोरपि । ओड्रः पुंभूम्नि देशे स्यात्तरुभेदे पुमानयम् ॥ करो रश्मौ च करके शुण्डप्रत्यायपाणिषु । कद्रुस्त्रिषु पिशङ्गे स्यान्नागमातरि तु स्त्रियाम् ॥ कारो हिमगिरौ यत्ने वलौ पत्यौ वधे पुमान् । कारा स्त्रियां बन्धगृहे बन्धे दूत्यां प्रसेवके ॥ कारिः क्रियायां स्त्रीलिङ्गो वाच्यलिङ्गस्तु शिल्पिनी । क्रूरं स्यात्कठिने घोरे नृशंसेऽपि च वाच्यवत् ॥ कारुस्त्वष्टरि पुंसि स्यात्त्रिषु कर्तरि शिल्पिनि । कीरः शुके देशभेदे क्लीबं स्यान्नीरदुग्धयोः ॥ कुरुर्ना भक्तनृपयोः पुंबहुत्वे च निवृति । क्षुद्रः क्रूरेऽधमेऽल्पे च कृपणेऽपि च वाच्यवत् ॥ क्षुद्रा व्यङ्गानटीधृष्टाबृहतीसरधासु च । चाङ्गेरी मक्षिकामात्रे हिंस्रा वादरतासु च ॥ क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे । खुरः शफे कोलदले तथा छेदनवस्तुनि ॥ क्रोष्ट्री कृष्णविदार्युक्ताशृगालीलाङ्गलीषु च । खरो धर्मे गर्दभे ना तीक्ष्यो त्रिष्वौषधे स्त्रियाम् ॥ खरुर्दर्पे हरे दन्ते हये ना धवले त्रिषु ॥ Śabdaratnāvalī 7.27.7
- शब्दरत्नावली अक्षरअजिरं प्राङ्गने देहे दर्द्दूरे विषयेऽनिले । अक्षरं न द्वयोर्ब्रह्मवर्णयोर्ना हरे हरौ ॥ Śabdaratnāvalī 7.27.55
- शब्दरत्नावली पांशुलपांशुलः पापिहरयोः पुंश्चले … द्वयोः । पांशुला कुलटायाञ्च तथा भूय्यामपि स्त्रियाम् । पाकलं कुष्टकौषध्यां न स्त्रियां कुञ्जरज्वरे ॥ Śabdaratnāvalī 7.28.74
- शब्दरत्नावली ध्रुवद्यौः स्त्रियां स्वर्गनभसोर्दिवञ्चापि नपुंसकम् । ध्रुवो धूर्ते वृक्षभेदे पतिमानुषयोरपि । ध्रुवः शङ्कौ हरे विष्णौ भर्भदे वटयोगयोः ॥ Śabdaratnāvalī 7.29.12
- शब्दरत्नावली भवभवः प्राप्तौ हरे क्षेमसत्तासंसारजन्मसु । भावोऽभिप्रायचेष्टात्मसत्तास्वभावजन्मसु ॥ Śabdaratnāvalī 7.29.16
- शब्दरत्नावली शिवशिवः स्वरे हरे योगे कीलके ग्रहवालयोः । मोक्षगुग्गुलयोः पुंसि शिवं भद्रसुखाप्सु च ॥ Śabdaratnāvalī 7.29.21
- शब्दरत्नावली विशालाक्षविशालाक्षो हरे तार्क्ष्ये दीर्घनेत्र-सुनेत्रयोः ॥ Śabdaratnāvalī 7.31.36
- शब्दरत्नावली उदर्चिस्अगौकाः शरभे पुंसि कण्ठीरवविहङ्गयोः । उदर्चिर्वीतिहोत्रे स्यादुत्प्रगे हरकामयोः ॥ Śabdaratnāvalī 7.32.42
- शब्दरत्नावली हिरण्यरेतस्दिव्यचक्षुः सुनेत्रेऽन्धसुगन्धभेदयोरपि । स्यान्नभश्चमसश्चन्द्रे चित्रापूपेन्द्रजालयोः ॥ कथ्यते हिङ्गुनिर्यासो निम्बे हिङ्गुरसेऽपि च । हिरण्यरेता मिहिरे वीतिहोत्रे हरेऽपि च ॥ Śabdaratnāvalī 7.32.57
- शब्दरत्नावली हकारहकारः पापहरणे हरे हिमकरेऽपि च । हा विषादे गुणेष्वत्तौ हे च सम्बोधनेऽपि च ॥ Śabdaratnāvalī 7.33.1
- शब्दरत्नाकर अजअजः पितामहे विष्णौ हरे छागे रघोः सुते । अर्थो धने शब्दवाच्ये शास्त्रे हेतौ प्रयोजने ॥ १८६२ ॥ Śabdaratnākara 4.1.1862
- शब्दरत्नाकर खरुखगोऽर्के विहगे वायौ तारके सुरमेघयोः । गर्दभे रक्षसि खरः खरुः पुंसि स्मरे हरे ॥ १९०६ ॥ Śabdaratnākara 4.1.1906
- शब्दरत्नाकर वीरहरे राहौ च वर्चोऽर्चीरूपविड्भाःसु तेजसि । वरो नावृतिजामात्रोर्देवताभ्यः समीप्सिते ॥ २००० ॥ Śabdaratnākara 4.1.2000
- शब्दरत्नाकर ईश्वरइषीकास्त्रे तृणेऽपि स्यादिल्वलः पुंसि दानवे । तारकारिवल्वला स्त्रीत्व ईश्वरोऽधिपतौ हरे ॥ २०५३ ॥ Śabdaratnākara 4.1.2053
- शब्दरत्नाकर दिग्वासस्तोरणोऽस्त्री बहिर्द्वारदारुयन्त्रविशेषयोः । तूलिका कूर्चिकासूच्योर्दिग्वासा श्रमणे हरे शास्त्रोपलब्धिधीदृष्टिसमयेषु तु दर्शनम् ॥ २१०१ ॥ Śabdaratnākara 4.1.2101
- शब्दरत्नाकर महाकालबाहुलेयो वृषे स्कन्दे भूतनाथः शिवे नृपे । महाकालो हरे हालाहले बाणासुरेऽपि च ॥ २२२० ॥ Śabdaratnākara 4.1.2220
- शब्दरत्नाकर वृषाकपिवृषाकपिस्तु वैकुण्ठे हरेऽर्केऽग्नौ विभावसुः । विश्वकर्मा द्युकक्ष्णि स्यादर्यम्णि हरिवातयोः ॥ २२२३ ॥ Śabdaratnākara 4.1.2223
- तन्त्राभिधान ॡऌः स्थाणुदक्षगुल्फस्थो गण्डाख्यः श्रीधरोऽपि च । ॡ-कारोऽपि हृषीकेशो हरोऽसौ वामगण्डकः ॥ ६ ॥ Tantrābhidhāna 1.6
- तन्त्राभिधान भप्राणात्मा तापिनी वज्रा विश्वरूपी च चन्द्रिका । भीमसेनः सुधासेनः सुमुखं माया पुरं हरः ॥ १३४ ॥ Tantrābhidhāna 2.41.134
- त्रिकाण्डशेष खरुखरुरश्वे हरे दर्पे दन्ते श्वेते तु वाच्यवत् । गुरुस्त्रिलिङ्ग्यां महति दुर्ज्जरालघुनोरपि ॥ ३४५ ॥ Trikāṇḍaśeṣa 3.3.345
- त्रिकाण्डशेष वारकुब्जवृक्षे हरे वारो बन्धुरं रम्यनम्रयोः । भ्रमरः कामुके भृङ्गे भरोऽतिशयभारयोः ॥ ३६६ ॥ Trikāṇḍaśeṣa 3.3.366
- त्रिकाण्डशेष शिवअश्वौघे वाडवं न स्त्री पाताले ना द्विजौर्वयोः । वडवाऽश्वाकुम्भदास्योर्योगे कील हरे शिवः ॥ ४२३ ॥ Trikāṇḍaśeṣa 3.3.423
- त्रिकाण्डशेष विशालाक्षसङ्ख्यायान्तु न ना लक्षा क्लीबं व्याजशरव्ययोः । हरतार्क्ष्यौ विशालाक्षौ शेषो नानन्तसीरिणोः ॥ ४४१ ॥ Trikāṇḍaśeṣa 3.3.441
- वैजयन्ती भानुबाष्पोऽश्रुण्यंबुधूमे च भानवोऽर्कहरांशवः । भ्रूणोऽर्भके स्त्रैणगर्भे गर्भिण्यां श्रोत्रियद्विजे ॥ ४० ॥ Vaijayantī 6.1.40
- वैजयन्ती भवभवो भद्रे हरे प्राप्तौ सत्तासंसारजन्मसु । भागा भाग्यांशतुर्यांशा भरभारौ गरिम्ण्यपि ॥ ४१ ॥ Vaijayantī 6.1.41
- वैजयन्ती शम्भुवेधसो विष्णुधातृज्ञाः शादः कर्दमशष्पयोः । शंभुर्धातृहरार्हत्सु शक्रः कुटजवज्रिणोः ॥ ५७ ॥ Vaijayantī 6.1.57
- वैजयन्ती हंसहंसोऽश्वेऽर्के हरे विष्णौ खगे निर्लोभभूभुजि । जीवे श्वेतवृषे भिक्षौ पार्ष्णिकाप्रसभौ हठौ ॥ ६८ ॥ Vaijayantī 6.1.68
- वैजयन्ती हीरवारिपर्णी च हेतुस्तु कारणे कर्मजन्मनोः । हीरः सर्पे हरे सिंहे हेलिरालिंगने रवौ ॥ ६९ ॥ Vaijayantī 6.1.69
- वैजयन्ती अजअविर्भूपुष्पवत्योः स्त्री वायुप्राकारभास्तु ना । अजः पितामहेऽनादौ छागे विष्णौ हरे रवौ ॥ ४ ॥ Vaijayantī 6.5.4
- वैजयन्ती वीरवीरो राहौ हरे शक्रे शूरे स्कन्दकुबेरयोः । गजग्रहणभूमौ स्त्री वारिः स्यात्सलिले नपुम् ॥ ८२ ॥ Vaijayantī 6.5.82
- वैजयन्ती शिवशिवा हरीतकी क्रोष्टा शमी नद्यामलक्युमा । शिवो घोले पद्मरागे हरे कीले शिवं जले ॥ ८४ ॥ Vaijayantī 6.5.84
- वैजयन्ती महाकालमहाकालस्तु किंपाके हरे बाणासुरेऽपि च । रजसानू घर्ममेघौ रौहिणेयौ हलीन्दुजौ ॥ ३७ ॥ Vaijayantī 8.1.37
- वैजयन्ती भगवत्भगवत्युमा भगवान् बुद्धे पूज्ये हरे हरौ । भोगी ग्रामाद्यधिकृते सर्पे सुखिमहीभुजोः ॥ ३१ ॥ Vaijayantī 8.5.31
- वैजयन्ती वक्त्रपञ्चपूर्वास्तु वक्त्रस्य व्याघ्रे सिंहे हरे नरः । कण्ठस्य नीलनामभ्यो ग्रीवायाश्चेशकेकिनोः ॥ २२ ॥ Vaijayantī 8.6.22