कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Abhidhānacintāmaṇi

अभिधानचिन्तामणि Abhidhānacintāmaṇi

1,988 verses · 12,741 words tagged · 2,473 marked doubtful (dashed)

Part 1

श्रीहेमचन्द्राचार्यविरचितः ।

अभिधानचिन्तामणिः ।

प्रणिपत्यार्हतः सिद्धसाङ्गशब्दानुशासनः ।रूढयौगिकमिश्राणां नाम्नां मालां तनोम्यहम् ॥ १ ॥
1 · p. 1
अनुष्टुप्
व्युत्पत्तिरहिताः शब्दा रूढा आखण्डलादयः ।योगोऽन्वयः स तु गुणक्रियासंबन्धसंभवः ॥ २ ॥
2 · p. 1
अनुष्टुप्
गुणतो नीलकण्ठाद्याः क्रियातः स्रष्टृसंनिभाः ।स्वस्वामित्वादिसंबन्धस्तत्राहुर्नाम तद्वताम् ॥ ३ ॥
3 · p. 1
अनुष्टुप्
स्वात्पालधनभुग्नेतृपतिमत्वर्थकादयः ।भूपालो भूधनो भूभुग्भूनेता भूपतिस्तथा ॥ ४ ॥
4 · p. 2
अनुष्टुप्
भूमाँश्चेति कविरूढ्या ज्ञेयोदाहरणावली ।जन्यात्कृत्कर्तृसृट्स्रष्टृविधातृकरसूसमाः ॥ ५ ॥
5 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वि (wrong syllable)
जनकाद्योनिजरुहजन्मभूसूत्यणादयः ।धार्याद्ध्वजास्त्रपाण्यङ्कमौलिभूषणभृन्निभाः ॥ ६ ॥
6 · p. 2
अनुष्टुप्
शालिशेखरमत्वर्थमालिभर्तृधरा अपि ।भोज्याद्भुगन्धोव्रतलिट्पायिपाशाशनादयः ॥ ७ ॥
7 · p. 2
अनुष्टुप्
पत्युः कान्ताप्रियतमावधूप्रणयिनीनिभाः ।कलत्राद्वररमणप्रणयीशप्रियादयः ॥ ८ ॥
8 · p. 2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 द्व (wrong syllable)
सख्युः सखिसमा वाह्याद्गामियानासनादयः ।ज्ञातेः स्वसृदुहित्रात्मजाग्रजावरजादयः ॥ ९ ॥
9 · p. 2
अनुष्टुप्
आश्रयात्सद्मपर्यायशयवासिसदादयः ।वध्याद्भिद्द्वेषिजिद्घातिध्रुग्रिपुध्वंसिशासनाः ॥ १० ॥
10 · p. 3
अनुष्टुप्
अप्यन्तकारिदमनदर्पच्छिन्मथनादयः ।विवक्षितो हि संबन्ध एकतोऽपि पदात्ततः ॥ ११ ॥
11 · p. 3
अनुष्टुप्
प्राक्प्रदर्शितसंबन्धिशब्दा योज्या यथोचितम् ।दृश्यते खलु वाह्यत्वे वृषस्य वृषवाहनः ॥ १२ ॥
12 · p. 3
अनुष्टुप्
स्वत्वे पुनर्वृषपतिर्धार्यत्वे वृषलाञ्छनः ।अंशोर्धार्यत्वेंऽशुमाली स्वत्वेंऽशुपतिरंशुमान् ॥ १३ ॥
13 · p. 3
अनुष्टुप्
वध्यत्वेऽहेरहिरिपुर्भोज्यत्वे चाहिभुक्शिखी ।चिह्नैर्व्यक्तैर्भवेद्व्यक्तेर्जातिशब्दोऽपि वाचकः ॥ १४ ॥
14 · p. 3
अनुष्टुप्
तथाह्यगस्तिपूता दिग्दक्षिणाशा निगद्यते ।अयुग्विषमशब्दौ त्रिपञ्चसप्तादिवाचकौ ॥ १५ ॥
15 · p. 3
अनुष्टुप्
त्रिनेत्रपञ्चेषुसप्तपलाशादिषु योजयेत् ।गुणशब्दो विरोध्यर्थं नञादिरितरोत्तरः ॥ १६ ॥
16 · p. 4
अनुष्टुप्
अभिधत्ते यथा कृष्णः स्यादसितः सितेतरः ।वार्ध्यादिषु पदे पूर्वे वाडवाग्न्यादिषूत्तरे ॥ १७ ॥
17 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सि (wrong syllable)
द्वयेऽपि भूभृदाद्येषु पर्यायपरिवर्तनम् ।एवं परावृत्तिसहा योगाः स्युरिति यौगिकाः ॥ १८ ॥
18 · p. 4
अनुष्टुप्
मिश्राः पुनः परावृत्त्यसहा गीर्वाणसंनिभाः ।प्रवक्ष्यन्तेऽत्र लिङ्गं तु ज्ञेयं लिङ्गानुशासनात् ॥ १९ ॥
19 · p. 4
अनुष्टुप्
देवाधिदेवाः प्रथमे काण्डे देवा द्वितीयके ।नरस्तृतीये तिर्यञ्चस्तुर्य एकेन्द्रियादयः ॥ २० ॥
20 · p. 4
अनुष्टुप्
एकेन्द्रियाः पृथिव्यम्बुतेजोवायुमहीरुहः ।कृमिपीलकलूताद्याः स्युर्द्वित्रिचतुरिन्द्रियाः ॥ २१ ॥
21 · p. 4
अनुष्टुप्
पञ्चेन्द्रियाश्चेभकेकिमत्स्याद्याः स्थलखाम्बुगाः ।पञ्चेन्द्रिया एव देवा नरा नैरयिका अपि ॥ २२ ॥
22 · p. 4
अनुष्टुप्
नारकाः पञ्चमे साङ्गाः षष्ठे साधारणाः स्फुटम् ।प्रस्तोष्यन्तेऽव्ययाश्चात्र त्वन्ताथादी न पूर्वगौ ॥ २३ ॥
23 · p. 4
अनुष्टुप्