कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Abhidhānacintāmaṇi

अभिधानचिन्तामणि Abhidhānacintāmaṇi

1,988 verses · 12,741 words tagged · 2,473 marked doubtful (dashed)

मर्त्यकाण्डः (4/7)

तलहृदयं तु तलं मध्ये पादतलस्य तत् ।
3.361 · p. 27
अनुष्टुप्metre not read in every line
तिलकः कालकः पिप्लुर्जडुलस्तिलकालकः ॥ ६१८ ॥
3.618 · p. 27
अनुष्टुप्metre not read in every line
रसासृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः ।सप्तैव दश वैकेषां रोमत्वक्स्नायुभिः सह ॥ ६१९ ॥
3.619 · p. 27
अनुष्टुप्
रस आहारतेजोऽग्निसंभवः षड्रसासवः ।आत्रेयोऽसृक्वरो धातुर्घनमूलमहापरः ॥ ६२० ॥
3.620 · p. 27
अनुष्टुप्
रक्तं रुधिरमाग्नेयं विस्रं तेजोभवं रसात् ।शोणितं लोहितमसृक्वासिष्ठं प्राणदासुरे ॥ ६२१ ॥क्षतजं मांसकार्यस्त्रं मांसं पललजङ्गले ।रक्तात्तेजोभवे क्रव्यं काश्यपं तरसामिषे ॥ ६२२ ॥मेदस्कृत्पिशितं कीनं पलं पेश्यस्तु तल्लताः ।
3.365 · p. 27
अनुष्टुप्
वुक्का हृद्धृदयं वृक्का सुरसं च तदग्रिमम् ॥ ६२३ ॥
3.623 · p. 27
अनुष्टुप्
शुष्कं वल्लूरमुत्तप्तं पूयदूष्ये पुनः समे ।
3.367 · p. 27
अनुष्टुप्
मेदोऽस्थिकृद्वपा मांसात्तेजोजे गौतमं वसा ॥ ६२४ ॥
3.624 · p. 27
अनुष्टुप्
गोदं तु मस्तकस्नेहो मस्तिष्को मस्तुलुङ्गकः ।
3.369 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भा (wrong syllable)
अस्थि कुल्यं भारद्वाजं मेदस्तेजश्च मज्जकृत् ॥ ६२५ ॥मांसपित्तं श्वदयितं कर्करो देहधारकम् ।मेदोजं कीकसं सारं करोटिः शिरसोऽस्थनि ॥ ६२६ ॥
3.626 · p. 27
अनुष्टुप्metre not read in every line
कपालकर्परौ तुल्यौ पृष्ठस्यास्थ्नि कशेरुका ।
3.371 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्थ्नि (wrong syllable)
शाखास्थनि स्यान्नलकं पार्श्वास्थ्नि वङ्क्रिपर्शुके ॥ ६२७ ॥
3.627 · p. 27
अनुष्टुप्metre not read in every line
शरीरास्थि करङ्कः स्यात्कङ्कालमस्थिपञ्जरः ।
3.373 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
मज्जा तु कौशिकः शुक्रकरोऽस्थ्नः स्नेहसंभवौ ॥ ६२८ ॥
3.628 · p. 27
अनुष्टुप्metre not read in every line
शुक्रं रेतो बलं वीर्यं बीजं मज्जसमुद्भवम् ।आनन्दप्रभवं पुंस्त्वमिन्द्रियं किट्टवर्जितम् ॥ ६२९ ॥पौरुषं प्रधानधातुर्लोम रोम तनूरुहम् ।
3.375 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 प्र (wrong syllable)
त्वक्छविश्छादनी कृत्तिश्चर्माजिनमसृग्धरा ॥ ६३० ॥
3.630 · p. 27
अनुष्टुप्metre not read in every line
वस्नसा नु स्नसा स्नायुर्नाड्यो धमनयः शिराः ।
3.377 · p. 27
अनुष्टुप्
कण्डरा तु महास्नायुर्मलं किट्टं तदक्षिजम् ॥ ६३१ ॥दूषीका दूषिका जैह्वं कुलुकं पिप्पिका पुनः ।दन्त्यं कार्णं तु पिञ्जूषः शिङ्घाणो घ्राणसंभवम् ॥ ६३२ ॥
3.632 · p. 27
अनुष्टुप्
सृणीका स्यन्दिनी लालास्यासवः कफकूर्चिका ।
3.379 · p. 27
अनुष्टुप्
मूत्रं बस्तिमलं मेहः प्रस्रावो नृजलं स्रवः ॥ ६३३ ॥
3.633 · p. 27
अनुष्टुप्
पुष्पिका तु लिङ्गमलं विड्विष्ठावस्करः शकृत् ।गूथं पुरीषं शमलोच्चारौ वर्चस्कवर्चसी ॥ ६३४ ॥
3.634 · p. 27
अनुष्टुप्metre not read in every line
वेषो नेपथ्यमाकल्पः परिकर्माङ्गसंस्क्रिया ।
3.382 · p. 27
अनुष्टुप्metre not read in every line
उद्वर्तनमुत्सादनमङ्गरागो विलेपनम् ॥ ६३५ ॥
3.635 · p. 27
अनुष्टुप्metre not read in every line
चर्चिक्यं समालभनं चर्चा स्यान्मण्डनं पुनः ।प्रसाधनं प्रतिकर्म मार्ष्टिः स्यान्मार्जना मृजा ॥ ६३६ ॥
3.636 · p. 27
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 स (wrong syllable); pāda 3, syllable 6 ति (wrong syllable)
वासयोगस्तु चूर्णं स्यात्पिष्टातः पटवासकः ।
3.385 · p. 27
अनुष्टुप्
गन्धमाल्यादिना यस्तु संस्कारः सोऽधिवासनम् ॥ ६३७ ॥
3.637 · p. 27
अनुष्टुप्
निर्वेश उपभोगः स्यात्स्नानं सवनमाप्लवः ।
3.387 · p. 27
अनुष्टुप्
कर्पूरागुरुकक्कोलकस्तूरीचन्दनद्रवैः ॥ ६३८ ॥स्याद्यक्षकर्दमो मिश्रैर्वर्तिर्गात्रानुलेपनी ।
3.388 · p. 27
अनुष्टुप्
चन्दनागुरुकस्तूरीकुङ्कुमैस्तु चतुःसमम् ॥ ६३९ ॥
3.639 · p. 27
अनुष्टुप्
अगुर्वगरु राजार्हं लोहं कृमिजवंशिके ।अनार्यजं जोङ्गिकं च मङ्गल्या मल्लिगन्धि यत् ॥ ६४० ॥कालागुरुः कालतुण्डः श्रीखण्डो रोहणद्रुमः ।गन्धसारो मलयजश्चन्दने हरिचन्दने ॥ ६४१ ॥तैलपर्णिकगोशीर्षौ पत्त्राङ्गं रक्तचन्दनम् ।कुचन्दनं ताम्रसारं रञ्जनं तिलपर्णिका ॥ ६४२ ॥
3.642 · p. 27
अनुष्टुप्
जातिकोशं जातिफलं कर्पूरो हिमवालुका ।घनसारः सिताभ्रश्च चन्द्रोऽथ मृगनाभिजा ॥ ६४३ ॥मृगनाभिर्मृगमदः कस्तूरी गन्धधूल्यपि ।
3.391 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 जा (wrong syllable)
कश्मीरजन्म घुसृणं वर्णं लोहितचन्दनम् ॥ ६४४ ॥वाह्लीकं कुङ्कुमं वह्निशिखं कालेयजागुडे ।संकोचपिशुनं रक्तं धीरं पीतनदीपने ॥ ६४५ ॥
3.645 · p. 27
अनुष्टुप्
लवङ्गं देवकुसुमं श्रीसंज्ञमथ कोलकम् ।कक्कोलकं कोशफलं कालीयकं तु जापकम् ॥ ६४६ ॥
3.646 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)
यक्षधूपो बहुरूपः सालवेष्टोऽग्निवल्लभः ।सर्जमणिः सर्जरसो रालः सर्वरसोऽपि च ॥ ६४७ ॥
3.647 · p. 27
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 हु (wrong syllable); pāda 3, syllable 2 र्ज (wrong syllable)
धूपो वकात्कृत्रिमाच्च तुरुष्कः सिल्हपिण्डकौ ।
3.395 · p. 28
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 स्तु (wrong syllable)
पायसस्तु वृक्षधूपः श्रीवासः सरलद्रवः ॥ ६४८ ॥
3.648 · p. 28
metre not recognised
स्थानात्स्थानान्तरं गच्छन्धूपो गन्धपिशाचिका ।
3.397 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्तु (wrong syllable)
स्थासकस्तु हस्तबिम्बमलंकारस्तु भूषणम् ॥ ६४९ ॥परिष्काराभरणे च चूडामणिः शिरोमणिः ।
3.398 · p. 28
अनुष्टुप्metre not read in every line
नायकस्तरलो हारान्तर्मणिर्मुकुटं पुनः ॥ ६५० ॥मौलिः किरीटकोटीरमुष्णीषं पुष्पदाम तु ।मूर्ध्नि माल्यं माला स्रक्स्वगर्भकः केशमध्यगम् ॥ ६५१ ॥
3.651 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable)
प्रभ्रष्टकं शिखालम्बि पुरोन्यस्तं ललामकम् ।
3.400 · p. 28
अनुष्टुप्
तिर्यग्वक्षसि वैकक्षं प्रालम्बमृजुलम्बि यत् ॥ ६५२ ॥
3.652 · p. 28
अनुष्टुप्
संदर्भो रचना गुम्फः श्रन्थनं ग्रन्थनं समाः ।
3.402 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त (wrong syllable)
तिलके तमालपत्त्रचित्रपुण्ड्रविशेषकाः ॥ ६५३ ॥
3.653 · p. 28
अनुष्टुप्metre not read in every line
आपीडशेखरोत्तंसाऽवतंसाः शिरसः स्रजि ।
3.404 · p. 28
अनुष्टुप्
उत्तरौ कर्णपूरेऽपि पत्त्रलेखा तु पत्त्रतः ॥ ६५४ ॥भङ्गिवल्लीलताङ्गुल्यः पत्त्रपाश्या ललाटिका ।
3.405 · p. 28
अनुष्टुप्
वालपाश्या पारितथ्या कर्णिका कर्णभूषणम् ॥ ६५५ ॥
3.655 · p. 28
अनुष्टुप्
ताडङ्कस्तु ताडपत्त्रं कुण्डलं कर्णवेष्टकः ।
3.407 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्तु (wrong syllable)
उत्क्षिप्तिका तु कर्णान्दुर्वालिका कर्णपृष्ठगा ॥ ६५६ ॥
3.656 · p. 28
अनुष्टुप्metre not read in every line
ग्रैवेयकं कण्ठभूषा लम्बमाना ललन्तिका ।
3.409 · p. 28
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 त्रि (wrong syllable)
प्रालम्बिका कृता हेम्नोरःसूत्रिका तु मौक्तिकैः ॥ ६५७ ॥
3.657 · p. 28
metre not recognised
हारो मुक्तातः प्रालम्बस्रक्कलापावलीलताः ।
3.411 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तः (wrong syllable)
देवच्छन्दः शतं साष्टं त्विन्द्रच्छन्दः सहस्रकम् ॥ ६५८ ॥
3.658 · p. 28
अनुष्टुप्metre not read in every line
तदर्धंविजयच्छन्दो हारस्त्वष्टोत्तरं शतम् ।
3.413 · p. 28
अनुष्टुप्
अर्धं रश्मिकलापोऽस्य द्वादश त्वर्धमाणवः ॥ ६५९ ॥
3.659 · p. 28
अनुष्टुप्
द्विर्द्वादशार्धगुच्छः स्यात्पञ्च हारफलं लताः ।
3.415 · p. 28
अनुष्टुप्
अर्धहारश्चतुःषष्टिर्गुच्छमाणवमन्दराः ॥ ६६० ॥अपि गोस्तनगोपुच्छावर्धमर्धं यथोत्तरम् ।
3.416 · p. 28
अनुष्टुप्
इति हारा यष्टिभेदादेकावल्येकयष्टिका ॥ ६६१ ॥कण्ठिकाप्यथ नक्षत्रमाला तत्संख्यमौक्तिकैः ।
3.417 · p. 28
अनुष्टुप्
केयूरमङ्गदं बाहुभूषाथ करभूषणम् ॥ ६६२ ॥कटको वलयं पारिहार्यावापौ तु कङ्कणम् ।हस्तसूत्रं प्रतिसर ऊर्मिका त्वङ्गुलीयकम् ॥ ६६३ ॥
3.663 · p. 28
अनुष्टुप्
साक्षराङ्गुलिमुद्रा सा कटिसूत्रं तु मेखला ।कलापो रशना सारसनं काञ्ची च सप्तकी ॥ ६६४ ॥
3.664 · p. 28
अनुष्टुप्
सा शृङ्खलं पुंस्कटीस्था किंकिणी क्षुद्रघण्टिका ।
3.420 · p. 28
अनुष्टुप्
नूपुरं तु तुलाकोटिः पादतः कटकाङ्गदे ॥ ६६५ ॥मञ्जीरं हंसकं शिञ्जिन्यंशुकं वस्त्रमम्बरम् ।सिचयो वसनं चीराच्छादौ सिक्चेलवाससी ॥ ६६६ ॥पटः प्रौतोऽञ्चलोऽस्यान्तो वर्तिर्वस्तिश्च तद्दशाः ।
3.421 · p. 28
अनुष्टुप्
पत्रोर्णं धौतकौशेयमुष्णीषो मूर्धवेष्टनम् ॥ ६६७ ॥
3.667 · p. 28
अनुष्टुप्
तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम् ।
3.423 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ल (wrong syllable)
त्वक्फलकृमिरोमभ्यः संभवत्वाच्चतुर्विधम् ॥ ६६८ ॥क्षौमकार्पासकौशेयराङ्कवादिविभेदतः ।
3.424 · p. 28
अनुष्टुप्metre not read in every line
क्षौमं दुकूलं दुगूलं स्यात्कार्पासं तु बादरम् ॥ ६६९ ॥
3.669 · p. 28
अनुष्टुप्
कौशेयं कृमिकोशोत्थं राङ्कवं मृगरोमजम् ।
3.426 · p. 28
अनुष्टुप्
कम्बलः पुनरूर्णायुराविकौरभ्ररल्लकाः ॥ ६७० ॥
3.670 · p. 28
अनुष्टुप्
नवं वासोऽनाहतं स्यात्तन्त्रकं निष्प्रवाणि च ।
3.428 · p. 28
अनुष्टुप्
प्रच्छादनं प्रावरणं संव्यानं चोत्तरीयकम् ॥ ६७१ ॥
3.671 · p. 28
अनुष्टुप्
वैकक्षे प्रावारोत्तरासङ्गौ बृहतिकापि च ।
3.430 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रो (wrong syllable)
वराशिः स्थूलशाटः स्यात्परिधानं त्वधोंशुकम् ॥ ६७२ ॥अन्तरीयं निवसनमुपसंव्यानमित्यपि ।
3.431 · p. 28
अनुष्टुप्metre not read in every line
तद्ग्रन्थिरुच्चयो नीवी वरस्त्र्यर्धोरुकांशुकम् ॥ ६७३ ॥चण्डातकं चलनकः चलनी त्वितरस्त्रियाः ।
3.432 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्गि (wrong syllable)
चोलः कञ्चुलिका कूर्पासकोऽङ्गिका च कञ्चुके ॥ ६७४ ॥
3.674 · p. 28
अनुष्टुप्metre not read in every line
शाटी चोट्यथ नीशारो हिमवातापहांशुके ।
3.434 · p. 28
अनुष्टुप्
कच्छा कच्छाटिका कक्षा परिधानापराञ्चले ॥ ६७५ ॥
3.675 · p. 28
अनुष्टुप्
कक्षापटस्तु कौपीने समौ नक्तककर्पटौ ।
3.436 · p. 28
अनुष्टुप्
निचोलः प्रच्छदपटो निचुलश्चोत्तरच्छदे ॥ ६७६ ॥
3.676 · p. 28
अनुष्टुप्
उत्सवेषु सुहृद्भिर्यद्बलादाकृष्य गृह्यते ।वस्त्रमाल्यादि तत्पूर्णपात्रं पूर्णानकं च तत् ॥ ६७७ ॥
3.677 · p. 28
अनुष्टुप्
तत्तु स्यादाप्रपदीनं व्याप्नोत्याप्रपदं हि यत् ।
3.439 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable)
चीवरं भिक्षुसंघाटी जीर्णवस्त्रं पटच्चरम् ॥ ६७८ ॥
3.678 · p. 28
अनुष्टुप्metre not read in every line
शाणी गोणी छिद्रवस्त्रे जलार्द्रा क्लिन्नवाससि ।
3.441 · p. 29
अनुष्टुप्
पर्यस्तिका परिकरः पर्यङ्कश्चावसक्थिका ॥ ६७९ ॥
3.679 · p. 29
अनुष्टुप्
कुथे वर्णपरिस्तोमप्रवेणीनवतास्तराः ।
3.443 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable)
अपटी काण्डपटः स्यात्प्रतिसीरा जवन्यपि ॥ ६८० ॥तिरस्करिण्यथोल्लोचो वितानं कदकोऽपि च ।चन्द्रोदये स्थुलं दूष्ये केणिका पटकुट्यपि ॥ ६८१ ॥गुणलयनिकायां स्यात्संस्तरस्रस्तरौ समौ ।
3.444 · p. 29
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 ल (wrong syllable); pāda 3, syllable 6 य (wrong syllable)
तल्पं शय्या शयनीयं शयनं तलिनं च तत् ॥ ६८२ ॥
3.682 · p. 29
metre not recognised
मञ्चमञ्चकपर्यङ्कपल्यङ्काः खट्वया समाः ।
3.446 · p. 29
अनुष्टुप्
उच्छीर्षकमुपाद्धानवर्हौपाले पतद्ग्रहः ॥ ६८३ ॥प्रतिग्राहे मुकुरात्मदर्शादर्शास्तु दर्पणे ।
3.447 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 कु (wrong syllable)
स्याद्वेत्रासनमासन्दी विष्टरः पीठमासनम् ॥ ६८४ ॥
3.684 · p. 29
अनुष्टुप्metre not read in every line
कसिपुर्भोजनाच्छादावौशीरं शयनाशने ।
3.449 · p. 29
अनुष्टुप्
लाक्षा द्रुमामयो राक्षा रङ्गमाता पलंकषा ॥ ६८५ ॥जतु क्षतघ्ना कृमिजा यावालक्तौ तु तद्रसः ।
3.450 · p. 29
अनुष्टुप्
अञ्जनं कज्जलं दीपः प्रदीपः कज्जलध्वजः ॥ ६८६ ॥स्नेहप्रियो गृहमणिर्दशाकर्षो दशेन्धनः ।
3.451 · p. 29
अनुष्टुप्
व्यजनं तालवृन्तं तद्धवित्रं मृगचर्मणः ॥ ६८७ ॥
3.687 · p. 29
अनुष्टुप्
आलावर्तं तु वस्त्रस्य कङ्कतः केशमार्जनः ।प्रसाधनश्चाथ बालक्रीडनके गुडो गिरिः ॥ ६८८ ॥गिरियको गिरिगुडः समौ कन्दुकगेन्दुकौ ।
3.453 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 3 य (wrong syllable)
राजा राट्पृथिवीशक्रमध्यलोकेशभूभृतः ॥ ६८९ ॥महीक्षित्पार्थिवो मूर्धाभिषिक्तो भूप्रजानृपः ।
3.454 · p. 29
अनुष्टुप्metre not read in every line
मध्यमो मण्डलाधीशः स सम्राट् शास्ति यो नृपान् ॥ ६९० ॥
3.690 · p. 29
अनुष्टुप्
यः सर्वमण्डलस्येशो राजसूयं च योऽजयत् ।चक्रवर्ती सार्वभौमस्ते तु द्वादश भारते ॥ ६९१ ॥
3.691 · p. 29
अनुष्टुप्
आर्षभिर्भरतस्तत्र सगरस्तु सुमित्रभूः ।
3.457 · p. 29
अनुष्टुप्
मघवा वैजयिरथाश्वसेननृपनन्दनः ॥ ६९२ ॥सनत्कुमारोऽथ शान्तिः कुन्थुररो जिना अपि ।
3.458 · p. 29
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable); pāda 3, syllable 4 स्तु (wrong syllable)
सुभूमस्तु कार्तवीर्यः पद्मः पद्मोत्तरात्मजः ॥ ६९३ ॥
3.693 · p. 29
metre not recognised
हरिषेणो हरिसुतो जयो विजयनन्दनः ।
3.460 · p. 29
अनुष्टुप्
ब्रह्मसूनुर्ब्रह्मदत्तः सर्वेऽपीक्ष्वाकुवंशजाः ॥ ६९४ ॥
3.694 · p. 29
अनुष्टुप्
प्राजापत्यस्त्रिपृष्ठोऽथ द्विपृष्ठो ब्रह्मसंभवः ।
3.462 · p. 29
अनुष्टुप्
स्वयंभू रुद्रतनयः सोमभूः पुरुषोत्तमः ॥ ६९५ ॥
3.695 · p. 29
अनुष्टुप्
शैवः पुरुषसिंहोऽथ महाशिरःसमुद्भवः ।स्यात्पुरुषपुण्डरीको दत्तोऽग्निसिंहनन्दनः ॥ ६९६ ॥
3.696 · p. 29
metre not recognised
नारायणो दाशरथिः कृष्णस्तु वसुदेवभूः ।
3.465 · p. 29
अनुष्टुप्
वासुदेवा अमी कृष्णा नव शुक्ला बलास्त्वमी ॥ ६९७ ॥
3.697 · p. 29
अनुष्टुप्
अचलो विजयो भद्रः सुप्रभश्च सुदर्शनः ।आनन्दो नन्दनः पद्मो रामो विष्णुद्विषस्त्वमी ॥ ६९८ ॥
3.698 · p. 29
अनुष्टुप्
अश्वग्रीवस्तारकश्च मेरको मधुरेव च ।निशुम्भवलिप्रह्लादलङ्केशमगधेश्वराः ॥ ६९९ ॥जिनैः सह त्रिषष्टिः स्युः शलाकापुरुषा अमी ।
3.468 · p. 29
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 लि (wrong syllable)
आदिराजः पृथुर्वैन्यो मांधाता युवनाश्वजः ॥ ७०० ॥
3.700 · p. 29
अनुष्टुप्
धुन्धुमारः कुवलाश्वो हरिश्चन्द्रस्त्रिशङ्कुजः ।
3.470 · p. 29
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
पुरूरवा वौध ऐल उर्वशीरमणश्च सः ॥ ७०१ ॥
3.701 · p. 29
metre not recognised
दौष्यन्तिर्भरतः सर्वंदमः शकुन्तलात्मजः ।
3.472 · p. 29
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable); pāda 3, syllable 4 स्तु (wrong syllable)
हैहयस्तु कार्तवीर्यो दोःसहस्रभृदर्जुनः ॥ ७०२ ॥
3.702 · p. 29
metre not recognised
कौशल्यानन्दनो दाशरथी रामोऽस्य तु प्रिया ।वैदेही मैथिली सीता जानकी धरणीसुता ॥ ७०३ ॥
3.703 · p. 29
अनुष्टुप्
रामपुत्रौ कुशलवावेकयोक्त्या कुशीलवौ ।
3.475 · p. 29
अनुष्टुप्
सौमित्रिर्लक्ष्मणो वाली वालिरिन्द्रसुतश्च सः ॥ ७०४ ॥
3.704 · p. 29
अनुष्टुप्
आदित्यसूनुः सुग्रीवो हनुमान्वज्रकङ्कटः ।मारुतिः केसरिसुत आञ्जनेयोऽर्जुनध्वजः ॥ ७०५ ॥
3.705 · p. 29
अनुष्टुप्
पौलस्यो रावणो रक्षो लङ्केशो दशकंधरः ।
3.478 · p. 29
अनुष्टुप्
रावणिः शक्रजिन्मेघनादो मन्दोदरीसुतः ॥ ७०६ ॥
3.706 · p. 29
अनुष्टुप्
अजातशत्रुः शल्यारिर्धर्मपुत्रो युधिष्ठिरः ।कङ्कोऽजमीढो भीमस्तु मरुत्पुत्रो वृकोदरः ॥ ७०७ ॥किर्मीरकीचकबकहिडम्बानां निषूदनः ।
3.480 · p. 29
अनुष्टुप्