कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Abhidhānacintāmaṇi

अभिधानचिन्तामणि Abhidhānacintāmaṇi

1,988 verses · 12,741 words tagged · 2,473 marked doubtful (dashed)

अव्ययवर्गः

इति सामान्यवर्गः

अथाव्ययानि वक्ष्यन्ते स्वः स्वर्गे भूः रसातले ॥ १५२५ ॥
7.1525 · p. 57
भुवो विहायसा व्योम्नि द्यावाभूम्योस्तु रोदसी ।
7.2 · p. 57
अनुष्टुप्
उपरिष्टादुपर्यूर्ध्वं स्यादधस्तादधोऽप्यवाक् ॥ १५२६ ॥
7.1526 · p. 57
अनुष्टुप्
वर्जने त्वन्तरेणर्त्ते हिरुग्नाना पृथग्विना ।
7.4 · p. 57
अनुष्टुप्
साकं सत्त्रा समं सार्धममा सह कृतं त्वलम् ॥ १५२७ ॥भवत्वस्तु च किं तुल्याः प्रेत्यामुत्र भवान्तरे ।
7.5 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कां (wrong syllable)
तूष्णीं तूष्णीकां जोषं च मौनं दिष्ट्या तु सम्मदे ॥ १५२८ ॥
7.1528 · p. 57
अनुष्टुप्metre not read in every line
परितः सर्वतो विष्वक्समन्ताच्च समन्ततः ।
7.7 · p. 57
अनुष्टुप्
पुरः पुरस्तात्पुरतोऽग्रतः प्रायस्तु भूमनि ॥ १५२९ ॥
7.1529 · p. 57
अनुष्टुप्
सांप्रतमधुनेदानीं संप्रत्येतर्ह्यथाञ्जसा ।द्राक्स्रागरं झटित्याशु मङ्क्ष्वह्नाय च सत्वरम् ॥ १५३० ॥
7.1530 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 त (wrong syllable)
सदा सनानिशं शश्वद्भूयोऽभीक्ष्णं पुनः पुनः ।असकृन्मुहुः सायं तु दिनान्ते दिवसे दिवा ॥ १५३१ ॥
7.1531 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 हुः (wrong syllable)
सहसैकपदे सद्योऽकस्मात्सपदि तत्क्षणे ।
7.11 · p. 57
अनुष्टुप्
चिराय चिररात्राय चिरस्य च चिराच्चिरम् ॥ १५३२ ॥चिरेण दीर्घकालार्थे कदाचिज्जातु कर्हिचित् ।
7.12 · p. 57
अनुष्टुप्
दोषा नक्तमुषा रात्रौ प्रगे प्रातरहर्मुखे ॥ १५३३ ॥
7.1533 · p. 57
अनुष्टुप्
तिर्यगर्थे तिरः साचि निष्फले तु वृथा मुधा ।
7.14 · p. 57
अनुष्टुप्
मृषा मिथ्यानृतेऽभ्यर्णे समया निकषा हिरुक् ॥ १५३४ ॥
7.1534 · p. 57
अनुष्टुप्
शं सुखे बलवत्सुष्ठु किमुतातीव निर्भरे ।
7.16 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
प्राक्पुरा प्रथमे संवद्वर्षे परस्परं मिथः ॥ १५३५ ॥
7.1535 · p. 57
अनुष्टुप्metre not read in every line
उषा निशान्तेऽल्पे किंचिन्मनागीषच्च किंचन ।
7.18 · p. 57
अनुष्टुप्
आहो उताहो किमुत वितर्के किं किमूत च ॥ १५३६ ॥
7.1536 · p. 57
अनुष्टुप्
इतिह स्यात्संप्रदाये हेतौ यत्तद्यतस्ततः ।
7.20 · p. 57
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 5 रे (wrong syllable)
संबोधनेऽङ्ग भोः पाट् प्याट् हे है हंहोऽरे रेऽयि च ॥ १५३७ ॥
7.1537 · p. 57
metre not recognised
श्रौषट्वौषट्वषट्स्वाहा स्वधा देवहविर्हुतौ ।
7.22 · p. 58
अनुष्टुप्
रहस्युपांशु मध्येऽन्तरन्तरेणान्तरेऽन्तरा ॥ १५३८ ॥
7.1538 · p. 58
अनुष्टुप्
प्रादुराविः प्रकाशे स्यादभावे त्व न नो नहि ।
7.24 · p. 58
अनुष्टुप्
हठे प्रसह्य मा मास्म वारणेऽस्तमदर्शने ॥ १५३९ ॥
7.1539 · p. 58
अनुष्टुप्
अकामानुमतौ कामं स्यादोमां परमं मते ।
7.26 · p. 58
अनुष्टुप्
कच्चिदिष्टपरिप्रश्नेऽवश्यं नूनं च निश्चये ॥ १५४० ॥
7.1540 · p. 58
अनुष्टुप्
बहिर्बहिर्भवे ह्यः स्यादतीतेऽह्नि श्व एष्यति ।
7.28 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्ति (wrong syllable)
नीचैरल्पे महत्युच्चैः सत्त्वेऽस्ति दुष्ठु निन्दने ॥ १५४१ ॥
7.1541 · p. 58
अनुष्टुप्metre not read in every line
ननुच स्याद्विरोधोक्तौ पक्षान्तरे तु चेद्यदि ।
7.30 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्त (wrong syllable)
शनैर्मन्देऽवरे त्वर्वाग्रोषोक्तावुं नतौ नमः ॥ १५४२ ॥
7.1542 · p. 58
अनुष्टुप्metre not read in every line