कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Abhidhānacintāmaṇi

अभिधानचिन्तामणि Abhidhānacintāmaṇi

1,988 verses · 12,741 words tagged · 2,473 marked doubtful (dashed)

तिर्यक्काण्डः · वायुकायः

इति तेजस्कायः ।

वायुः समीरसमिरौ पवनाशुगौ नभःश्वासो नभस्वदनिलश्वसनाः समीरणः ।वातोऽहिकान्तपवमानमरुत्प्रकम्पनाः कम्पाङ्कनित्यगतिगन्धवहप्रभञ्जनाः ॥ ११०६ ॥मातरिश्वा जगत्प्राणः पृषदश्वो महाबलः ।मारुतः स्पर्शनो दैत्यदेवो झञ्झा स वृष्टियुक् ॥ ११०७ ॥
4.4.1107 · p. 43
metre not recognised
प्राणो नासाग्रहृन्नाभिपादाङ्गुष्ठान्तगोचरः ।
4.4.2 · p. 43
अनुष्टुप्
अपानः पवनो मन्थापृष्ठपृष्टान्तपार्ष्णिगः ॥ ११०८ ॥
4.4.1108 · p. 43
अनुष्टुप्
समानः संधिहृन्नाभिषूदानो हृच्छिरोऽन्तरे ।
4.4.4 · p. 43
अनुष्टुप्
सर्वत्वग्वृत्तिको व्यान इत्यङ्गे पञ्च वायवः ॥ ११०९ ॥
4.4.1109 · p. 43
अनुष्टुप्