कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Abhidhānacintāmaṇi

अभिधानचिन्तामणि Abhidhānacintāmaṇi

1,988 verses · 12,741 words tagged · 2,473 marked doubtful (dashed)

तिर्यक्काण्डः · वनस्पतिकायः (2/2)

कूष्माण्डकस्तु कर्कारुः कोशातकी पटोलिका ॥ ११८८ ॥
4.5.1188 · p. 46
metre not recognised
चिर्भटी कर्कटी वालुक्येर्वारुस्त्रपुसी च सा ।
4.5.122 · p. 46
अनुष्टुप्
अर्शोघ्नः सूरणः कन्दः शृङ्गबेरकमार्दकम् ॥ ११८९ ॥
4.5.1189 · p. 46
अनुष्टुप्
कर्कोटकः किलासघ्नस्तिक्तपत्त्रः सुगन्धकः ।
4.5.124 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
मूलकं तु हरिपर्णं सेकिमं हस्तिदन्तकम् ॥ ११९० ॥
4.5.1190 · p. 46
अनुष्टुप्metre not read in every line
तृणं नडादि नीवारादि च शष्पं तु तन्नवम् ।
4.5.126 · p. 46
अनुष्टुप्
सौगन्धिकं देवजग्धं पौरं कत्तृणरोहिषे ॥ ११९१ ॥
4.5.1191 · p. 46
अनुष्टुप्
दर्भः कुशः कुथो बर्हिः पवित्रमथ तेजनः ।गुन्द्रो मुञ्जः शरो दूर्वा त्वनन्ता शतपर्विका ॥ ११९२ ॥हरिताली रुहा पोटगलस्तु धमनो नडः ।
4.5.128 · p. 46
अनुष्टुप्
कुरुविन्दो मेघनामा मुस्ता गुन्द्रा तु सोत्तमा ॥ ११९३ ॥
4.5.1193 · p. 46
अनुष्टुप्
वल्वजा उलपोऽथेक्षुः स्याद्रसालोऽसिपत्त्रकः ।
4.5.130 · p. 46
अनुष्टुप्
भेदाः कान्तारपुण्ड्राद्यास्तस्य मूलं तु मोरटम् ॥ ११९४ ॥
4.5.1194 · p. 46
अनुष्टुप्
काशस्त्विषीका घासस्तु यवसं तृणमर्जुनम् ।
4.5.132 · p. 46
अनुष्टुप्
विषः क्ष्वेडो रसस्तीक्ष्णं गरलोऽथ हलाहलः ॥ ११९५ ॥वत्सनाभः कालकूटो ब्रह्मपुत्रः प्रदीपनः ।सौराष्ट्रिकः शौल्किकेयः काकोलो दारदोऽपि च ॥ ११९६ ॥अहिच्छत्त्रो मेषशृङ्गकुष्टवालूकनन्दनाः ।कैराटको हैमवतो मर्कटः करवीरकः ॥ ११९७ ॥सर्षपो मूलको गौरार्द्रकः सक्तुककर्दमौ ।अङ्कोल्लसारः कालिङ्गः शृङ्गिको मधुसिक्थकः ॥ ११९८ ॥इन्द्रो लाङ्गुलिको विस्फुलिङ्गपिङ्गलगौतमाः ।मुस्तको दालवश्चेति स्थावरा विषजातयः ॥ ११९९ ॥
4.5.1199 · p. 46
अनुष्टुप्
कुरण्ट्याद्या अग्रबीजा मूलजास्तूत्पलादयः ।पर्वयोऽनय इक्ष्वाद्याः स्कन्धजाः सल्लकीमुखाः ॥ १२०० ॥शाल्यादयो बीजरुहाः सम्मूर्छजास्तृणादयः ।स्युर्वनस्पतिकायस्य षडेते मूलजातयः ॥ १२०१ ॥
4.5.1201 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्छ (wrong syllable)