All kośas › Abhidhānacintāmaṇi
अभिधानचिन्तामणि Abhidhānacintāmaṇi
1,988 verses · 12,741 words tagged · 2,473 marked doubtful (dashed)
देवाधिदेवकाण्डः
अर्हञ्जिनः पारगतस्त्रिकालवित्क्षीणाष्टकर्मा परमेष्ठ्यधीश्वरः ।शंभुः स्वयंभूर्भगवाज्जगत्प्रभुस्तीर्थंकरस्तीर्थकरो जिनेश्वरः ॥ २४ ॥स्याद्वाद्यभयदसार्वाः सर्वज्ञः सर्वदर्शिकेवलिनौ ।देवाधिदेवबोधिदपुरुषोत्तमवीतरागाप्ताः ॥ २५ ॥
1.25 · p. 5
इन्द्रवंशा
एतस्यामवसर्पिण्यामृषभोऽजितशंभवौ ।अभिनन्दनः सुमतिस्ततः पद्मप्रभाभिधः ॥ २६ ॥सुपार्श्वश्चन्द्रप्रभश्च सुविधिश्चाथ शीतलः ।श्रेयांसो वासुपूज्यश्च विमलोऽनन्ततीर्थकृत् ॥ २७ ॥धर्मः शान्तिः कुंथुररो मल्लिश्च मुनिसुव्रतः ।नमिर्नेमिः पार्श्वो वीरश्चतुर्विंशतिरर्हताम् ॥ २८ ॥
1.28 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
अरिष्टनेमिस्तु नेमिर्वीरश्चरमतीर्थकृत् ।महावीरो वर्धमानो देवार्यो ज्ञातनन्दनः ॥ ३० ॥
1.30 · p. 5
अनुष्टुप्
गणा नवास्यर्षिसंघा एकादश गणाधिपाः ।इन्द्रभूतिरग्निभूतिर्वायुभूतिश्च गोतमाः ॥ ३१ ॥व्यक्तः सुधर्मा मण्डितमौर्यपुत्रावकम्पितः ।अचलभ्राता मेतार्यः प्रभासश्च पृथक्कुलाः ॥ ३२ ॥
1.32 · p. 5
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 ति (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable); pāda 3, syllable 5 ता (wrong syllable)
केवली चरमो जम्बूस्वाम्यथ प्रभवप्रभुः ।शय्यंभवो यशोभद्रः संभूतविजयस्ततः ॥ ३३ ॥भद्रबाहुः स्थूलभद्रः श्रुतकेवलिनो हि षट् ।
1.7 · p. 5
अनुष्टुप्
इक्ष्वाकुकुलसंभूताः स्याद्द्वाविंशतिरर्हताम् ।मुनिसुव्रतनेमी तु हरिवंशसमुद्भवौ ॥ ३५ ॥
1.35 · p. 5
अनुष्टुप्
नाभिश्च जितशत्रुश्च जितारिरथ संवरः ।मेघो धरः प्रतिष्ठश्च महासेननरेश्वरः ॥ ३६ ॥सुग्रीवश्च दृढरथो विष्णुश्च वसुपूज्यराट् ।कृतवर्मा सिंहसेनो भानुश्च विश्वसेनराट् ॥ ३७ ॥सूरः सुदर्शनः कुम्भः सुमित्रो विजयस्तथा ।समुद्रविजयश्चाश्वसेनः सिद्धार्थ एव च ॥ ३८ ॥
1.38 · p. 5
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 श्च (wrong syllable); pāda 4, syllable 3 श्च (wrong syllable)
मरुदेवा विजया सेना सिद्धार्था च मङ्गला ।ततः सुसीमा पृथ्वी लक्ष्मणा रामा ततः परम् ॥ ३९ ॥नन्दा विष्णुर्जया श्यामा सुयशाः सुव्रताचिरा ।श्रीर्देवी प्रभावती च पद्मा वप्रा शिवा तथा ॥ ४० ॥वामा त्रिशला क्रमतः पितरो मातरोऽर्हताम् ।
1.11 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ज (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 4 प्र (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 4 श (wrong syllable)
स्याद्गोमुखो महायक्षस्त्रिमुखो यक्षनायकः ॥ ४१ ॥तुम्बरुः कुसुमश्चापि मातङ्गो विजयोऽजितः ।ब्रह्मा यक्षेट् कुमारः षण्मुखपातालकिंनराः ॥ ४२ ॥गरुडो गन्धर्वो यक्षेट् कुबेरो वरुणोऽपि च ।भृकुटिर्गोमेधः पार्श्वो मातङ्गोऽर्हदुपासकाः ॥ ४३ ॥
1.43 · p. 5
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 न्ध (wrong syllable); pāda 3, syllable 5 मे (wrong syllable)
चक्रेश्वर्यजितबला दुरितारिश्च कालिका ।महाकाली श्यामा शान्ता भृकुटिश्च सुतारका ॥ ४४ ॥अशोका मानवी चण्डा विदिता चाङ्कुशा तथा ।कंदर्पा निर्वाणी बला धारिणी धरणप्रिया ॥ ४५ ॥नरदत्ताथ गान्धार्यम्बिका पद्मावती तथा ।सिद्धायिका चेति जैन्यः क्रमाच्छासनदेवताः ॥ ४६ ॥
1.46 · p. 5
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 र्य (wrong syllable); pāda 3, syllable 5 श्या (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 6 णी (wrong syllable)
चक्रेश्वरीस्त्रीअजितबलास्त्रीदुरितारिस्त्रीकालिकास्त्रीमहाकालीस्त्रीश्यामास्त्रीशान्तास्त्रीभृकुटिस्त्रीसुतारकास्त्रीअशोकास्त्रीमानवीस्त्रीचण्डास्त्रीविदितास्त्रीअङ्कुशास्त्रीकंदर्पास्त्रीनिर्वाणीस्त्रीबलास्त्रीधारिणीस्त्रीधरणप्रियास्त्रीनरदत्तास्त्रीगान्धारीस्त्रीअम्बिकास्त्रीपद्मावतीस्त्रीसिद्धायिकास्त्रीशासनदेवतास्त्री
वृषो गजोऽश्वः प्लवगः क्रौञ्चोऽब्जं स्वस्तिकः शशी ।मकरः श्रीवत्सः खड्गी महिषः सूकरस्तथा ॥ ४७ ॥श्येनो वज्रं मृगश्छागो नन्द्यावर्तो घटोऽपि च ।कूर्मो नीलोत्पलं शङ्खः फणी सिंहोऽर्हतां ध्वजाः ॥ ४८ ॥
1.48 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
रक्तौ च पद्मप्रभवासुपूज्यौ शुक्लौ तु चन्द्रप्रभपुष्पदन्तौ ।कृष्णौ पुनर्नेमिमुनी विनीलौ श्रीमल्लिपार्श्वौ कनकत्विषोऽन्ये ॥ ४९ ॥
1.49 · p. 5
इन्द्रवज्रा
उत्सर्पिण्यामतीतायां चतुर्विंशतिरर्हताम् ।केवलज्ञानी निर्वाणी सागरोऽथ महायशाः ॥ ५० ॥विमलः सर्वानुभूतिः श्रीधरो दत्ततीर्थकृत् ।दामोदरः सुतेजाश्च स्वाम्यथो मुनिसुव्रतः ॥ ५१ ॥सुमतिः शिवगतिश्चैवात्यागोऽथ निमीश्वरः ।अनिलो यशोधराख्यः कृतार्थोऽथ जिनेश्वरः ॥ ५२ ॥शुद्धमतिः शिवकरः स्यन्दनश्चाथ संप्रतिः ।
1.16 · p. 5
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 नी (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable); pāda 3, syllable 4 य (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable); pāda 3, syllable 4 तु (wrong syllable)
भाविन्यां तु पद्मनाभः शूरदेवः सुपार्श्वकः ॥ ५३ ॥स्वयंप्रभश्च सर्वानुभूतिर्देवश्रुतोदयौ ।पेढालः पोट्टिलश्चापि शतकीर्तिश्च सुव्रतः ॥ ५४ ॥अममो निष्कषायश्च निष्पुलाकोऽथ निर्ममः ।चित्रगुप्तः समाधिश्च संवरश्च यशोधरः ॥ ५५ ॥विजयो मल्लदेवौ चानन्तवीर्यश्च भद्रकृत् ।एवं सर्वावसर्पिण्युत्सर्पिणीषु जिनोत्तमाः ॥ ५६ ॥
1.56 · p. 6
metre not recognised
तेषां च देहोऽद्भुतरूपगन्धो निरामयः स्वेदमलोज्झितश्च ।श्वासोऽब्जगन्धो रुधिरामिषं तु गोक्षीरधाराधवलं ह्यविस्रम् ॥ ५७ ॥आहारनीहारविधिस्त्वदृश्यश्चत्वार एतेऽतिशयाः सहोत्थाः ।
1.18 · p. 6
उपजातिः
क्षेत्रे स्थितिर्योजनमात्रकेऽपि नृदेवतिर्यग्जनकोटिकोटेः ॥ ५८ ॥वाणी नृतिर्यक्सुरलोकभाषासंवादिनी योजनगामिनी च ।भामण्डलं चारु च मौलिपृष्ठे विडम्बिताहर्पतिमण्डलश्रीः ॥ ५९ ॥साग्रे च गव्यूतिशतद्वये रुजावैरेतयो मार्यतिवृष्ट्यवृष्टयः ।दुर्भिक्षमन्यस्वकचक्रतो भयं स्यान्नैत एकादश कर्मघातजाः ॥ ६० ॥
1.60 · p. 6
उपजातिः
खे धर्मचक्रं चमराः सपादपीठं मृगेन्द्रासनमुज्ज्वलं च ।छत्त्रत्रयं रत्नमयध्वजोऽङ्घ्रिन्यासे च चामीकरपङ्कजानि ॥ ६१ ॥वप्रत्रयं चारु चतुर्मुखाङ्गताश्चैत्यद्रुमोऽधोवदनाश्च कण्टकाः ।द्रुमानतिर्दुन्दुभिनाद उच्चकैर्वातोऽनुकूलः शकुनाः प्रदक्षिणाः ॥ ६२ ॥गन्धाम्बुवर्षं बहुवर्णपुष्पवृष्टिः कचश्मश्रुनखाप्रवृद्धिः ।चतुर्विधा मर्त्यनिकायकोटिर्जघन्यभावादपि पार्श्वदेशे ॥ ६३ ॥क्रतूनामिन्द्रियार्थानामनुकूलत्वमित्यमी ।एकोनविंशतिर्दैव्याश्चतुस्त्रिंशच्च मीलिताः ॥ ६४ ॥
1.64 · p. 6
इन्द्रवज्रा
संस्कारवत्त्वमौदार्यमुपचारपरीतता ।मेघनिर्घोषगाम्भीर्यं प्रतिनादविधायिता ॥ ६५ ॥दक्षिणत्वमुपनीतरागत्वं च महार्थता ।अव्याहतत्वं शिष्टत्वं संशयानमसंभवः ॥ ६६ ॥निराकृतान्योत्तरत्वं हृदयंगमितापि च ।मिथः साकाङ्क्षता प्रस्तावौचित्यं तत्त्वनिष्ठता ॥ ६७ ॥अप्रकीर्णप्रसृतत्वमस्वश्लाघान्यनिन्दिता ।आभिजात्यमतिस्निग्धमधुरत्वं प्रशस्यता ॥ ६८ ॥अमर्मवेधितौदार्यं धर्मार्थप्रतिबद्धता ।कारकाद्यविपर्यासो विभ्रमादिवियुक्तता ॥ ६९ ॥चित्रकृत्त्वमद्भुतत्वं तथानतिविलम्बिता ।अनेकजातिवैचित्र्यमारोपितविशेषिता ॥ ७० ॥सत्त्वप्रधानता वर्णपदवाक्यविविक्तता ।अव्युच्छित्तिरखेदित्वं पञ्चविंशच्च वाग्गुणाः ॥ ७१ ॥
1.71 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 6 सृ (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 4 त्त्व (wrong syllable)
संस्कारवत्त्वक्लीऔदार्यक्लीउपचारपरीततास्त्रीमेघनिर्घोषगाम्भीर्यक्लीप्रतिनादविधायितास्त्रीदक्षिणत्वक्लीउपनीतरागत्वक्लीमहार्थतास्त्रीअव्याहतत्वक्लीशिष्टत्वक्लीसंशयासंभवपुंनिराकृतान्योत्तरत्वक्लीहृदयंगमितास्त्रीमिथःसाकाङ्क्षतास्त्रीप्रस्तावौचित्यक्लीतत्त्वनिष्ठतास्त्रीअप्रकीर्णप्रसृतत्वक्लीअस्वश्लाघान्यनिन्दितास्त्रीआभिजात्यक्लीअतिस्निग्धमधुरत्वक्लीप्रशस्यतास्त्रीअमर्मवेधितास्त्रीधर्मार्थप्रतिबद्धतास्त्रीकारकाद्यविपर्यासपुंविभ्रमादिवियुक्ततास्त्रीचित्रकृत्त्वक्लीअद्भुतत्वक्लीअनतिविलम्बितास्त्रीअनेकजातिवैचित्र्यक्लीआरोपितविशेषितास्त्रीसत्त्वप्रधानतास्त्रीवर्णपदवाक्यविविक्ततास्त्रीअव्युच्छित्तिस्त्रीअखेदित्वक्ली
अन्तराया दानलाभवीर्यभोगोपभोगगाः ।हासो रत्यरती भीतिर्जुगुप्सा शोक एव च ॥ ७२ ॥कामो मिथ्यात्वमज्ञानं निद्रा चाविरतिस्तथा ।रोगो द्वेषश्च नो दोषास्तेषामष्टादशाप्यमी ॥ ७३ ॥
1.73 · p. 6
अनुष्टुप्
महानन्दोऽमृतं सिद्धिः कैवल्यमपुनर्भवः ।शिवं निःश्रेयसं श्रेयो निर्वाणं ब्रह्म निर्वृतिः ॥ ७४ ॥महोदयः सर्वदुःखक्षयो निर्याणमक्षरम् ।मुक्तिर्मोक्षोऽपवर्गोऽथ मुमुक्षुः श्रमणो यतिः ॥ ७५ ॥वाचंयमो व्रती साधुरनगार ऋषिर्मुनिः ।निर्ग्रन्थो भिक्षुरस्य स्वं तपोयोगशमादयः ॥ ७६ ॥
1.76 · p. 6
अनुष्टुप्
मोक्षोपायो योगो ज्ञानश्रद्धानचरणात्मकः ।
1.24 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 यो (wrong syllable)
श्वःश्रेयसं शुभशिवे कल्याणं श्वोवसीयसं श्रेयः ।क्षेमं भावुकभविककुशलमङ्गलभद्रमद्रशस्तानि ॥ ८६ ॥
1.86 · p. 7
गीतिः