तिरोधान
tirodhānaक्ली · neut.In 11 kośas: 10 synonym verses, 4 as a meaning of another word.
अवकीर्णे त्ववध्वस्तं संवीतं रुद्धमावृतम् ।संवृतं पिहितं छन्नं स्थगितं चापवारितम् ॥ १४७६ ॥अन्तर्हितं तिरोहितमन्तर्धिस्त्वपवारणम् ।छदनं व्यवधान्तर्धापिधानस्थगनानि च ॥ १४७७ ॥व्यवधानं तिरोधानं दर्शितं तु प्रकाशितम् ।आविष्कृतं प्रकटितमुच्चण्डं त्ववलम्बितम् ॥ १४७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 हि (wrong syllable)
genderक्लीneut.
अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम् ॥ १२ ॥अपिधानतिरोधानपिधानाच्छादनानि च ।
अनुष्टुप्
genderक्लीneut.
अत्यर्थमतिमर्यादमतिवेलं च कथ्यते ।व्यवधानं तिरोधानमन्तर्धिरपवारणम् ॥ ७१९ ॥
अनुष्टुप्
genderक्लीneut.
अन्तर्द्धा व्यवधा स्त्रीत्वेऽप्यन्तर्द्धिर्व्यवधिः पुमान् ।अन्तर्द्धानतिरोधाने च्छदनाच्छादने अपि ॥ १६५ ॥
अनुष्टुप्
genderक्लीneut.
अपिधानं पिधानोऽस्त्री तिरोधानापवारणे ।स्थगनं व्यवधानं च छादनं स्त्री तिरोहितिः ॥ १६ ॥
अनुष्टुप्
genderक्लीneut.
स्थगितं तिरोहितं च पिधानस्थगने समे ।छदनं च तिरोधानं व्यवधा दर्शिऽतेप्यथ ॥ ३५७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ति (wrong syllable)
genderक्लीneut.
अन्तर्द्धा च तिरोधानमन्तर्द्धिश्च पिधानमिति ॥ २६८४ ॥
metre not recognised
genderक्लीneut.
अन्तर्धिर्व्यवधिः पुंसि त्वन्तर्धा व्यवधा स्त्रियाम् ।अपिधानं तिरोधानं च्छादनं चापवारणम् ॥
अनुष्टुप्
genderक्लीneut.
अन्तर्धाव्यवधानप्रावरणस्थगनगूहनास्तरणम् ।अपिधानं तिरोधानं विधानमपवारणम् ॥ २२१ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
अपिधानतिरोधानपिधानाच्छादनानि च ।दिनादौ प्राह्णपूर्वाह्णौ ततः संगतसंगवौ ॥ ६४ ॥
अनुष्टुप्
genderक्लीneut.
तिरोधान as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् नाशनाशः क्षये तिरोधाने जीवितेशः प्रिये यमे ॥ Amarakośa 3.3.419
- धरणिकोश अवरोधअवरोधस्तिरोधाने राजदारेषु तद्गृहे । समुन्नद्धाः समुद्भूतपण्डितंमन्यगर्विताः ॥ Dharaṇikośa 18.2.18
- कोषकल्पतरु अवरोधअवरोधो नृपसदने शुद्धान्ते स्यात्तिरोधाने ॥ ७९ ॥ Koṣakalpataru 6.20.79
- शब्दरत्नावली अवरोधअवरोधो नृपगृहे तिरोधाने नृपाङ्गने । अवष्टब्धः समाक्रान्तेऽविदूरेऽप्यवलम्बिते ॥ अनुबन्धी च तृष्णायां हिक्कायाभवि च स्त्रियाम् । अनुबन्धो बन्धे दोषोत्पादने च विनश्वरे ॥ Śabdaratnāvalī 7.19.38