कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

संवीत

saṃvītaवि · adj.

In 10 kośas: 12 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1478 · p. 56
अवकीर्णे त्ववध्वस्तं संवीतं रुद्धमावृतम् ।संवृतं पिहितं छन्नं स्थगितं चापवारितम् ॥ १४७६ ॥अन्तर्हितं तिरोहितमन्तर्धिस्त्वपवारणम् ।छदनं व्यवधान्तर्धापिधानस्थगनानि च ॥ १४७७ ॥व्यवधानं तिरोधानं दर्शितं तु प्रकाशितम् ।आविष्कृतं प्रकटितमुच्चण्डं त्ववलम्बितम् ॥ १४७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 हि (wrong syllable)
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.90
वेष्टितं स्याद्वलयितं संवीतं रुद्धमावृतम् ॥ ९० ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.743 · p. 85
प्रतिकूलं प्रतिलोमं प्रतीपमुक्तं प्रसव्यमेकार्थम् ।अपवारितं च पिहितं संवीतं संवृतं स्थगितम् ॥ ७४३ ॥
आर्या
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.781 · p. 89
स्मृतमास्थितमाक्रान्तं प्रतीष्टं पतदाहृतम् ।प्रच्छादितं स्यात्संवीतं प्रशस्तं संस्कृतं स्मृतम् ॥ ७८१ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.24 · p. 255
स[114b] संवीताभिधोऽथ स्यात्कर्कः कौकाहकः सितः ।निचितो बिन्दुभिः कृष्णैराननोदरसक्थिषु ॥ २४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 सं (syllables merged)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.11 · p. 23
आवृतं संवृतं छन्नं संवीतमपवारितम् ।पिहितं स्थगितं चापिहितमन्तर्हितं तथा ॥ ११ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.356 · p. 96
उत्सृष्टविधुते हीनं विन्नवित्ते विचारितम् ।[53] संरुद्धसंवृते छन्नं संवीते रुद्धमित्यपि ॥ ३५६ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2683 · p. 434
संवीतं संवृतं रुद्धं स्थगितमपवारितम् ।आवृतं पिहितं छन्नमपिहितञ्च छादितम् ॥ २६८३ ॥
metre not recognised
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.55 · p. 167
स्याद्वेष्टिते वलयितं रुद्धं संवीतमावृतम् ।तेजितं निशितं शातं क्षुतं शानादिमार्जिते ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.67 · p. 255
वित्तं च, पिहिते छन्नं छादितं संवृताऽवृते ।अपवारित-संवीते पिधाने व्यवधानवत् ॥ ६७ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1603 · p. 193
स्थगितप्रोर्णुतरुद्धान्तर्हितमपवाहितं च संवीतम् ।अस्तं नुत्तं विद्धं क्षिप्तं नुन्नेरिते च निष्ठ्यूतम् ॥ १६०३ ॥
गीतिः
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.96 · p. 209
रुचिते हृद्यलषितवांछितेष्टेडितेहिताः ।संवीतं स्याद्वलयितं वेष्टितं रुद्धमावृतम् ॥ ९६ ॥
अनुष्टुप्
genderविadj.