कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Bālaprabodhikā

बालप्रबोधिका Bālaprabodhikā

357 verses · 2,901 words tagged · 725 marked doubtful (dashed)

षोडशोपदेशः

इति बालप्रबोधिकायां पञ्चदशोपदेशः ।

मनुष्या मानवा मर्त्याः पुरुषाः पूरुषा नराः ।प्रातः पञ्चजनो गोधा द्विपादो नहुषो नरः ॥ ३२७ ॥
16.327 · p. 96
अनुष्टुप्
ब्राह्मणस्त्वग्रवर्णश्च विप्रो मन्त्रमुखोऽपि च ।क्षत्रियो बाहुजो राजा भूमीशश्च निगद्यते ॥ ३२८ ॥
16.328 · p. 96
अनुष्टुप्
वैश्ये त्वर्यो गोमतिश्च शूद्रः पादभवः स्मृतः ।जातिमात्रोपजीवस्तु यस्स स्याद्ब्राह्मणब्रुवः ॥ ३२९ ॥
16.329 · p. 96
अनुष्टुप्
अजपस्त्वसदध्येता देवाजीवस्तु देवलः ।अधायवो वातरतो विगिताख्यातगर्हणः ॥ ३३० ॥
16.330 · p. 96
अनुष्टुप्
अवगीताश्च हन्ता तु गुरूणां नरकीलकः ।शिखिदानो दुराचारः निषिद्धैकरुचिः स्वरुः ॥ ३३१ ॥
16.331 · p. 96
अनुष्टुप्
त्यक्तात्मा त्यक्तसन्धानोऽवकीर्णस्तु क्षतव्रतः ।शाखारण्डोऽन्यशाखस्तु वधानी तु स्वशाखिकः ॥ ३३२ ॥
16.332 · p. 96
अनुष्टुप्
सुधीर्विपश्चित्सङ्ख्यावान्प्राज्ञो धीमान्विचक्षणः ।विद्वान् सन्कोविदः सूरिः मेधावी पण्डितो बुधः ॥ ३३३ ॥
16.333 · p. 96
अनुष्टुप्
वैहानिकः केलिसखः केलिकलश्च कथ्यते ।केलीसहायवासन्तौ सामन्तो राजसंस्तुतः ॥ ३३४ ॥
16.334 · p. 96
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
अभिहारस्त्वभिचरः सहायोऽनुप्लवोऽनुगः ।क्षुद्रोपकरणे चास्य अध्यक्षः पारिकर्मिकः ॥ ३३५ ॥
16.335 · p. 96
अनुष्टुप्
कुमाटूमान्त्रिको मन्त्रिवर्गोऽमात्योऽथ धार्मिकः ।भटे विकर्मको धुर्यां चौरिको दण्डपाणिकः ॥ ३३६ ॥
16.336 · p. 96
अनुष्टुप्
आरिको गोप्यको रात्रिजागरः सर्वदर्शकः ।सेनापतिर्दण्डपालः कार्मिको मार्गरोधकः ॥ ३३७ ॥
16.337 · p. 96
अनुष्टुप्
दौवारिको वेत्रधरः क्षत्ता द्वास्थश्च दर्शकः ।पुरोधास्तु पुरोगामी पुरोहितपुरोगमौ ॥ ३३८ ॥
16.338 · p. 97
अनुष्टुप्
वैतालिका बोधकरा वन्दिनः स्तुतिपाठकाः ।मागधो मङ्खको घण्डाताडो घाण्डिकचाक्रिकौ ॥ ३३९ ॥
16.339 · p. 97
अनुष्टुप्
अरातिरहितः शत्रुः दूषणः शात्रवः परः ।मित्रं निजात्मीयजनौ वयस्येष्टहितप्रियाः ॥ ३४० ॥
16.340 · p. 97
अनुष्टुप्
गजोपचारकुशलो वाहिको मलहारकः ।आधोरणो हस्तिपको हस्त्यारोहो निषादिनः ॥ ३४१ ॥
16.341 · p. 97
अनुष्टुप्
सत्प्रधाना महामात्रा हारोहागजवाजिनः ।कुटुम्बी तु क्षेत्रजीवो वृद्धिजीवः कुलिन्दकः ॥ ३४२ ॥
16.342 · p. 97
अनुष्टुप्
वार्धुषिः स्याद्वार्धुषके प्रयोक्ता तूत्तमर्णके ।द्रष्टरि व्यवहाराणां प्राड्विवाकोऽक्षदर्शकः ॥ ३४३ ॥
16.343 · p. 97
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वा (wrong syllable)
पलगण्डो लेपकारी लम्बनस्तूक्षपालकः ।कायस्थः स्याल्लिपिकरः करणोऽक्षरजीवकः ॥ ३४४ ॥
16.344 · p. 97
अनुष्टुप्
लेखकोऽक्षरचञ्चुश्च चण्डिलः क्षुरमर्दकः ।कुम्भकारः कुलालः स्याच्चक्री भार्गव इत्यपि ॥ ३४५ ॥
16.345 · p. 97
अनुष्टुप्
धूसरश्चाक्रिकश्च स्यादाभीरः शूद्रकोऽपि च ।महाशूद्रस्तु गोपालो बल्लवो गोविदुर्विदुः ॥ ३४६ ॥
16.346 · p. 97
अनुष्टुप्
मालाकारो माल्यजीवी मालिकः प्रतिहारिकः ।ग्रामाधीनो ग्रामतक्षः कोटतक्षो नदीतकः ॥ ३४७ ॥
16.347 · p. 97
अनुष्टुप्
जीवान्तको मांसकश्च क्रोटिको मांसविक्रयी ।कैवर्तो धीवरो दाशनरेन्द्रो भुजगादने ॥ ३४८ ॥
16.348 · p. 97
अनुष्टुप्
भोगिनी वनिता कान्ता महिला युवतीति च ।कृताभिषेका महिषी महादेव्यभिधा परा ॥ ३५० ॥
16.350 · p. 98
अनुष्टुप्
देवी राजकुलोत्था चेत्परिवारप्रपूजिता ।वावाता तु प्रियतमा स्वाधीना तु नृपात्मजा ॥ ३५१ ॥
16.351 · p. 98
अनुष्टुप्
पालागली यधजिता नृपस्योढाः प्रजा इमाः ।अनूढा तु प्रिया राज्ञः कालज्ञा गणिका स्मृता ॥ ३५२ ॥
16.352 · p. 98
अनुष्टुप्
गणिका सा प्रगणिका या सप्तपरिवारिका ।आर्या स्याद्राजगणिका या राजाज्ञापरिच्छदा ॥ ३५३ ॥
16.353 · p. 98
अनुष्टुप्
अधालगणिकाऽप्यज्ञा गणिका कुलसंभवा ।राजभोगाय वेश्यात्वं गाता वैषधिकीति सा ॥ ३५४ ॥
16.354 · p. 98
अनुष्टुप्
बन्धकी तु गता वेशामवस्था यास्तु सत्कृतिः ।शय्यास्रग्भूषणादौ तु नियुक्ता परिचारिका ॥ ३५५ ॥
16.355 · p. 98
अनुष्टुप्
प्रतिहारी तु राजानं सम्भावयति या सदा ।अलिन्यन्तःपुरप्रेष्या साप्तभोगकुमारिका ॥ ३५६ ॥
16.356 · p. 98
अनुष्टुप्