अन्तर्धि
antardhiपुं · masc.In 9 kośas: 6 synonym verses, 17 as a meaning of another word.
अवकीर्णे त्ववध्वस्तं संवीतं रुद्धमावृतम् ।संवृतं पिहितं छन्नं स्थगितं चापवारितम् ॥ १४७६ ॥अन्तर्हितं तिरोहितमन्तर्धिस्त्वपवारणम् ।छदनं व्यवधान्तर्धापिधानस्थगनानि च ॥ १४७७ ॥व्यवधानं तिरोधानं दर्शितं तु प्रकाशितम् ।आविष्कृतं प्रकटितमुच्चण्डं त्ववलम्बितम् ॥ १४७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 हि (wrong syllable)
genderपुंmasc.
अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम् ॥ १२ ॥अपिधानतिरोधानपिधानाच्छादनानि च ।
अनुष्टुप्
genderपुंmasc.
अत्यर्थमतिमर्यादमतिवेलं च कथ्यते ।व्यवधानं तिरोधानमन्तर्धिरपवारणम् ॥ ७१९ ॥
अनुष्टुप्
genderपुंmasc.
अन्तर्धिर्व्यवधिः पुंसि त्वन्तर्धा व्यवधा स्त्रियाम् ।अपिधानं तिरोधानं च्छादनं चापवारणम् ॥
अनुष्टुप्
genderपुंmasc.
गर्जितं मेघनिर्घोषो रसितस्तनितादि च ।अह्नि घनस्थगिते स्याद्दुर्दिनमन्तर्धिनिह्नवौ व्यवधा ॥ २२० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
परितोऽथावतमसं लघ्वन्धतमसं महत् ।छदो व्यवधिरन्तर्धिर्वरणं चापवारणम् ॥ ६३ ॥
अनुष्टुप्
genderपुंmasc.
अन्तर्धि as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् अन्तरअन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये ॥ १८७ ॥ छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च । Amarakośa 3.3.352
- नामलिङ्गानुशासनम् तिरस्तिरोऽन्तर्धौ तिर्यगर्थे हा विषादशुगर्तिषु ॥ २५७ ॥ Amarakośa 3.3.257
- धरणिकोश अन्तरअन्तरं स्थानतादर्थ्यछिद्रान्तर्धिविनात्मसु । भेदावसरबाह्येषु मध्यात्मीयावधिष्वपि ॥ Dharaṇikośa 26.3.36
- धरणिकोश तिरस्तिरोऽन्तर्धौ तिर्यगर्थे मिथोऽन्योन्यं मिथो [रहः] । पुरोऽग्रेऽपि प्रथमे स्यादञ्जसा तत्त्वशीघ्रयोः ॥ Dharaṇikośa 34.20.2
- कोषकल्पतरु अन्तर्दधातिअपेर्दधातिः संवृत्यामदादेकाग्र्यसीनयोः । परेर्निवसने वेष्टेऽन्तरन्तर्धौ न्यवादपि ॥ ६७ ॥ Koṣakalpataru 3.5.67
- कोषकल्पतरु दधातिवेः कृतावुपनेर्न्यासे प्रतिवेस्तु विलोकने । लोभयाचायन्नेवेशसमाद्धान्तर्द्धि विन्यसे ॥ ६८ ॥ Koṣakalpataru 3.5.68
- कोषकल्पतरु व्यवावतिव्यवाद्व्यतिकरे य[197b]ब्घावन्तर्घौ दुर्गतौ निरः । समः संगति-सादृश्य-संविदाचरणे रणे ॥ समाभियानशपथे संपराभ्यां रणापदोः । अपादपगमेऽथोपादङ्गीकारोपहारयोः ॥ ३० ॥ Koṣakalpataru 3.5.30
- कोषकल्पतरु अवरुध्अनो रुधिर्भवेद्युक्तावुपाद्दाक्षिण्यरोधयोः । प्रतेश्चौर्येऽवतोऽन्तर्धौ निर्नाशे वेर्विरोधने ॥ Koṣakalpataru 3.5.435
- कोषकल्पतरु व्यवायपर्यायोऽवसरे क्रमेऽर्थविवृतौ निर्माणवाची तथा संस्त्यायस्तु समूहविस्तृतिगृहे स्यात्संनिवेशे स्थितौ । अन्तर्द्धौ सुरते व्यवाय उदितस्तेजोर्थकस्त्वव्ययं । शालेयं शतपुष्पिकौषधभिदि क्षेत्रे च शाल्यर्हके ॥ ६५ ॥ Koṣakalpataru 6.26.65
- नानार्थार्णवसंक्षेप अन्तरविशेषविवरान्तर्धिष्ववसानविनार्थयोः । अवधौ च त्रिषु पुनस्तुल्येऽल्पपरिधानयोः ॥ ११ ॥ Nānārthārṇavasaṃkṣepa 4.11
- नानार्थार्णवसंक्षेप तिरस्कारतनूनपात् तु यास्कोक्त आज्ये चाग्नौ च निश्चितः । तिरस्कारः परिभवेऽप्यन्तर्थे?चारतः ॥ ५९ ॥ Nānārthārṇavasaṃkṣepa 6.59
- नानार्थार्णवसंक्षेप ?अन्तर्धौ चाथ विज्ञेयस्त्रिकण्टक इति ध्वनिः । गोक्षुरे च विपत्रायां स्नुह्यां चाथ निबोधत ॥ ६० ॥ Nānārthārṇavasaṃkṣepa 6.60
- नानार्थार्णवसंक्षेप अपवारणअपेतो वारणो यस्मात् तस्मिंस्त्रिष्वपवारणः । न नापवारणान्तर्धौ स्त्रीलिङ्गे त्वभिसारिका ॥ १४ ॥ Nānārthārṇavasaṃkṣepa 7.14
- शब्दरत्नाकर तिरस्तिरोऽन्तर्धौ तिर्यगर्थे दिष्टं स्यान्मङ्गलादिषु । तर्कनिश्चययोर्नूनं नानानेकोभयार्थयोः ॥ २२६९ ॥ Śabdaratnākara 5.2.2269
- वैजयन्ती व्यवायव्यवायो मैथुनेऽन्तर्धौ चित्रे दर्पे च विस्मयः । वाहसौ वह्न्यजगरौ द्रुप्रवालौ तु विद्रुमौ ॥ ६५ ॥ Vaijayantī 7.1.65
- वैजयन्ती अन्तरक्ली तु मध्येऽवकाशे च तादर्थ्येऽवसरेऽवधौ । विशेषविवरान्तर्धिष्ववसानविनार्थयोः ॥ २ ॥ Vaijayantī 7.5.2
- वैजयन्ती तिरस्तथा समुच्चये साम्ये परमार्थाभ्यनुज्ञयोः । तिरोऽन्तर्धौ तिरश्चीने दिष्ट्या स्यान्मङ्गलादिषु ॥ २१ ॥ Vaijayantī 8.7.21