कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

आर्यावर्त

āryāvartaपुं · masc.

In 8 kośas: 8 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.948 · p. 37
आर्यावर्तो जन्मभूमिर्जिनचक्र्यर्धचक्रिणाम् ।पुण्यभूराचारवेदी मध्यं विन्ध्यहिमागयोः ॥ ९४८ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह भूमिवर्गः Amarakośa 2.1.9
आर्यावर्तः पुण्यभूमिर्मध्यं विन्ध्यहिमालयोः ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव देशप्रकाण्डः Kalpadrukośa 1.2.9 · p. 5
पूर्वपाश्चात्ययोरब्ध्योर्नदी यावच्छरावती ।आर्यपर्यायतः स्थानमावर्त्तमपि वाच्यवत् ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ भूकाण्डः Koṣakalpataru 2.18 · p. 114
षष्ट्यादियोजनोन्मानो देशो देशान्तरं भवेत् ।आर्यावर्तः पुण्यभूमिर्जन्मभूमिश्च सा भवेत् ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण भूम्यधिकारस्तृतीयस्सर्गः Śabdacandrikā 3.2 · p. 38
वर्तुलं चक्रवालं च चक्रछत्रं च मण्डलम् ।आर्यावर्त इलावर्तः पुण्यभूमिरितीर्यते ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 3.1.13 · p. 46
आर्यावर्तपुण्यभूमी हिमवद्विन्ध्यमध्यमे ।नीवृत् स्त्री मण्डलं राज्यं भवेत् जनपदेऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्त (wrong syllable)
genderपुंmasc.
उत्पलिनी Utpalinī · व्याडि Utpalinī 23 · p. 48
आ समुद्राच्च वै पूर्वादासमुद्राच्च पश्चिमात् ।हिमवद्विन्ध्ययोर्मध्यमार्यावर्तं विदुर्बुधाः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश देशाध्यायः Vaijayantī 3.1.23 · p. 36
आर्यावर्तो ब्रह्मवेदिर्मध्यं विन्ध्यहिमागयोः ।अथोदीच्या जनपदास्तत्र चीनाः खरंभराः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.