कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdacandrikā

शब्दचन्द्रिका Śabdacandrikā

125 verses · 947 words tagged · 244 marked doubtful (dashed)

भूम्यधिकारस्तृतीयस्सर्गः

इति बाणकविविरचितायां शब्दचन्द्रिकायामन्तरिक्षाधिकारो द्वितीयस्सर्गः ॥

तृतीयः सर्गः

वर्तुलं चक्रवालं च चक्रछत्रं च मण्डलम् ।आर्यावर्त इलावर्तः पुण्यभूमिरितीर्यते ॥ २ ॥
3.2 · p. 38
अनुष्टुप्
माध्यमो मध्यदेशश्च स्यादासेतुहिमाचलम् ।भारतं स्याद्धैमवतमाभूभृद्राजलावणम् ॥ ३ ॥
3.3 · p. 38
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्धै (wrong syllable)
वर्षाणि भारतादीनि नवोक्तानि मनीषिभिः ।विन्ध्याद्रेर्दक्षिणो देशो दक्षिणापथसञ्ज्ञितः ॥ ४ ॥
3.4 · p. 38
अनुष्टुप्
अद्रिः कुल्कीलकः शंभुर्गिरिराभूतलोचनः ।दुर्गमः सानुमान् शैलो विपक्षो धरणीधरः ॥ ५ ॥
3.5 · p. 38
अनुष्टुप्
पाषाणः प्रस्तरः कल्यः शिला ग्रावा कुडुङ्गकः ।मणिर्मृज्जोटङ्कभीरुरग्निगर्भ इतीरितः ॥ ६ ॥
3.6 · p. 38
अनुष्टुप्
सूर्योपलचन्द्रशिला स्फटिकोऽर्को निगद्यते ।अयोमणिस्त्वयस्कान्ते कान्तं तीक्ष्णमितीरितम् ॥ ७ ॥
3.7 · p. 38
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ल (wrong syllable)
वृत्तं श्वेतं शुक्लशिला सुवर्णं हरितालके ।गन्धके गन्धिलं त्वाशारसग्राहि हिरण्यजम् ॥ ८ ॥
3.8 · p. 38
अनुष्टुप्
रसस्तु पारदो राजा महाजीवो महादनः ।तद्भेदे दरदो हिंगी शिखाग्नी रसजिह्विका ॥ ९ ॥
3.9 · p. 38
अनुष्टुप्
स्वर्णं दाक्षायणं भर्म रुक्मं कार्तस्वरं घनम् ।कल्याणं रत्नगर्भं च द्राविणं राजभूषणम् ॥ १० ॥
3.10 · p. 38
अनुष्टुप्
एकवर्णे तु शकलं द्विवर्णे त्वटकं मतम् ।वसु त्रिवर्णे कथितं चतुर्वर्णे पणं स्मृतम् ॥ ११ ॥
3.11 · p. 39
अनुष्टुप्
पञ्चवर्णे सुवर्णं स्यात् षड्वर्णे टङ्कमित्यपि ।दाक्षायणं सप्तवर्णेऽप्यष्टवर्णे तु भार्गवम् ॥ १२ ॥
3.12 · p. 39
अनुष्टुप्
नववर्णे तु कल्याणं तङ्गं षोडशवर्णके ।शतवर्णे तु मेरुः स्यात्सुमेरुः स्यात्सहस्रके ॥ १३ ॥
3.13 · p. 39
अनुष्टुप्
अयुते सूर्यकं चैव सूर्यं निम्बसमुद्भवम् ।रजतं चन्द्रकं चान्द्रं कैलासनगसंभवम् ॥ १४ ॥
3.14 · p. 39
अनुष्टुप्
दुर्वर्णं तारकं तारं वैरिकं पादभूषणम् ।शुक्तिस्मृतं वज्रगर्भं चन्द्रभीरु निगद्यते ॥ १५ ॥
3.15 · p. 39
अनुष्टुप्
रसबीजं सुवर्णाद्यं वेदार्हं रससम्भवम् ।ताम्रं काश्मीरकं द्रोणं प्लवङ्गास्यं तु मर्कटम् ॥ १६ ॥
3.16 · p. 39
अनुष्टुप्
कांस्यं घण्टास्वनं ज्ञेयं रीतिः स्यात्पीतलोहकम् ।रङ्गं सीसं च योगेष्टं त्रपु स्यान्मुग्धभूषणम् ॥ १७ ॥
3.17 · p. 39
अनुष्टुप्
रत्नं मणौ चाकचक्यं चञ्चत्कः परिकीर्तितः ।मौक्तिकं शौक्तिकेयं स्याच्छुक्तिसम्भवमौक्तिके ॥ १८ ॥
3.18 · p. 39
अनुष्टुप्
मेघोदरसमुद्भूते सौदामन्यभिधीयते ।शक्ति विना नदीनाथे यद्भवेन्मौक्तिकं स्मृतम् ॥ १९ ॥
3.19 · p. 39
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 वि (wrong syllable)
तत्तु चिन्तामणिर्वेणौ सम्भवे वैणवं स्मृतम् ।गजकुम्भतलोद्भूते त्वणिराणिरितीर्यते ॥ २० ॥
3.20 · p. 39
अनुष्टुप्
दन्तिदन्तोद्भवे दन्त्यमैक्षवं चेक्षुसम्भवम् ।पद्मरागे रविमणिः शृङ्गारी हारनायकः ॥ २१ ॥
3.21 · p. 39
अनुष्टुप्
सलोहितो जातरङ्गः कुरुविन्दोऽतिलोहितः ।सौगन्धिको मरालः स्यान्नीलगन्धी तु घूमलः ॥ २२ ॥
3.22 · p. 39
अनुष्टुप्
पक्कदाडिमबीजाभं माणिक्यं कूटमित्यपि ।तत्तु पल्लवरागः स्यात्पल्लवेन समप्रभम् ॥ २३ ॥
3.23 · p. 40
अनुष्टुप्
महेन्द्रनीलरत्नं तु पारावत इतीर्यते ।पक्षिकं पेशलं गाढं गारुत्मतमितीर्यते ॥ २४ ॥
3.24 · p. 40
अनुष्टुप्