कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

चीन

cīnaपुं · masc.

In 12 kośas: 22 synonym verses, 7 as a nānārtha head word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.9
कदली कन्दली चीनश्चमूरुप्रियकावपि ।समूरुश्चेति हरिणा अमी अजिनयोनयः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.338 · p. 126
कन्दल्यपि स्यात्कदली ककुत्स्त्री ककुदोऽस्त्रियाम् ।विहिते पत्रवस्त्रादौ मीने चीनोऽस्त्रियामयम् ॥ ३३८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.23 · p. 135
प्रायः स्युर्व्रीहयो व्रीहिर्महान्कृष्णो जतूद्भवः ।सारामुखस्त्वरितको लावाक्षश्चीनशूकरौ ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.44 · p. 322
रुरुचीनैणहरिणपृषताः शंवरः पुनः ।सृमरश्च चमूरुश्चेत्येते स्युरजिनाकराः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ भूकाण्डः Koṣakalpataru 2.45 · p. 116
काम्बोजा दरदाश्चोलाः शकाश्चीनाश्च पुण्ड्रकाः ।कर्णाटा द्रविडा लाटाः कुरु-कोशल-काशयः ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.37 · p. 192
चमूरुः स्याच्चित्रमृगो रुरुर्मेघान्तशृङ्गमुक् ।कदली कन्दली चीनश्चमूरु-प्रियकावपि ।समूरुश्चेति हरिणा अमी अजिनयोनयः ।रिष्यर्श्य-रङ्कु * * * * * * * * * * *अष्टमश्चाष्टमश्च स्यात्पश्वङ्गावयवेऽन्यवत् ।* * * * * * * * रोहिताद्या मृगाः परे ॥ ३७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.15 · p. 10
वस्तुसंभारनिलयाश्चीनसिंहलनामकाः ।जाम्बूनदे तु कुलुकुगाल्वजाल्वातिमोहनम् ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.198 · p. 76
कुरङ्गमृगसारङ्गा वातायुहरिणावपि ।तद्भेदा रङ्कुगोकर्णन्यङ्कुचीनादयो मताः ॥ १९८ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.42 · p. 30
वानायुर्विततः कोरो भीतदृष्टिश्चलात्मकः ।श्वेतकण्ठे तु चीनः स्याच्चिनो नीलकलेवरे ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1798 · p. 294
वप्रं पट्टं तथा चीनं चीनपट्टं महाबलम् ।गण्डूपदभवं चेति नामानि कथन्ति वै ॥ १७९८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2338 · p. 378
मृगभेदा न्यङ्कुरङ्कुरुरुरोहिषरौहिषाः ।चमूरुचमरचीनाः समूरैणर्श्यरोहिताः ॥ २३३८ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 र (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.21 · p. 83
त्रिषु स्यात् कन्दलं चीनः समूरुः प्रियकोऽपि च ।चमूरुः कदली स्त्री तु षट्स्यादजिनयोनयः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.376 · p. 50
काश्मीरावन्तिमद्रद्रमिडमगधसौवीरकर्णाटलाटाःपाञ्चालाङ्गत्रिगर्ताः कुरुमलदकलिङ्गोत्कलाः कामरूपाः ।लम्पाकाश्चीनगौडा मरुकुकुरमहाराष्ट्रसौराष्ट्रसाल्वाःवङ्गा भङ्गालसुह्माः शकमलभ(य?)विदेहान्ध्रनेपालपुण्ड्राः ॥ ३७६ ॥
स्रग्धरा
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.381 · p. 51
मगधाः कीकटाः सुह्मा राढाश्चीनाः करम्भकाः ।कलिङ्गास्तैतिलाः शूरसेनाः स्युः शूरसेनयः ॥ ३८१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.690 · p. 88
चतुरा तु घनस्निग्धरोमा श्यामा सचन्द्रका ।वातप्रमीर्वातमृगश्चीनस्तु त्रिंशदङ्गुलः ॥ ६९० ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.58 · p. 70
कदली कन्दली चीनमक्षंवाटस्तु मल्लभूः ।भीरुस्तु भेलो हरिणहृदयः स्यात्पलङ्कटः ॥ ५८ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश देशाध्यायः Vaijayantī 3.1.23 · p. 36
आर्यावर्तो ब्रह्मवेदिर्मध्यं विन्ध्यहिमागयोः ।अथोदीच्या जनपदास्तत्र चीनाः खरंभराः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शैलाध्यायः Vaijayantī 3.2.33 · p. 43
अयः कृष्णायसं चीनं शस्त्राख्व्यं विषमायुधम् ।धीवरं धीमकं लोहं लौहकालदृढानि च ॥ ३३ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.50 · p. 49
विचुलः पिचुलो राढः कैडर्यो विषपुष्पकः ।काकर्दश्छर्दनश्चीनो गरलः कण्टकीति च ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.21 · p. 66
गोधूमाभाथवा कृष्णा स्निग्धोच्चमृदुरोमिका ।चीनस्तु चीनसी स्त्रीत्वे कपोता त्रिंशदंगुला ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.37 · p. 126
सुराष्ट्रचीनचक्षुष्या हरिमन्थार्धरूपकौ ।कृष्णे प्रवरवासन्तौ हरिमन्थजशिंबिकौ ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.59 · p. 127
स्त्री काककंगुश्चीनः स्यात्तृणकोलोऽप्युदारकः ।गर्मुत्पुनर्गर्मुटिका घुलुंछस्तु गवीधुका ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.90 · p. 245
शीनस्तु मूर्खेऽजगरेऽन्यवत्तुस्त्यानेऽथ चीनो मृगवस्त्रभेदे ।व्रीहिप्रभेदेऽपि च तन्तुभेदेवेनो विरिञ्चावपि राजभेदे ॥ ९० ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.424 · p. 79
चीनो ना पीतमुद्गे स्याद् काककङ्गद्रुमान्तरे ।मदनाख्ये तथोदीच्यनीवृद्भेदे तु भूम्नि च ॥ ४२४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.425 · p. 79
तद्देशराजेषु पुनर्मृगयोश्चापि पुंस्त्रियोः ।व्यवस्थयाथ मृगयोर्लक्षणं चैवमभ्यधुः ॥ ४२५ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.427 · p. 79
अन्यः कपोतवर्णो यस्त्रिंशदङ्गुलमानकः ।इत्यङ्कितोऽथ मदनफले क्लीबमयस्यपि ॥ ४२७ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.5 · p. 234
त्रिषु सान्द्रे दृढे पूर्णे निबिडे सम्पुटेऽपि च ।चीनो व्रीहिमृगभिदोस्तन्तौ देशेंऽशुके पुमान् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 हि (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1917 · p. 233
चक्री दर्वीकरे विष्णौ कुलाके छद्मवत्यपि ।प्रचारे प्रणिधौ चारश्चीनो देशे मृगान्तरे ॥ १९१७ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.238 · p. 173
चीनौ वस्त्रत्रीहिभेदौ चिह्नं लक्ष्मपताकयोः ।चक्रिणौ विष्णु भुजगकुलालग्रामजालिनः ॥ २३८ ॥
अनुष्टुप्