जनपद
janapadaपुं · masc.In 18 kośas: 20 synonym verses, 7 as a nānārtha head word, 15 as a meaning of another word.
वर्षं वर्षधराद्र्यङ्कं विषयस्तूपवर्तनम् ।देशो जनपदो नीवृद्राष्ट्रं निर्गश्च मण्डलम् ॥ ९४७ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
नीवृज्जनपदो देश उपवर्तनमिष्यते ।जनो लोकः प्रजा प्रोक्ता विषयो ग्रामसंख्यया ॥ २८४ ॥
अनुष्टुप्
genderपुंmasc.
नीवृज्जनपदो जानपदश्च विषयः पुमान् ।देशः प्रदेशोस्त्री राष्ट्रं स्थितिश्चावकाशकः ॥ १ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 दे (syllables merged)
genderपुंmasc.
मनूंषि मनुषा जानपदा जनपदाः प्रजाः ।स्त्री भूम्न्येऽधतवश्चैषां विशेषाः पुरुषा नराः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
नाडीव्रणोत्पातपोतव्रातानां पृषतस्य च ।कुन्तालक्तकपिष्ठातार्षानां जनपदस्य च ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
पुमाञ्जनपदश्चाथ वृत्तिर्जानपदी भवेत् ।जाता जनपदे याथ नदीं यावच्छरावतीम् ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
जनपद-कुन्द-कपर्दाबुद्बुदयुक्ता अगाध-गन्धौ च ।स्कन्धो मन्थाः पन्थादेवन उक्तश्च तत्तु[222b]ल्यः ॥ १७ ॥
metre not recognised
genderपुंmasc.
केयूरादीनि नपुंसके जानीहि । इदं केयूरं बाहुभूषणम् । इदं तरलमलङ्कारः । तूर्यं वादित्रम् । अङ्गदं बाहुभूषणम् । गवाक्षशब्दं पुंसि विद्याज्जानीयात् । यथा अयं गवाक्षो वातायनः । एते शब्दाः स्त्रियां भवन्ति । इयं श्यामा स्त्री । भुशुण्डी आयुधम् । भाण्डी भिण्डिपालः ।भवतोऽपजनोपपदावङ्गपदौ पुंसि नित्यमिननिच्च ।रक्षणकोष्ठभ्रेषाश्च सह निपातोपसर्गाभ्याम् ॥ ८६ ॥
metre not recognised
genderपुंmasc.doubtful
राष्ट्रं जनपदो निर्गो जनान्तो विषयः स्मृतः ।पूः पुरी नगरं चैव पट्टनं पुटभेदनम् ॥ ९७ ॥
अनुष्टुप्
genderपुंmasc.
क्षेत्रं वर्षधराद्यङ्कं वर्षं देशोऽथ मण्डलम् ।राष्ट्रं जनपदो निर्गो विषयो नीवृदीरितः ॥ २३६ ॥
अनुष्टुप्
genderपुंmasc.
पुष्यो जनपदो रेफशोफौ सूपनितम्बकौ ।स्तम्बो निकाय्यः कण्डोलजगलौ गोलतण्डुलौ ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
मृन्मृत्तिका प्रशस्ता मृन्मृत्सा मृत्स्ना महीपलम् ।नीवृज्जनपदो देशविषयावुपवर्त्तनम् ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
वैतालिका बोधकरा बन्दिनः स्तुतिपाठकाः ।देशो जनपदो राष्ट्रं नीवृद्विषयमण्डले ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
वर्षं वर्षधराद्यङ्कं क्षेत्रसंज्ञा निगद्यते ।देशो जनपदो राष्ट्रं नीवृत् निर्गश्च मण्डलम् ॥ १६०९ ॥
अनुष्टुप्
genderपुंmasc.
आर्यावर्तपुण्यभूमी हिमवद्विन्ध्यमध्यमे ।नीवृत् स्त्री मण्डलं राज्यं भवेत् जनपदेऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्त (wrong syllable)
genderपुंmasc.
जनो जनपदो जानपदश्चैते समार्थकाः ।स्त्री वधूरवला नारी प्रिया रामा जनिर्जनी ॥
अनुष्टुप्
genderपुंmasc.
ग्रामे भवे तु ग्रामीण-ग्रामीणौ ग्राम्य इत्यपि ।ग्रामेयकश्च लोके तु जनो जनपदस्तथा ॥ १११ ॥
अनुष्टुप्
genderपुंmasc.
जम्बूप्लक्षकुशक्रौञ्चशाकशाल्मलिपुष्कराः ।द्वीपवृक्षा इमे सप्त द्वीपास्तन्नामपूर्वकाः ।नीवृज्जनपदौ देशविषयौ राष्ट्रमण्डले ॥ ३७५ ॥
अनुष्टुप्
genderपुंmasc.
नीवृज्जनपदो देशस्तद्भेदाः पुंसि भूम्नि च ।स्त्रियो वरेन्द्रीस्रावस्तीराढाद्या नैव भूमनि ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
क्लीबे विष्णुपदं सरोजवियतोः क्षीराम्बुधौ त्वादिमेस्त्रीसंक्रान्तिकुशस्थलीसुरधुनीसंज्ञासु संकीर्तितम् ।स्याद्देशे च जने पुमाञ्जनपदोऽथो पुंस्त्वव( ? )खेचरेरम्योक्तौ परवत्प्रियंवद इति प्रोक्तोऽववादः पुनः ॥ ४२ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 1, syllable 16 व (wrong syllable)
जनपद as a meaning in nānārtha verses
- धरणिकोश वङ्गतुङ्गो महति पुन्नागे तुङ्गी रात्रिश्च वर्वरा । वङ्गो जनपदे ख्यातो वङ्गं कर्पासरङ्गयोः ॥ Dharaṇikośa 3.2.1
- धरणिकोश लाटव्युष्टं फले प्रभाते स्यात्क्रुष्टं रोदनरावयोः । लाटो जनपदे वस्त्रे फटा च फणदन्तयोः ॥ Dharaṇikośa 10.1.4
- धरणिकोश द्राविडनिर्गुण्डी सिन्धुवारे स्यात्स्वर्णसेफालिकापि च । द्राविडाः स्यु[25]र्जनपदा द्राविडो वेधमुख्यकः । चक्रवाडोऽद्रिभेदे स्याच्चक्रवाडं तु मण्डलम् ॥ Dharaṇikośa 12.1.10
- धरणिकोश त्रिगर्तउदात्तः स्वरभेदे स्यात्काव्यालंकारकृत्ययोः । त्रिगर्तः स्याज्जनपदे त्रिगर्ता घुर्घुरी स्मृता ॥ Dharaṇikośa 15.2.55
- धरणिकोश विषयविषयो यस्य यो ज्ञातः स तस्य कविभिः स्मृतः । इन्द्रियार्थे जनपदे विषयो गोचरेऽपि च ॥ Dharaṇikośa 25.3.19
- धरणिकोश कीरपौराः पुरभवा लोकाः पौरं कत्तृणमुच्यते । कीरा जनपदाः केऽपि कीराः शुकाख्यपक्षिणः ॥ Dharaṇikośa 26.2.11
- धरणिकोश ओड्रओड्रा जनपदाः केचिदोड्रं च कुसुमान्तरम् । कद्रुर्माता तु नागानां कद्रुः कनकपिङ्गले ॥ Dharaṇikośa 26.2.15
- धरणिकोश अवहारअकूपारः समुद्रः स्यादकूपारश्च कूर्मराट् । अवहारो जनपदो वाटेऽवहरणेऽपि च ॥ Dharaṇikośa 26.2.77
- धरणिकोश पुण्ड्रपुण्ड्रश्चित्रप्रभेदः स्यात्पुण्ड्राञ्जनपदान्विदुः । पुण्ड्र इक्षुप्रभेदे च पुण्ड्रोऽतिमुक्तपादपः ॥ Dharaṇikośa 26.3.14
- धरणिकोश कुलकुलं सजातीयगणे गोत्रे जनपदे गृहे । पुलं विपुलमाख्यातं पुलः पुलक इष्यते ॥ Dharaṇikośa 27.2.2
- नानार्थार्णवसंक्षेप विषयदेशे रूपरसादौ च तथा स्यान्नित्यसेविते । पृथक् तु रभसः प्राह देशाज्जनपदेऽप्यमुम् ॥ १९८ ॥ Nānārthārṇavasaṃkṣepa 3.2.198
- नानार्थार्णवसंक्षेप मालवद्वे तु बाले कुपुरुषेऽप्यथ पुम्भूम्नि मालवाः । अवन्त्याख्ये जनपदे तन्निवासजने द्वयोः ॥ १४१७ ॥ Nānārthārṇavasaṃkṣepa 4.1417
- नानार्थार्णवसंक्षेप अहिच्छत्रप्रत्यग्रधा इति ख्याते ख्यातो जनपदान्तरे । अनिरुद्धः पुमान् पत्यावुषायाम्नि त्ववारिते ॥ २८ ॥ Nānārthārṇavasaṃkṣepa 6.28
- शब्दरत्नावली विषयपानीयं सलिले क्लीबं पातव्ये पुनरन्यवत् । पौलस्त्यो ना धनाधीशे दशकण्ठे विभीषणे ॥ वलयं कङ्कणे क्लीबं कण्ठरोगे पुमानयम् । वालेयं स्याद्वलिहिते मृदौ त्रिषु खरे पुमान् ॥ ब्राह्मण्यं ब्रह्मवृन्दे स्यात्ब्राह्मणत्वेऽपि न द्वयोः । भरण्युर्ना चण्डभानौ मृगाङ्के च विभावसौ ॥ भुजिष्यः पुंसि दासे स्यात्स्वन्त्रहस्तसूतत्रके । स्त्रियां दासीगणिकयोः स्वतन्त्रायामपि क्वचित् ॥ मलयो ना चलारामदेशेषु स्त्री तथौषधे । मङ्गल्यो ना त्रायमानामसूराश्वत्थबिल्वके ॥ स्त्रियात्तु रोचनाशुक्लवचाशमीमिमीषु च । अधःपुष्प्यां स्त्रियां दध्नि क्लीबं शिवकरे त्रिषु ॥ मृगयुर्ना शृगाले स्याद् व्याधे पितामहेऽपि च । रहस्या स्त्री सरिद्भदे गोपनीयेऽभिधेयवत् ॥ विजया पार्वतीसख्यां तिथिभेदेऽपि च स्त्रियाम् । विजयस्तु जये पुंसि तथा गाण्डीवधन्वनि ॥ विस्मयः पुंसि दर्ये स्यात्स्यन्देहाश्चर्ययोरपि । विषयो यस्य यो ज्ञातस्तत्रदेशे च गोचरे ॥ रूपादौ स्याज्जनपदे कान्तादौ च भवेत्पुमान् ॥ Śabdaratnāvalī 7.26.46
- शब्दरत्नावली कुलकीला कफोणिघाते स्यात् कीलं रुग्मुष्टिघातयोः । कुलं गोत्रे जनपदे सजातीयगणे गृहे ॥ Śabdaratnāvalī 7.28.8