कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Utpalinī

उत्पलिनी Utpalinī

112 verses · 445 words tagged · 60 marked doubtful (dashed)

Part 1

I. Rāyamukuṭa on AK I.1.11, Bhānujīdīkṣita on AK I.1.11

निधिं रक्षन्ति ये यक्षास्ते स्युर्गुह्यसञ्ज्ञकाः ॥ १ ॥
1 · p. 46

इति व्याडिः ।

II. Rāyamukuṭa on AK I.1.12, Bhānujīdīkṣita on AK I.1.13, V. D. Sharma on AK I.1.13

अथ बुद्धो जिनो योगी सर्वज्ञः सुगतो बुधः ॥ २ ॥
2 · p. 46

इति व्याडिः ।

III. Hemacandra on Abhidhānacintāmaṇi II.146

यद्व्याडिः -

बोधिः स्वबोधनं ज्ञानं तन्मयो बोधिसत्त्वकः ॥ ३ ॥
3 · p. 46

IV. Hemacandra on Abhidhānacintāmaṇi II.147

यद्व्याडिः -

भूमयस्तु प्रमुदिता विमला च प्रभाकरी ।अर्चिष्मती सुदुर्जयाभिमुखी च दुरङ्गमा ॥
4 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र्ज (wrong syllable)
अचला साधुमती च धर्ममेघेति च क्रमात् ॥ ४ ॥
4 · p. 46

V. Hemacandra on Abhidhānacintāmaṇi II.147

यद्व्याडिः -

जातकानि पुनर्व्याघ्री शितिः श्रेष्ठी शशो विशम् ।हंसो विश्वन्तरः शक्रो मैत्रीबलसुपारगौ ॥
6 · p. 46
अनुष्टुप्
अपुत्रो ब्राह्मणः कुम्भः कल्माषः पिण्डिजातकम् ।अधिमुख्यं श्रेष्ठिजातं दमयन्ती महाकपिः ।बोधिर्ब्रह्मा महाबोधिर्वानरः शरभो रुरुः ॥
7 · p. 46
अनुष्टुप्
क्षान्तिवादी हस्ती च कुन्थुश्चेत्येवमादयः ॥ ५ ॥
5 · p. 46

VI. Hemacandra on Abhidhānacintāmaṇi II.147

यद्व्याडिः -

प्रज्ञापारमिता तारा वृन्दा च जिनशक्तयः ।मारीची चतुदुर्वासा मारीचा वज्रकाल्यपि ॥ ६ ॥
6 · p. 46
अनुष्टुप्

VII. Hemacandra on Abhidhānacintāmaṇi II.114

यद्व्याडिः -

खट्वाङ्गं शिवपांशुलम् ॥ ७ ॥
7 · p. 46

VIII. Hemacandra on Abhidhānacintāmaṇi II.115

यद्व्याडिः -

गणास्तु प्रमथाः पारिषदाः कूष्माण्डकादयः ॥ ७ ॥
7 · p. 46

IX. Hemacandra on Abhidhānacintāmaṇi II.124

यद्व्याडिः -

महाकालः पुनर्बाणो लूनबाहुर्वृषाणकः ॥ ८ ॥
8 · p. 46
वीरभद्रस्तु धीराजो हेरुकस्तु कृतालकः ॥
13 · p. 47
अथ चण्डो महाचण्डः कुशाण्डी कङ्कणप्रियः ।मज्जनोन्मज्जनौ छागच्छागमेषौ महाघसः ॥
14 · p. 47
अनुष्टुप्
महाकपाल आलानः सन्तापनविलापनौ ।महाकपोल ऐलोजः शङ्खकर्णः खरस्तपः ॥
15 · p. 47
अनुष्टुप्
उल्कामाली महाजम्भः श्वेतपादः खराण्डकः ।गोपालो ग्रामणी(र्) मालुर्घण्टाकर्णकरन्धमौ ॥
16 · p. 47
अनुष्टुप्
कपाली जृम्भको लिम्पः स्थूलोऽकर्णविकर्णकौ ।लम्बकर्णो महाशीर्षो हस्तिकर्णः प्रमर्दनः ॥
17 · p. 47
अनुष्टुप्
ज्वालाजिह्वो धमधमः संहातः क्षेमकः पुलः ।भीषको ग्राहकः सिस्नो धिरुण्डो मकराननः ॥
18 · p. 47
अनुष्टुप्
पिशिताशी महाकुण्डो नखारिरहिलोचनः ।कूणकुच्छो महाजानुः कोष्ठकोटिः शिवङ्करः ॥
19 · p. 47
अनुष्टुप्
वेतालो लोमवेतालस्तामसः सुमहाकपिः ।अत्तुङ्गो गृध्रजम्बूकः कण्डानककलानकौ ॥
20 · p. 47
अनुष्टुप्
चर्मग्रीवो जलोन्नादो ज्वालवक्त्रो विहुण्डनः ।हृदयो वर्तुलः पाण्डुर्भुण्डिरित्यादयोऽपरे ॥ ९ ॥
9 · p. 47
अनुष्टुप्

X. Rāyamukuṭa on AK I.1.50

उत्पलिन्यां च -

वैवस्वतो मनुर्नाम यमौ च यमुनायमौ ।नासत्यदस्ररेवन्ताः षट्सञ्ज्ञायां रवेः सुताः ॥ १० ॥
10 · p. 47
अनुष्टुप्

इति व्याडिः ।

XI. Hemacandra on Abhidhānacintāmaṇi II.97, Jñānavimalagaṇi on Maheśvara's Śabdabhedaprakāśa III.19

यद्व्याडिः -

अथ ब्रह्मणोऽग्निकुण्डात् समुत्पन्ना प्रभावती ।वेदितलाद्वेदिवती यमात्पुनः सुलोचना ॥
23 · p. 47
metre not recognised
उर्वशी तु हरेः सव्यमूरुं भित्त्वा विनिर्गता ।रम्भा तु ब्रह्मणो वक्त्राच्चित्रलेखा तु तत्करात् ॥
24 · p. 47
अनुष्टुप्
शिरसस्तु महाचित्ता स्मृता काकलिका वसा ।मारिचिसूचिका चैव विद्युत्पर्णा तिलोत्तमा ॥
25 · p. 47
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 चि (wrong syllable)
शारद्वती पुण्डरीका सुरसा सुनृताऽपि च ।सुवाता कामला हंसपादी च सुमुखीति च ॥
27 · p. 47
अनुष्टुप्
मेनका सहजन्या च पर्णिनी पुञ्जिकास्थला ।ऋतुस्थला घृताची च विश्वाचीत्यप्सरःस्त्रियः ॥ ११ ॥
11 · p. 47
अनुष्टुप्

XII. Hemacandra on Abhidhānacintāmaṇi II.18

यदाह व्याडिः -

अश्वास्तु दश चन्द्रस्य यजुश्चन्द्रमना वृषः ।सप्तधातुर्हयो वाजी हंसो व्योममृगो नरः ॥
29 · p. 47
अनुष्टुप्
अर्वा चाथ चन्द्रमनःस्थानेऽस्ति त्रिघनाः क्वचित् ।सप्तधातोः पुनः स्थाने सहरुण्योऽस्ति कुत्रचित् ॥ १२ ॥
12 · p. 47
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 थ (wrong syllable)

XIII. Bhānujīdīkṣita on AK I.3.20, V. D. Sharma on AK I.3.20

मित्रावरुणयोः सूनुरौर्वशेयश्च वारुणिः ॥ १३ ॥
13 · p. 47

इति व्याडिः ।

XIV. Hemacandra on Abhidhānacintāmaṇi II.9

यद्व्याडिः -

सुषुम्णाद्याश्च नाड्योऽस्य पुष्णन्ति सततं ग्रहान् ॥ १४ ॥
14 · p. 47

XV. Hemacandra on Abhidhānacintāmaṇi II.9

यद्व्याडिः -

ऋतुभेदात् पुनस्तस्यातिरिच्यन्तेऽपि रश्मयः ।शतानि द्वादश मधौ त्रयोदशैव माधवे ॥
33 · p. 47
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
चतुर्दश पुनर्ज्येष्ठे नभोनभस्ययोस्तथा ।पञ्चदशैव त्वाषाढे षोडशैव तथाश्विने ॥
34 · p. 47
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable); pāda 3, syllable 2 ञ्च (wrong syllable)
कार्त्तिकके त्वेकादश शतान्येवं तपस्यपि ।मार्गे तु दश सार्धानि शतान्येवं च फाल्गुने ॥
35 · p. 47
अनुष्टुप्metre not read in every line
पौष एव परं मासि सहस्रं किरणा रवेः ॥ १५ ॥
15 · p. 47

XVI. Hemacandra on Abhidhānacintāmaṇi II.17

यद्व्याडिः -

सुरावृतस्त्वसावष्टादशभिः पारिपार्श्विकैः ।इन्द्रादयश्च ते देवाः सर्वे नामान्तरैः स्थिताः ॥
37 · p. 47
अनुष्टुप्
तत्र शक्रो वामपार्श्वे दण्डाख्यो दण्डनायकः ।वह्निस्तु दक्षिणे पार्श्वे पिङ्गलो वामनश्च सः ॥
38 · p. 47
अनुष्टुप्
पूर्वद्वारे गुहहरौ राजश्रोथौ क्रमेण तौ ।द्वितीये तु धर्माधर्मौ तौ खरद्वारिकौ क्रमात् ॥
39 · p. 47
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ध (wrong syllable)
तृतीये तु यमतार्क्ष्यौ क्रमात् कल्माषपक्षिणौ ।चित्रगुप्तश्च कालश्च रवेर्दक्षिणपार्श्वगौ ॥
40 · p. 47
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
प्रथमो जातृकाराख्यो माठराख्यो द्वितीयकः ।पश्चिमेनाब्धिवर्णौ तौ प्राप्नुयात् कुतापकौ ॥
41 · p. 47
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उदीच्यां यक्षहेरम्बौ तौ च पिङ्गगजौ क्रमात् ।प्राच्यां तु रुद्ररेवन्तौ तौ दण्डिपुरुषौ क्रमात् ॥
42 · p. 47
अनुष्टुप्
अश्विनौ तु प्रार्श्वद्वये तौ द्वावेव किशोरकौ ।इत्यष्टादशको वर्गश्चण्डांशो पारिपार्श्विकः ॥ १६ ॥
16 · p. 47
अनुष्टुप्metre not read in every line

XVII. Hemacandra on Abhidhānacintāmaṇi II.172

व्याडिस्तु -

अर्थान्निघण्टयत्यस्माद् निघण्टुः परिकीर्तितः ॥ १७ ॥
17 · p. 47

XVIII. Bhānujīdīkṣita on AK I.6.6, V. D. Sharma on AK I.6.6

प्रहेलिका प्रवल्ही च प्रश्नदूती विपादिका ॥ १८ ॥
18 · p. 47

इत्युत्पलिनी ।

XIX. Hemacandra on Abhidhānacintāmaṇi VI.37

यद्व्याडिः -

कण्ठादुत्तिष्ठते व्यक्तं षड्जः षड्भ्यस्तु जायते ।कण्ठोरस्तालुनासाभ्यो जिह्वाया दशनादपि ॥
46 · p. 48
अनुष्टुप्

... यदाह व्याडिः -

वायुः समुत्थितो नाभेः कण्ठशीर्षसमाहतः ।नर्दद्वृषभवद्यस्मात् तेनैष ऋषभः स्मृतः ॥
47 · p. 48
अनुष्टुप्

... यदाह -

वायुः समुत्थितो नाभेः कण्ठशीर्षसमाहतः ।नानागन्धवहः पुण्यैः गान्धारस्तेन हेतुना ॥
48 · p. 48
अनुष्टुप्

... यदाह -

तद्वदेवोत्थितो वायुरुरःकण्ठसमाहतः ।नाभिप्राप्तो महानादो मध्यमस्तेन हेतुना ॥
49 · p. 48
अनुष्टुप्

... यदाह -

वायुः समुत्थितो नाभेरुरोहृत्कण्ठमूर्धसु ।विरचन् पञ्चमस्थानप्राप्त्या पञ्चम उच्यते ॥
50 · p. 48
अनुष्टुप्

... यदाह -

अधिसन्धीयते यस्मात् स्वरांस्तेनैष धैवतः ।
51 · p. 48
अनुष्टुप्

... यदाह -

निषीदन्ति स्वरा अस्मिन् निषादस्तेन हेतुना ॥ १९ ॥
19 · p. 48
अनुष्टुप्

XX. Sarvānanda on AK I.10.22, Bhānujīdīkṣita on AK I.10.23, V. D. Sharma on AK I.10.23

शम्बूकः शम्बुकश्चैव पूर्वः कान्तस्तु सर्वदा ।ककारेण विना शेषो दृश्यते ग्रन्थविस्तरे ॥ २० ॥
20 · p. 48
अनुष्टुप्

इत्युत्पलिनी ।

XXI. Hemacandra on Abhidhānacintāmaṇi IV.161

व्याडिस्तु -

आवालो जलपिण्डिलः ॥ २१ ॥
21 · p. 48

इति ...।

XXII. Bhānujīdīkṣita on AK I.10.37, V. D. Sharma on AK I.10.37

कुवलयं स्यादिन्दीवारमित्यपि ॥ २२ ॥
22 · p. 48

इति व्याडेः ...।

XXIII. Hemacandra on Abhidhānacintāmaṇi IV.12

यद्व्याडिः -

आ समुद्राच्च वै पूर्वादासमुद्राच्च पश्चिमात् ।हिमवद्विन्ध्ययोर्मध्यमार्यावर्तं विदुर्बुधाः ॥ २३ ॥
23 · p. 48
अनुष्टुप्

XXIV. Hemacandra on Abhidhānacintāmaṇi IV.42

यद्व्याडिः -

उज्जयन्यां यदुद्यानं तत् स्यात् पुष्पकरण्डकम् ॥ २४ ॥
24 · p. 48

इति ।

XXV. Sarvānanda on AK II.3.7, Raghunātha (R. Śarmā, Kalpadrukośa of Keśava, GOS no. 42, Introduction, p. xii, note 4)

161}आकरस्तु खनिः खानिः ॥ २५ ॥
25 · p. 48
metre not recognised

XXVI. Sarvānanda on AK II.4.12

अथ मज्जा द्वयोरस्थिस्नेहशुक्रकरो बली ॥ २६ ॥
26 · p. 48

इत्युत्पलिन्याम् ।

XXVII. Sarvānanda on AK II.4.14, Bhānujīdīkṣita on AK II.4.14, V. D. Sharma on AK II.4.14 and on Puruṣottamadeva's Trikānḍaśeṣa III.5.9

पुंसि क्लीबे च पल्लवः ॥ २७ ॥
27 · p. 48

इति व्याडिः ।

XXVIII. Sarvānanda on AK II.4.73

कुन्दं वा ना स्मृतम् ॥ २८ ॥
28 · p. 49

इति तु व्याडिः ।

XXIX. Bhānujīdīkṣita on AK II.4.113, V. D. Sharma on AK II.4.113

कदलश्च कदल्यसौ ॥ २९ ॥
29 · p. 49

इति व्याडिः ।

XXX. Hemacandra on Abhidhānacintāmaṇi IV.252

यद्व्याडिः -

ऊनोऽम्लेन रसेनेति रसोनस्तेन कीर्त्तितः ॥ ३० ॥
30 · p. 49

XXXI. Ujjvaladatta on Uṇ. III.157

इक्षुर्मधुतृणं स्मृतम् ॥ ३१ ॥
31 · p. 49

इत्युत्पलिनी ।

XXXII. Rāyamukuṭa on AK II.5.10 (R. Śarmā, Kalpadrukośa of Keśava, GOS no. 42, Introduction, p. xii, note 4), Bhānujīdīkṣita on AK II.5.10, V. D. Sharma on AK II.5.10

मृगो बिन्दुः पृषंश्चैव पृषतश्च प्रकीर्तितः ॥ ३२ ॥
32 · p. 49

XXXIII. Sarvānanda on AK II.5.16, Bhānujīdīkṣita on AK II.5.16

चाषः किकीदिविः स्मृतः ॥ ३३ ॥
33 · p. 49

XXXIV. Sarvānanda on AK II.5.38

द्वन्द्वं द्वन्दं युगलं युग्मं युगं मिथुनं मिथः ॥ ३४ ॥
34 · p. 49

इति व्याडिः ।

XXXV. Hemacandra on Abhidhānacintāmaṇi III.176

वध्वटी ॥ ३५ ॥
35 · p. 49

इत्यपि व्याडिः ।

XXXVI. Hemacandra on Abhidhānacintāmaṇi III.280

यद्व्याडिः -

पत्पादोऽंह्रिश्चरणोऽस्त्री ॥ ३६ ॥
36 · p. 49

इति ।

XXXVII. Sarvānanda on AK II.6.89

इति बृहदुत्पलिनी ।

XXXVIII. Bhānujīdīkṣita on AK II.6.126, V. D. Sharma on AK II.6.126

कालीयकं च कालेयं वर्णकं कान्तिदायकम् ॥ ३८ ॥
38 · p. 49

इति व्याडिः ।

XXXIX. Sarvānanda on AK II.6.133, Bhānujīdīkṣita on AK II.6.133, V. D. Sharma on AK II.6.133

तथा च व्याडिः -

कर्पूरागुरुकस्तूरीकक्कोलघुसृणानि च ।एकीकृतमिदं सर्वं यक्षकर्दम उच्यते ॥ ३९ ॥
39 · p. 49
अनुष्टुप्

XL. Ujjvaladatta on Uṇ. I.7

गण्डुर्गण्डूश्च दृश्यते ॥ ४० ॥
40 · p. 49

इत्युत्पलिनीकोशः ।

XLI. Hemacandra on Abhidhānacintāmaṇi III.339

कच्छाटी पुंस्त्रियोः ॥ ४१ ॥
41 · p. 49

इति व्याडिः ।

XLII. Hemacandra on Abhidhānacintāmaṇi III.449

न्युब्जः खड्गः कडितलम् ॥ ४२ ॥
42 · p. 49

इति व्याडिः ।

XLIII. Sarvānanda on AK II.9.16, Bhānujīdīkṣita on AK II.9.16, V. D. Sharma on AK II.9.16

कलायस्त्रिपुटः प्रोक्तः सतीनो वर्तुलो मतः ।हरेणुरङ्कटा ज्ञेया … ॥ ४३ ॥
43 · p. 49
अनुष्टुप्metre not read in every line

इति व्याडिः ।

XLIV. Bhānujīdīkṣita on AK II.9.58, V. D. Sharma on AK II.9.58

गोकुले धनगोधने ॥ ४४ ॥
44 · p. 49

इति व्याडिः ।

XLV. Sarvānanda on AK II.9.106

स्यादारकूटो रीतिश्च सीसकं त्रपु बन्धकम् ।नागं महाबलश्चैव योगेष्टं वमुनेष्टकम् ॥ ४५ ॥
45 · p. 50
अनुष्टुप्

XLVI. Hemacandra on Abhidhānacintāmaṇi III.597, Jñānavimalagaṇi on Maheśvara's Śabdabhedaprakāśa I.15

यद्व्याडिः -

चण्डमालं मृषा यस्येत्यर्थः शब्दवतां मतः ॥ ४६ ॥
46 · p. 50

XLVII. Hemacandra on Abhidhānacintāmaṇi III.152

यद्व्याडिः -

जनः पितृसधर्मा यः स तातार्हो मनोजवः ॥ ४७ ॥
47 · p. 50

XLVIII. Sarvānanda on AK III.3.18

खशब्दः शून्यबिन्दौ च स्वर्गाकाशेन्द्रियेषु च ॥ ४८ ॥
48 · p. 50

इति व्याडिः ।

XLIX. Bhānujīdīkṣita on AK I.3.23, V. D. Sharma on AK I.3.23

मृगशीर्षे हस्तिजातौ मृगः पशुकुरङ्गयोः ॥ ४९ ॥
49 · p. 50

इति व्याडिः ।

L. Ujjvaladatta on Uṇ. I.125, Jñānendrasarasvatī on Uṇ. 123

शृङ्गं विषाणमाख्यातं शैलाग्रे जलयन्त्रके ।मीनौषधिसुवर्णानां भेदे शृङ्गी प्रयुज्यते ॥ ५० ॥
50 · p. 50
अनुष्टुप्

LI. Sarvānanda on AK II.8.98, Bhānujīdīkṣita on AK I.4.29, V. D. Sharma on AK I.4.29

तथा चोत्पलिनी -

पुष्परेणौ गुणे चैव रजोऽपि रजसा सह ॥ ५१ ॥
51 · p. 50

इति ।

LII. Bhānujīdīkṣita on AK II.6.6, V. D. Sharma on AK II.6.6

क्रोडा हारा तथा दारा त्रय एते यथाक्रमम् ।क्रोडे हारे च दारेषु शब्दाः प्रोक्ता मनीषिभिः ॥ ५२ ॥
52 · p. 50
अनुष्टुप्

इति व्याडिशुभङ्करौ ।

LIII. Sarvānanda on AK II.5.14

खगे द्वौ प्रथमे मले ॥ ५३ ॥
53 · p. 50

इत्युत्पलिनी ।

LIV. Sarvānanda on AK III.3.71

पौरामात्यादिलिङ्गेषु स्वभावे प्रकृतिर्भगे ।सत्त्वरजस्तमसां च समवस्थापि दृश्यते ॥ ५४ ॥
54 · p. 50
अनुष्टुप्metre not read in every line

इति व्याडिः ।

LIV. Sarvānanda on AK III.3.74

अयाचिते यज्ञशेषे निर्वाणे चापि सुन्दरे ।अमृतं वारिणि प्रोक्तं अतिहृद्ये च वस्तुनि ॥ ५५ ॥
55 · p. 50
अनुष्टुप्

इति व्याडिः ।

LVI. Bhānujīdīkṣita on AK I.8.6, V. D. Sharma on AK I.8.6

मालुधानश्चित्रसर्पे महापद्मे च दृश्यते ॥ ५६ ॥
56 · p. 50

इत्युत्पलिनी ।

LVII. Bhānujīdīkṣita on AK III.3.122, V. D. Sharma on AK III.3.112

सम्बन्धे सुरते युग्मे राशौ मिथुनमिष्यते ॥ ५७ ॥
57 · p. 50

इति व्याडिः ।

Raghunātha (R. Śarmā, Kalpadrukośa of Keśava, GOS no. 42, Introduction, p. xii, note 5)

जिह्वास्वादनिनादेषु रसनं कटिमण्डने ॥ ५८ ॥
58 · p. 50

[इति व्याडिः ।]

LIX. Hemacandra on Abhidhānacintāmaṇi II.148

यद्व्याडिः -

कोष्ठागारोऽभवत् कूर्चो निधिर्वा तेन तादृशः ॥ ५९ ॥
59 · p. 50

LX. Bhānujīdīkṣita on AK I.3.21, V. D. Sharma on AK I.3.21

नक्षत्रे नेत्रमध्ये च तारा स्यात् तार इत्यपि ॥ ६० ॥
60 · p. 51

इति व्याडिः ।

LXI. Bhānujīdīkṣita on AK I.5.9, V. D. Sharma on AK I.5.9

नरेऽश्मश्रुणि शृङ्गाभ्यां रहिते गवि तूवरः ।काले प्राप्ते कषाये च रसे पुंव्यञ्जने च्युते ॥ ६१ ॥
61 · p. 51
अनुष्टुप्

इत्युत्पलिनी ।

LXII. Bhānujīdīkṣita on AK III.3.191, V. D. Sharma on AK III.3.191

मधुरौ स्वादुशोभनौ ॥ ६२ ॥
62 · p. 51

इति व्याडिः ।

LXIII. Sarvānanda on AK I.1.2, Rāyamukuṭa on AK I.1.1, Bhānujīdīkṣita on AK I.1.27, V. D. Sharma on AK I.1.27

तदुक्तं व्याडिना -

लक्ष्मीसरस्वतीधीत्रिवर्गसम्पद्विभूतिशोभासु ।उपकरणवेषरचनाविधासु च श्रीरिति प्रथिता ॥ ६३ ॥
63 · p. 51
आर्या

LXIV. Sarvānanda on AK II.4.46

कदलं शाल्मलिन्यां च व्रणिकायां च दृश्यते ॥ ६४ ॥
64 · p. 51

इत्युत्पलिन्याम् ।

LXV. Sarvānanda on AK III.3.193

वातूलो वातसङ्घाते वातले मरुतोऽसहे ॥ ६५ ॥
65 · p. 51

इति व्याडिः ।

LXVI. Ujjvaladatta on Uṇ. I.151

लट्वा तु तूलिका ख्याता लट्वा द्यूतेऽपि दृश्यते ॥ ६६ ॥
66 · p. 51

इति व्याडिरभसौ ।

LXVII. Sarvānanda on AK II.9.99

कुशा वल्गा कुशी फालः कुशो दर्भः कुशं जलम् ॥ ६७ ॥
67 · p. 51

इति व्याडिः ।

LXVIII. Jñānavimalagaṇi on Maheśvara's Śabdabhedaprakāśa III.36

कर्षूः … ॥ ६८ ॥
68 · p. 51

गर्तायामप्ययमिति व्याडिः ।

LXIX. Ujjvaladatta on Uṇ. IV.88, Bhānujīdīkṣita on AK I.3.13, V. D. Sharma on AK I.3.13

माःशब्दो मासि चन्द्रे च सम्मतो बहुदृश्वनाम् ॥ ६९ ॥
69 · p. 51

इत्युत्पलिनी(कोशः) ।

LXX. Bhānujīdīkṣita on AK III.4.12, V. D. Sharma on AK III.4.12

ओम् एवं परमं भवेत् ॥ ७० ॥
70 · p. 51

इत्यव्ययकाण्डे व्याडिः ।

LXXI. Sarvānanda on AK III.5.10

स्त्रीपुंसयोर्मषी ॥ ७१ ॥
71 · p. 51

इति व्याडिराह ।

LXXII. Mallinātha on Meghadūta I.28

विशालोज्जयिनी समा ॥ ७२ ॥
72 · p. 51

इत्युत्पलः ।

LXXIII. Mallinātha on Śiśupālavadha XX.23

कृत्यज्ञेयो यथा वर्णश्चारः प्रणिधिरेव च ॥ ७३ ॥
73 · p. 51

इत्युत्पलमाला ।

LXXIV. Mallinātha on Raghuvaṃśa XVII.36

अनुध्यानमनुग्रहः ॥ ७४ ॥
74 · p. 51

इत्युत्पलमालायाम् ।

LXXV. Mallinātha on Meghadūta II.22 and Śiśupālavadha VIII.36

श्यामा यौवनमध्यस्था ॥ ७५ ॥
75 · p. 52

इत्युत्पलमालायाम् ।

LXXVI. Mallinātha on Meghadūta I.16, Jñānendrasarasvatī on Uṇ. 186

मालमुन्नतभूतलम् ॥ ७६ ॥
76 · p. 52

इत्युत्पलमालायाम् ।

LXXVII. Mallinātha on Raghuvaṃśa VIII.10

उदयादिषु अविकृतिर्मनसः सत्त्वमुच्यते ।आत्मवान् सत्त्ववानुक्तः … ॥ ७७ ॥
77 · p. 52
metre not recognised

इत्युत्पलमालायाम् ।

LXXVIII. Mallinātha on Kumārasambhava I.25

विशेषोऽवयवे व्यक्तौ ॥ ७८ ॥
78 · p. 52

इत्युत्पलमाला ।

LXXIX. Mallinātha on Meghadūta I.3 and Śiśupālavadha VII.67

ज्ञानहेतुविवक्षायामप्यादिकथमव्ययम् ।कथमादि तथाप्यन्तं यत्नगौरवबाडयोः ॥ ७९ ॥
79 · p. 52
अनुष्टुप्