उष्णोपगम
uṣṇopagamaपुं · masc.In 4 kośas: 5 synonym verses.
निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः ।स्त्रियां प्रावृट्स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम् ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
ग्रीष्म ऊष्मागमस्त्र्यूष्मा स्यादुष्णोपगमः पुनः ।घनार्थादत्ययः पुंसि स्त्रियां स्याच्छरदा शरत् ॥ ६९ ॥
अनुष्टुप्
genderपुंmasc.
ग्रीष्मो निदाघो दीर्घाहा ऊष्मा स्यादूष्म ऊष्मकः ।उष्णोपगम उष्णश्च घर्मा पुंसि तपश्च सः ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.
वसन्तः सुरभिः पुष्पसमयो मधुरित्यपि ।ग्रीष्मे शुचिनिदाघोष्णतपोष्णोपगमा अपि ॥
अनुष्टुप्
genderपुंmasc.
तथा उष्णोपगम इत्येवमुष्माभिगम इत्यपि ।स्त्रियां बहुत्वे वर्षाः स्युर्घनकालो जलार्णवः ॥
अनुष्टुप्
genderपुंmasc.