All kośas › Amarakośa
नामलिङ्गानुशासनम् Amarakośa
2,373 verses · 12,470 words tagged · 1,463 marked doubtful (dashed)
प्रथमं काण्डम् · कालवर्गः
इति दिग्वर्गः
अथ कालवर्गः
कालो दिष्टोऽप्यनेहापि समयोऽप्यथ पक्षतिः ।प्रतिपद्द्वे इमे स्त्रीत्वे तदाद्यास्तिथयो द्वयोः ॥ १ ॥
1.4.1
अनुष्टुप्
प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि ।व्युष्टं विभातं द्वे क्लीबे पुंसि गोसर्ग इष्यते ॥ २ ॥प्रभातं च दिनान्ते तु सायं सन्ध्या पितृप्रसूः ।
1.4.3
अनुष्टुप्
प्राह्णापराह्णमध्याह्नास्त्रिसन्ध्यमथ शर्वरी ॥ ३ ॥निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा ।विभावरीतमस्विन्यौ रजनी यामिनी तमी ॥ ४ ॥
1.4.4
अनुष्टुप्
पौषे तैषसहस्यौ द्वौ तपा माघेऽथ फाल्गुने ।स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः ॥ १५ ॥
1.4.15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 फा (wrong syllable)
वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम् ।आषाढे श्रावणे तु स्यान्नभाः श्रावणिकश्च सः ॥ १६ ॥
1.4.16
अनुष्टुप्
स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदाः समाः ।
1.4.29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्रौ (wrong syllable)
स्यादाश्विन इषोऽप्याश्वयुजोऽपि स्यात्तु कार्तिके ॥ १७ ॥बाहुलोर्जौ कार्तिकिको हेमन्तः शिशिरोऽस्त्रियाम् ।
1.4.30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः ।स्त्रियां प्रावृट्स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम् ॥ १९ ॥
1.4.19
अनुष्टुप्
मासेन स्यादहोरात्रः पैत्रो वर्षेण दैवतः ।दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम् ॥ २१ ॥
1.4.21
अनुष्टुप्
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ।संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि ॥ २२ ॥
1.4.22
अनुष्टुप्
अस्त्री पङ्कः पुमान्पाप्मा पापं किल्बिषकल्मषम् ।कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम् ॥ २३ ॥
1.4.23
अनुष्टुप्
मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः ॥ २४ ॥स्यादानन्दथुरानन्दः शर्मशातसुखानि च ।
1.4.39
अनुष्टुप्
श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ॥ २५ ॥भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम् ।शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च ॥ २६ ॥
1.4.26
अनुष्टुप्
मतल्लिका मचर्चिका प्रकाण्डमुद्घतल्लजौ ।प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः ॥ २७ ॥
1.4.27
पञ्चचामरम्