कर्मरङ्ग
karmaraṅgaपुं · masc.In 5 kośas: 1 synonym verse, 7 as a meaning of another word.
न्युब्जः कर्मफलो हव्यकर्मरङ्गशठेश्वराः ।महीपतिर्दन्तशठः शिरीषस्तु कपीतनः ॥ ४८२ ॥
अनुष्टुप्
genderपुंmasc.
कर्मरङ्ग as a meaning in nānārtha verses
- कोषकल्पतरु न्युब्जकुजस्तु भौमे नरकासुरे च धन्वन्तरीन्द्वोर्निचुले च शङ्खे । अब्जोऽम्बुजेऽन्त्ये नरि तु द्रुभेदे न्युब्जं कुश[स्रुच्यपि कर्मरङ्गे] ॥ Koṣakalpataru 6.7.8
- कोषकल्पतरु दन्तशठपारावताख्ये कलकण्ठ उक्तो जम्बीरके दन्तशठः कपित्थे । स्यात्कर्मरङ्गेऽपि च नागरङ्गे चाङ्गेरिकायां [कथिता] बुधैः स्त्री ॥ ६५ ॥ Koṣakalpataru 6.11.65
- कोषकल्पतरु कर्मफलकर्मणि दैवविपाके कर्मफलं कर्मरङ्गेऽपि । मृत्युफलः किंपाके मृत्युफला स्यात्कदल्यां च ॥ ७३ ॥ Koṣakalpataru 6.28.73
- नानार्थार्णवसंक्षेप भव्यनटीविप्रोद्भवे भव्यः पुनर्ना पादपान्तरे । कर्मरङ्गाह्वये क्ली तु फले तस्य धने तथा ॥ ८८६ ॥ Nānārthārṇavasaṃkṣepa 2.5.886
- शब्दरत्नावली दन्तशठदन्तशठस्तु जम्बीरे कर्मरङ्गकपित्थयोः । नागरङ्गे पुमानेव चाङ्गेर्यामपि च स्त्रियाम् ॥ Śabdaratnāvalī 7.12.19
- शब्दरत्नावली कर्मफलअक्षमाला चाक्षसूत्रे त्वरुन्धत्यामपि स्त्रियाम् । अङ्कपाली परिरभ्ये कोटिधात्रिकयोः स्त्रियाम् ॥ भवेदतिवलौषध्यां प्रबलेऽप्यभिधेयवत् । उदूखलं गुग्गुलौ स्याद्भवेदुलूखलेऽपि च ॥ एकाष्ठीला पापचेल्यां वकपुष्पेऽपि च स्त्रियाम् । भवेत्कलकलः कोलाहले सर्जरसेऽपि च ॥ भवेत्कर्मफलं कर्मरङ्गे च सुखदुःखयोः ॥ Śabdaratnāvalī 7.28.104
- वैजयन्ती न्युब्जन्युब्जं कुब्जे कर्मरंगे न्युब्जो व्याधावधोमुखे । नेमः पुरोहिते तुल्ये प्रस्थोऽस्त्री सानुमानयोः ॥ ४६ ॥ Vaijayantī 6.5.46