कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnāvalī

शब्दरत्नावली Śabdaratnāvalī

4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)

नानार्थवर्गप्रकाशः · ठान्ताः

इति टान्ताः ॥

शिवे ठश्च बृहद्धनौ शून्ये शीतांशुमण्डले ।
7.12.1 · p. 203
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 द्ध (wrong syllable)
कठो गुनौ च वेदज्ञे वेदभागे स्वरेऽपि च ॥
7.12.2 · p. 203
अनुष्टुप्metre not read in every line
कण्ठो ध्वनौ सन्निधाने गले मदनभूरुहे ।काष्ठा दारुहरिद्रायां कालमाने प्रकर्षके ॥
7.12.3 · p. 203
अनुष्टुप्
स्थानमात्रे दिशि स्त्री तु काष्ठं दारुणि न द्वयोः ।कुण्ठः स्यादलसे मूर्खे कुष्ठं पुष्कररोगयोः ॥
7.12.4 · p. 203
अनुष्टुप्
कोष्ठः कुशूले स्वीये च जठरावासमद्ययोः ।गोष्ठी संलापसभयोः क्लीबे गोस्थानकेऽपि च ॥
7.12.5 · p. 203
अनुष्टुप्
पाठस्तु पठने पुंसि विद्धकर्ण्यामपि स्त्रियाम् ।वण्ठः कुन्तायुधे खर्वे अकृतोद्वाहपूरुषे ।शठो धूर्ते च धूस्तूरे मध्यस्थपुरुषेऽपि च ॥
7.12.6 · p. 203
अनुष्टुप्
श्रेष्ठो दुधे धनेशे च नृपे ज्येष्ठे द्विजेऽपि च ॥
7.12.7 · p. 203
शोठो मूर्खेऽलसे धूर्ति नीचे पापरतेऽपि च ।षष्ठी रेमवतीतिथ्योः षण्णाञ्च पूरणे त्रिषु ॥
7.12.8 · p. 203
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ञ्च (wrong syllable)
अपष्ठुः पुंसि कामे स्याद् वामे तु वाच्यलिङ्गकः ।अम्बष्ठो द्विजवैश्याजे देशे हस्तिपके पुमान् ॥
7.12.9 · p. 204
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
अम्बष्ठा यूथिका केशी पाठाम्ललीनिकासु च ।कमठः कच्छपे वंशे क्लीबं भाण्डविशेषके ॥कनिष्टाङ्गुलिभेदेऽतियुवात्यल्पानुजेषु ना ।जरठः कठिने पाण्डौ जीर्णे तु वाच्यलिङ्गकः ॥
7.12.10 · p. 204
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म्ल (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
नर्मठश्चूचुके षिङ्गे परिहासरतेऽपि च ॥
7.12.11 · p. 204
प्रतिष्ठा गौरवे स्थाने कलापद्यभिदोः क्षितौ ॥
7.12.12 · p. 204
वरिष्ठो मरिचे ताम्रे तित्तिरौ ना महत्तरे ।मकुष्ठो व्रीहिभेदे स्यान्मन्थरे वाच्यलिङ्गकः ॥
7.12.13 · p. 204
अनुष्टुप्
साधिष्टोऽतिदृढेऽत्पार्थे श्रीकन्ठे हरदेशयोः ।
7.12.14 · p. 204
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
कलकण्ठः कलरावे स्यात्पारावतहंसयोः ॥
7.12.15 · p. 204
अनुष्टुप्metre not read in every line
कालकण्ठः खञ्जने स्याद् दात्यूहकलविङ्कयोः ॥
7.12.16 · p. 204
मयूरे च महादेवे पीतिसारे च पुंस्यपि ॥
7.12.17 · p. 204
कालपृष्ठं कर्णचापे कङ्कपक्षिणि पुंस्ययम् ॥
7.12.18 · p. 204
दन्तशठस्तु जम्बीरे कर्मरङ्गकपित्थयोः ।नागरङ्गे पुमानेव चाङ्गेर्यामपि च स्त्रियाम् ॥
7.12.19 · p. 204
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 श (wrong syllable)
पूतिकाष्ठञ्च सरले देवदारुणि न द्वयोः ।सूत्रकण्ठो द्विजार्ग्रतुखर्जरीटे कपोतके ॥
7.12.20 · p. 204
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र्ग्र (wrong syllable)
हारिकण्ठः कोकिले ना हारकण्ठान्विते त्रिषु ॥
7.12.21 · p. 204