कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कपीतन

kapītanaपुं · masc.

In 12 kośas: 22 synonym verses, 5 as a nānārtha head word, 6 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.47
वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ ।आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ ॥ २७ ॥वानप्रस्थमधुष्ठीलौ जलजेऽत्र मधूलकः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.43
गर्दभाण्डे कन्दरालकपीतनसुपार्श्वकाः ।प्लक्षश्च तिन्तिडी चिञ्चाम्लिकाथो पीतसारके ॥ ४३ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.63
कपिला भस्मगर्भा सा शिरीषस्तु कपीतनः ।भण्डिलोऽप्यथ चाम्पेयश्चम्पको हेमपुष्पकः ॥ ६३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.103 · p. 260
नदीयज्ञार्थयोर्वृक्षः सिद्धार्थोऽपि वटी स्त्रियाम् ।अमरा शृङ्गिनी क्षीरकाष्ठाप्यथ कपीतनः ॥ १०३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.180 · p. 268
भण्डिरश्चापि भण्ण्डीरो भण्डिलोऽपि च कथ्यते ।शुकेष्टो भण्डिकोऽपि स्याद्विषघ्नश्च कपीतनः ॥ १८० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.48 · p. 139
कपीतनो गर्दभाण्डः कपिकृ(चू?)तः कमण्डलुः ।कन्दरालः सुपार्श्वश्च प्लवः पूगोऽपि मौग्धिगः ॥ ४८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कृ (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.48 · p. 139
प्लक्षः कपीतनः शुङ्गी जटी द्वंद्वे तु पर्क्कटी ।य[22b]क्षवृक्षः सुपार्श्वश्च पिप्परिः पिप्पलश्छदः ॥ ४८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.18 · p. 12
मृदुपुष्पः शुकपुष्पः शुकवृक्षः शुकप्रियः ।कपीतनः कर्णपूरो भण्डिलः श्यामवल्कलः ॥ १८ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.40 · p. 25
प्लक्षो वटः प्लवः शुङ्गी सुपार्श्वश्चारुदर्शनः ।कपीतनः कपीनः स्यात्पीतनप्लवकावपि ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.47 · p. 28
कपीतनः पीतनकस्तनुक्षीरोऽम्लपाटकः ।शुङ्गी कपिरसाढ्यश्च दृष्यफलो बिभीषणः ॥ ४७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 फ (wrong syllable)
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.145 · p. 38
अर्थलिङ्गसमासांस्तु विद्यादत्रापि पूर्ववत् ।कपीतनस्तु ना ज्ञेयस्त्रिषु वृक्षेषु सूरिभिः ॥ १४५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2061 · p. 341
पीतनोऽम्रातकश्चैव वर्षपाको कपीतनः ।आम्रातकश्च नामानि मन्यन्तेऽम्रातकस्य वै ॥ २०६१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.52 · p. 60
आम्रातकः पीतनं स्यात् कपिचूतं कपीतनम् ।आम्रातकफले स्वादुरसा पशुहरीतकी ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.86 · p. 63
गर्दभाण्डो गन्धभाण्डः कपीतनसुपार्श्वकौ ।प्लक्षश्च कन्दरालश्च प्लाक्षश्च कन्दरालकः ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 श्च (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.123 · p. 66
क्वचित्तु कपिला भस्मगर्भा च गुरुशिंशपा ।पिच्छिला शिंशपायुग्मपत्रिका गुरु चेत्यपि ।शिरीषः स्याच्च भण्डीसो भण्डिलश्च कपीतनः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.187 · p. 233
चीर्णात्कर्जूर-खर्जूरौ वर्षपाकी कपीतनः ।पीतनकोऽम्नातकश्चाम्रातकः क्रकचच्छदे ॥ १८७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.202 · p. 234
कपीतनो गर्दभाण्डे कपीतः पीतनस्तथा ।नागकेसरे केसरो नागः स्यान्मदनद्रुमे ॥ २०२ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.482 · p. 63
न्युब्जः कर्मफलो हव्यकर्मरङ्गशठेश्वराः ।महीपतिर्दन्तशठः शिरीषस्तु कपीतनः ॥ ४८२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.486 · p. 64
पिण्डी तु रक्ताशोकः स्याद्गर्दभाण्डः कपीतनः ।कन्दरालः सुपार्श्वश्च प्लक्षोऽथो भूतपुष्पकः ॥ ४८६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.500 · p. 65
चाम्पेयः केसरश्चाथ द्वौ पीतनकपीतनौ ।आम्रातके करञ्जस्तु करजो नक्तमालकः ॥ ५०० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.59 · p. 49
सुपार्श्वे स्यात् कन्दरालो गर्दभाण्डः कपीतनः ।ताम्रपाकी फलेपाकी प्लक्षको गन्धमुण्डकः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.72 · p. 51
वृक्षोत्पले कर्णिकारः परिव्याधोऽथ भण्डिले ।कपीतनः शिरीपश्च करके दाडिमी त्रयी ॥ ७२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.7 · p. 262
प्रह्लादपुत्रेऽप्यथ वैरशुद्धौनिर्यातनं न्याससमर्पणे च ।शिरीष आम्रातकगर्दभाण्ड-बोधिद्रुमार्थश्च कपीतनः स्यात् ॥ ७ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.146 · p. 38
गर्दभाण्डाह्वयप्लक्षेऽप्याम्रातकशिरीषयोः ।फलप्रसूनयोस्तेषां विद्यादेतन्नपुंसकम् ॥ १४६ ॥
अनुष्टुप्
doubtful
शिवकोष Śivakoṣa · शिवदत्तमिश्र नच Śivakoṣa 16.2.272 · p. 25
कपीतनो गर्दभाण्डेऽऽम्राताश्वत्थशुकप्रिये ।कुचन्दनं च पतङ्गे रक्ते निर्गन्धचन्दने ॥ २७२ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 प (wrong syllable)
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.105 · p. 243
आत्मयोनिः शिवे कामे हरौ च परमेष्ठिनि ।उद्वर्त्तनमुत्पतने विलेपे घर्षणेऽपि च ॥उद्वाहनी भवेद्रज्वां द्विसीत्ये तु नपुंसकम् ।उपासनं शराभ्यासे सेवनासनयोरपि ॥कपीतनश्चलदले गर्दभाण्डे शिरीषके ।आम्रातके च पूगे च मालूरेऽपि च कुत्रचित् ॥कलापी स्यान्मयूरे च प्लक्षभूमिरुहे पुमान् ।क्षौमं(?) शुद्धार्द्धजरती विधवादुर्गयोः स्त्रियाम् ॥कुम्भयोनिर्वशिष्ठे स्याद् द्रोणेऽगस्त्ये पुमानयम् ।कुचन्दनं वृक्षभेदे कुङ्कुमे रक्तचन्दने ॥कुण्डली कुण्डलवति व्याले बर्हिप्रचेतसोः ।केशरी सिंहपुन्नागनागकेशरवाजिषु ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.232 · p. 171
स्यात्कात्यायन्यर्धवृद्धा गौर्योर्वररुचौ नरि ।शिरीषाम्रातकाश्वत्थगर्दभाण्डे कपीतनः ॥ २३२ ॥
अनुष्टुप्

कपीतन as a meaning in nānārtha verses