कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

नानार्थस्कन्धः · जान्ताः

छान्ताः ।

जं जन्मनि स्याद्धिमजे तु पुंसि ॥ १९ ॥
6.7.19 · p. 174
जूर्व्योमनद्यां जवने पिशाच्यां
6.7.2 · p. 174
metre not recognised

द्विजाः ।

सञ्जो विरिञ्चौ च हरेऽथ कञ्जः ।केशे विरिञ्चे[267b]चरमे तु पद्मे-ऽमृतेऽथ कामे च[हरे]हरौ च ॥ २० ॥
6.7.20 · p. 174
metre not recognised
छागे विधाविन्दुमतीधवेऽजोव्रजोऽध्वगोष्ठप्रकरेषु न स्त्री ।निजं तु नित्ये त्रिषु तु स्वकीयेध्वजोऽङ्ककेत्वोरपि मेहनेऽस्त्री ॥ २१ ॥
6.7.21 · p. 174
उपजातिः
प्राग्दिग्गृहेऽन्यत्र * शौण्डिके स्यात्स्वजं तु रक्ते नरि गात्रतोये ।पुत्रेऽथ विप्रप्रमुखत्रिवर्णि-विहंगदन्तेषु मतो द्विजो ना ॥ २२ ॥
6.7.22 · p. 174
उपजातिःmetre not read in every linenearly उपजातिः
स्त्री रेणुकागर्दभशाकयोः स्याद्बीजं तु तत्त्वेऽङ्कुरकारणे च ।आधानहेत्वोरपि रेतसि स्या-त्संनद्धसम्यग्भृतयोस्तु सञ्जः ॥ २३ ॥
6.7.23 · p. 174
इन्द्रवज्रा
वाजो मुनौ निस्वनपक्षयोर्नाजवे मखान्ने तु घृते च षण्ढे ।व्याजोऽपदेशे शठकर्मणि स्या-त्पाणौ सुबाहौ च भुजो द्विलिङ्गः ॥ २४ ॥
6.7.24 · p. 174
उपजातिः
कुजस्तु भौमे नरकासुरे चधन्वन्तरीन्द्वोर्निचुले च शङ्खे ।अब्जोऽम्बुजेऽन्त्ये नरि तु द्रुभेदेन्युब्जं कुश[स्रुच्यपि कर्मरङ्गे] ॥
6.7.8 · p. 174
उपजातिः
वक्त्रानताङ्गे त्रिषु कुब्जमाहु-र्वृक्षप्रभेदे निगदन्ति पुंसि ।आजिः समोर्वीक्षणसंगरेषुराजिस्तु रेखाततिवाचिका स्त्री ।लाजास्तु भृष्टेष्वपि शा[268a]लिषु स्युःपुंभूम्नि चार्द्रेष्वपि तन्दुलेषु ॥ २६ ॥
6.7.26 · p. 174
इन्द्रवज्राmetre not read in every line
क्लीबे प्रजाविस्तृतिलोकलाम-ज्जकेषु गुञ्जा तु कलध्वनौ स्त्री ।स्यात्काकणन्त्यां पटहेऽथ गञ्जाद्वयोः खनौ मद्यगृहे पुनः स्त्री ॥ २७ ॥
6.7.27 · p. 175
उपजातिः
कोषालये त्रिष्वपि पुंसि षण्ढेकुञ्जो निकुञ्जे करिदन्तहन्वोः ।लञ्जो भवेत्कच्छपदार्थको ना-थोर्जा मदोत्साहबलाभिधाने ॥ २८ ॥
6.7.28 · p. 175
इन्द्रवज्रा
मन्थे प्रहस्ते च खजाऽथ पिञ्जोवधे **ण्यां च गुणैः प्रदिष्टः ।खर्जूः स्त्री खर्जूरेकण्ड्वां कीटेऽथ मर्जूः स्त्री ।रजके शुद्धौ सर्जूरुद्रे स्वर्गे च वाणिजे तडिति ॥ ३० ॥
6.7.30 · p. 175
metre not recognised

त्रिजाः ।

करजः करञ्जनखर-व्याघ्रनखेषूदितः पुंसि ।द्रोणेऽगस्त्ये कुटजोगिरिमल्ल्यां पुंसि निर्दिष्टः ॥ ३१ ॥
6.7.31 · p. 175
metre not recognised
सहजः शीले पुंसित्रितये सहजन्मनि प्रोक्तः ।नीरजमब्जे कुष्ठेजलजः शङ्खे सरोरुहे क्लीबे ॥ ३२ ॥
6.7.32 · p. 175
metre not recognised
बलजं गोपुररणयोःक्षेत्रे सस्ये स्त्रियां भूमौ ।सुन्दर्यामथ शिल्पि-प्रभवे चित्रे च गैरिके फेने ॥ ३३ ॥
6.7.33 · p. 175
metre not recognised
कलभे चाम्पेय[268b]तरौवल्मीके कारुजः कथितः ।कीरेऽपि बाहुजः स्यात्स्वयंप्रभूते तिले तद्वत् ॥ ३४ ॥
6.7.34 · p. 176
metre not recognised
वनभूगजे च वनजोमुस्तकपाथोजयोः क्लीबे ।वनजा तु मुद्गपर्ण्यांवणिक् तु वाणिज्यजीवके पुंसि ॥ ३५ ॥
6.7.35 · p. 176
metre not recognised
क्लीबे करणविशेषेस्त्रियां तु दिष्टा वणिज्यायाम् ।सामजमाहुर्द्विरदेसामभवे त्वेष भेद्याभः ॥ ३६ ॥
6.7.36 · p. 176
metre not recognised
स्यादग्रजो द्विजातौप्राग्जे त्रय्यां च भूमिजो नरके ।अङ्गारे सीतायांपुनः स्त्रियां स्यादथाभ्रके गिरिजम् ॥ ३७ ॥
6.7.37 · p. 176
metre not recognised
शैलेयशिलाजतुनोःस्त्रियां तु गौर्यां च नद्यां च ।गजशङ्खदेशभित्सुस्यात्कम्बोजोऽङ्गजं तु रक्ते स्यात् ॥ ३८ ॥
6.7.38 · p. 176
metre not recognised
पुंसि द्विपे च तनयेकेशेऽथाश्वे च पुंनागे ।काम्बोजः सितखदिरेमाषदलायां तु हिङ्गुपत्र्यां स्त्री ॥ ३९ ॥
6.7.39 · p. 176
metre not recognised
अण्डजाः सरटमीनभुजंग-पक्षिणो मृगमदे तु भवेत्स्त्री ।तैलयन्त्रकरवालकफेन-खड्गधेनुफलकेषु परञ्जम् ॥ ४० ॥
6.7.40 · p. 177
स्वागता
मैनाके हिमजः शठीगिरिजयोः स्त्रीलिङ्गकः सम्मतो
6.7.23 · p. 177
शार्दूलविक्रीडितम्metre not read in every line

चतुर्जाः ।

[269a]ऽथार्केन्द्वोर्ग्रहराज इत्यथ भरद्वाजो मुनिद्रोणयोः ।व्याघ्राटाह्वखगेऽहिभुक्तु गरुडे तार्क्ष्येऽथ काश्मीरजंप्रोक्तं पौष्करकुष्ठयोश्च घुसृणे माद्र्यौषधे तु स्त्रियाम् ॥ ४१ ॥
6.7.41 · p. 177
शार्दूलविक्रीडितम्metre not read in every line
जघन्यजः शूद्रकनिष्ठयोः स्या-द्वृषध्वजः शंभुगणेशयोः स्यात् ।पुण्यक्रिये तु त्रिषु धर्मराजोजिने कृतान्ते युधि शल्यशत्रौ ॥ ४२ ॥
6.7.42 · p. 177
उपजातिः
भारद्वाजी वन्यकार्पासिकायांपुंसि त्वश्वत्थाम्न्यथो सार्वभौमे ।इन्दौ श्रीदे राजराजोऽथ मल्ल-स्थाने ** यक्षराट् स्यात्कुबेरे ॥ ४३ ॥
6.7.43 · p. 177
शालिनीmetre not read in every linenearly शालिनी
क्षीराब्धिजं तु लवणेऽम्बुधिजन्मनि स्या-न्मुक्ताफले नरि तु चन्द्रमसि प्रदिष्टः ।लक्ष्म्यां स्त्रियामथ भवेद्द्विजराज इन्दौतार्क्ष्येऽप्यनन्तफणिनि प्रथितः प्रवीणैः ॥ ४४ ॥
6.7.44 · p. 177
वसन्ततिलका
स्याद्भृङ्गराजो भ्रमरे च मार्कवेपक्ष्यन्तरे
6.7.28 · p. 177
upajati mixed

पञ्चजाः ।

ऽथो मुनिभेषजं तु ।अभोजनागस्तिहरीतकी पुंजिने शिवे स्यादृषभध्वजोऽपि ॥ ४५ ॥
6.7.45 · p. 177
upajati mixed