All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
नानार्थस्कन्धः · ठान्ताः
ठान्ताः ।
द्विठाः ।
कठः स्वरेऽप्यृग्भिदि तत्प्रपाठि-तद्वे[दि]नोः किंच मुनिप्रभेदे ॥ ५२ ॥
6.11.52 · p. 186
उपजातिःmetre not read in every line
हठोऽम्बुपर्ण्यां प्रसभे शठस्तुधत्तू[274a]रके ना परवत्तु धूर्ते ।मध्यस्थिते पुंसि जडेऽथ कुण्ठे-ऽकर्मण्यके मन्दमतौ च शस्तः ॥ ५३ ॥
6.11.53 · p. 186
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 1 ह (wrong syllable)
पाठस्त्वधीतावथ विद्धकर्ण्यांस्त्रियां च वण्ठस्तु विवाहहीने ।खर्वे च कुन्तेऽथ गले तु कण्ठोध्वनौ समीपे मदनद्रुमे च ॥ ५४ ॥
6.11.54 · p. 186
उपजातिः
पृष्ठं तु चरममात्रेस्तोमविशेषे च देहाङ्गे ।अथ मध्येगृहकुक्ष्योःकोष्ठः स्वीये कुसूले च ॥ ५५ ॥
6.11.55 · p. 186
metre not recognised
कुष्ठं तु रोगेऽपि सुगन्धभेदेगोष्ठी ********* ।संलापसंसत्सु चरमे तु गोस्थले-ऽथाधमेऽप्यसारे च दुष्टः स्यात् ।प्रष्ठः पुरोगामिनि च प्रशस्येचण्डालिकासंज्ञक औषधे स्त्री ।ज्येष्ठोऽतिवृद्धे त्रिषु च प्रशस्येमासे तु ना स्त्री तु भभिन्मुसल्योः ॥ ५७ ॥
6.11.57 · p. 186
इन्द्रवज्राmetre not read in every line
श्रेष्ठः कुबेरे स वरेऽन्यवत्स्यात्काष्ठा प्रकर्षे दिशि च स्थितौ च ।कटंकटेर्यामपि कालमानेनपुंसके त्विन्धनवाचकं स्यात् ॥ ५८ ॥
6.11.58 · p. 187
उपजातिः
निष्ठा तु निष्पत्तिविनाशयाञ्चा-नाट्याङ्गभेदेषु च संप्रदिष्टा ।षष्ठी तु गौर्यामपि पुंसि तु स्यात्दक्षान्तकारि-
6.11.8 · p. 187
इन्द्रवज्रा
त्रिठाः ।
षिड्गेऽपि वक्त्रावयवप्रभेदेपाण्डौ कठोरे जरठः त्रिषु स्यात् ।वैकुण्ठ इन्द्रे कुरुजाङ्गले तुश्रीकण्ठ उक्तोऽथ वरिष्ठ उक्तः ॥ ६० ॥
6.11.60 · p. 187
इन्द्रवज्रा
वरे वरीयस्यपि तित्तिरौ चक्लीबे तु ताम्रे मरिचे तथैव ।साधिष्ठ आर्येऽतिदृढे कनिष्ठ-स्त्वल्पेऽनुजे यूनि तथाङ्गुलौ स्त्री ॥ ६१ ॥
6.11.61 · p. 187
उपजातिः
भेले लघिष्ठोऽप्युदितस्त्वपष्ठुःकालेऽपसव्ये तु विशेष्यलिङ्गः ।कक्षान्तरे भूमिपतेः प्रकोष्ठःस्यात्कूर्पराधो वितते करे च ॥ ६२ ॥
6.11.62 · p. 187
इन्द्रवज्रा
स्थाने प्रतिष्ठा मखनिर्वृतौ चयागस्य सिद्धावपि वृत्तभेदे ।व्रीहौ मकुष्ठः त्रिषु मन्थरे स्या-दंबष्ठ उक्तो नरि देशभेदे ॥ ६३ ॥
6.11.63 · p. 187
इन्द्रवज्रा
चतुष्ठाः ।
पारावताख्ये कलकण्ठ उक्तोजम्बीरके दन्तशठः कपित्थे ।स्यात्कर्मरङ्गेऽपि च नागरङ्गेचाङ्गेरिकायां [कथिता] बुधैः स्त्री ॥ ६५ ॥
6.11.65 · p. 188
इन्द्रवज्रा
स्या[275a]न्नीलकण्ठोऽपि च कालकण्ठोहरे मयूरे चटकेऽञ्जनाक्षे ।दात्यूहके स्यादपि पीतसारेस्याद्धारिकण्ठः पिकवाचको ना ॥ ६६ ॥
6.11.66 · p. 188
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 ह (wrong syllable)