कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कर्मशील

karmaśīlaवि · adj.

In 10 kośas: 10 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.354 · p. 18
कर्मशीलः कार्म आयःशूलिकस्तीक्ष्णकर्मकृत् ॥ ३५४ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.18
स कार्मः कर्मशीलो यः कर्मशूरस्तु कर्मठः ॥ १८ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.370 · p. 43
अलङ्कर्मीण इत्युक्तः कर्मशीलस्तु यः पुमान् ।उत्तालस्त्वरितो ज्ञेयो विश्रब्धः स्थिर उच्यते ॥ ३७० ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.29 · p. 217
कर्मक्षमोलङ्कर्मीणः कर्मशूरस्तु कर्मठः ।सकार्मः कर्मशीलो यः कर्मकारस्तु तत्क्रियः ॥ २९ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.31 · p. 4
उन्मनस्त्वं त्वौन्मनस्यं भावेऽस्योन्मनिमा पुमान् ।उन्मनस्ता स्त्रियामेवं दौर्मनस्यादिकान्वदेत् ॥कर्मक्षमोऽलंकर्मीणः कर्मशूरस्तु कर्मठः ।कर्मशीलः कार्म आयःशूलिकस्तीक्ष्णकर्मकृत् ॥ ३१ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.20 · p. 103
कर्मक्षमः कर्मशीलोऽलंकर्मीणोऽपि कथ्यते ।तीक्ष्णकर्मकरः प्रोक्तः शूलिकः स्वरुचौ पुनः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.524 · p. 66
स्यात् कार्मः कर्मशीलश्च पुनस्तु तीक्ष्णकर्मकृत् ।किलाऽऽयःशूलिकश्चैव ज्ञेयो राभसिकस्तथा ॥ ५२४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश प्राणिवर्गप्रकाशः Śabdaratnāvalī 4.1.23 · p. 160
कर्मशीलो भवेत् कार्मः क्रियावान् कर्मसूद्यतः ।कर्मठः कर्मशूरः स्यात् कर्मशासन इत्यपि ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1664 · p. 199
कार्मस्तु कर्मशीलः स्यात् कर्मशूरस्तु कर्मठः ।क्रियावान् कर्मसूद्युक्तः समौ संकुसुकास्थिरौ ॥ १६६४ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.72 · p. 207
कर्मक्षमोऽलंकर्मीणः कर्मशूरस्तु कर्मठः ।कार्मस्तु कर्मशीलः स्याद्दीर्घसूत्रश्चिरक्रियः ॥ ७२ ॥
अनुष्टुप्
genderविadj.