कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कर्मठ

karmaṭhaवि · adj.

In 11 kośas: 11 synonym verses, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.20 · p. 18
कर्मक्षमोऽलंकर्मीणः कर्मशूरस्तु कर्मठः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.18
स कार्मः कर्मशीलो यः कर्मशूरस्तु कर्मठः ॥ १८ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.369 · p. 43
वैरङ्गिको विरागार्हो धनवानस्तिमान्मतः ।प्रेष्यः प्रोक्तः परिस्कन्दः कर्मशूरश्च कर्मठः ॥ ३६९ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.29 · p. 217
कर्मक्षमोलङ्कर्मीणः कर्मशूरस्तु कर्मठः ।सकार्मः कर्मशीलो यः कर्मकारस्तु तत्क्रियः ॥ २९ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.31 · p. 4
उन्मनस्त्वं त्वौन्मनस्यं भावेऽस्योन्मनिमा पुमान् ।उन्मनस्ता स्त्रियामेवं दौर्मनस्यादिकान्वदेत् ॥कर्मक्षमोऽलंकर्मीणः कर्मशूरस्तु कर्मठः ।कर्मशीलः कार्म आयःशूलिकस्तीक्ष्णकर्मकृत् ॥ ३१ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.19 · p. 103
मन्दश्चिरक्रिये तु स्याद्दीर्घसूत्रोऽन्यलिङ्गवत् ।कर्मोद्यतः क्रियावान्स्यात्कर्मठः कर्मतत्परः ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.645 · p. 110
जाल्मोऽसमीक्ष्यकारी स्यात्कर्मशूरस्तु कर्मठः ।खलपूः स्याद्बहुकरश्चोत्तालः कर्मवर्जिते ॥ ६४५ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.523 · p. 66
कर्मोद्यतः क्रियावान् वै कर्मक्षमोऽपि कथ्यते ।तथाऽलङ्कर्मीणः किल कर्मशूरस्तु कर्मठः ॥ ५२३ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 क्ष (wrong syllable); pāda 3, syllable 6 णः (wrong syllable)
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश प्राणिवर्गप्रकाशः Śabdaratnāvalī 4.1.23 · p. 160
कर्मशीलो भवेत् कार्मः क्रियावान् कर्मसूद्यतः ।कर्मठः कर्मशूरः स्यात् कर्मशासन इत्यपि ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1664 · p. 199
कार्मस्तु कर्मशीलः स्यात् कर्मशूरस्तु कर्मठः ।क्रियावान् कर्मसूद्युक्तः समौ संकुसुकास्थिरौ ॥ १६६४ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.72 · p. 207
कर्मक्षमोऽलंकर्मीणः कर्मशूरस्तु कर्मठः ।कार्मस्तु कर्मशीलः स्याद्दीर्घसूत्रश्चिरक्रियः ॥ ७२ ॥
अनुष्टुप्
genderविadj.

कर्मठ as a meaning in nānārtha verses

  • शब्दरत्नावली कार्मणकङ्कणं मण्डने सूत्रे कौतुके करभूषणे । करेणुः स्त्री तु हस्तिन्यां मातङ्गे तु भवेत्पुमान् ॥ कार्मणः कर्मठे क्लीबं मन्त्रतन्त्रादि योजने । काकिनीमानदण्डे स्यात्पणतूर्यांशकेपि च ॥ Śabdaratnāvalī 7.15.29