कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

स्थिर

sthiraपुं · masc.

In 17 kośas: 26 synonym verses, 4 as a nānārtha head word, 8 as a meaning of another word.

अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र देवकाण्डः Abhidhānacintāmaṇipariśiṣṭa 2.15 · p. 1
शुक्रे भृगुः शनौ पङ्गुः श्रुतकर्मा महाग्रहः ॥ १४ ॥श्रुतश्रवोऽनुजः कालो ब्रह्मण्यश्च यमः स्थिरः ।क्रूरात्मा चाथ राहौ स्यादुपराग उपप्लवः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र देवकाण्डः Abhidhānacintāmaṇipariśiṣṭa 2.30 · p. 3
नारायणे तीर्थपादः पुण्यश्लोको वलिंदमः ।उरुक्रमोरुगायौ च तमोघ्नः श्रवणोऽपि च ॥ ६३ ॥उदारथिर्लतापर्णः समुद्रः पांसुजालिकः ।चतुर्व्यूहो नवव्यूहो नवशक्तिः प्रगण्डजित् ॥ ६४ ॥द्वादशमूलः शतको दशावतार एकदृक् ।हिरण्यकेशः सोमोऽहिस्त्रिधामा त्रिककुन्त्रिपात् ॥ ६५ ॥मानंजरः पराविद्धः पृश्निगर्भोऽपराजितः ।हिरण्यनाभः श्रीगर्भो वृषोत्साहः सहस्रजित् ॥ ६६ ॥उर्ध्वकर्मा यज्ञधरो धर्मनेमिरसंयुतः ।पुरुषो योगनिद्रालुः खण्डास्यः शलकाजितौ ॥ ६७ ॥कालकुण्ठो वरारोहः श्रीकरो वायुवाहनः ।वर्धमानश्चतुर्दंष्ट्रो नृसिंहवपुरव्ययः ॥ ६८ ॥कपिलो भद्रकपिलः सुषेणः समितिंजयः ।क्रतुधामा वासुभद्रो बहुरूपो महाक्रमः ॥ ६९ ॥विधाताधार एकाङ्गो वृषाक्षः सुवृषोऽक्षजः ।रन्तिदेवः सिन्धुवृषो जितमन्युर्वृकोदरः ॥ ७० ॥बहुशृङ्गो रत्नबाहुः पुष्पहासो महातपाः ।लोकनाभः सूक्ष्मनाभो धर्मनाभः पराक्रमः ॥ ७१ ॥पद्महासो महाहंसः पद्मगर्भः सुरोत्तमः ।शतवीरो महामायो ब्रह्मनाभः सरीसृपः ॥ ७२ ॥वृन्दाङ्कोऽधोमुखो धन्वी सुधन्वा विश्वभुक्स्थिरः ।शतानन्दश्चरुश्चापि यवनारिप्रमर्दनः ॥ ७३ ॥यज्ञनेमिर्लोहिताक्ष एकपाद्द्विपदः कपिः ।एकशृङ्गो यमकील आसन्दः शिवकीर्तनः ॥ ७४ ॥शद्रुर्वंशः श्रीवराहः सदायोगी सुयामुनः ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 य (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 सि (wrong syllable)nearly अनुष्टुप्: pāda 3, syllable 6 म (wrong syllable)
तीर्थपादपुंपुण्यश्लोकपुंवलिंदमपुंउरुक्रमपुंउरुगायपुंतमोघ्नपुंश्रवणपुंउदारथिपुंलतापर्णपुंसमुद्रपुंपांसुजालिकपुंचतुर्व्यूहपुंनवव्यूहपुंनवशक्तिपुंप्रगण्डजित्पुंद्वादशमूलपुंशतकपुंदशावतारपुंएकदृश्पुंहिरण्यकेशपुंसोमपुंअहिपुंत्रिधामन्पुंत्रिककुद्पुंत्रिपाद्पुंमानंजरपुंपराविद्धपुंपृश्निगर्भपुंअपराजितपुंहिरण्यनाभपुंश्रीगर्भपुंवृषोत्साहपुंसहस्रजित्पुंऊर्ध्वकर्मन्पुंयज्ञधरपुंधर्मनेमिपुंअसंयुतपुंपुरुषपुंयोगनिद्रालुपुंखण्डास्यपुंशलकपुंअजितपुंकालकुण्ठपुंवरारोहपुंश्रीकरपुंवायुवाहनपुंवर्धमानपुंचतुर्दंष्ट्रपुंनृसिंहवपुस्पुंअव्ययपुंकपिलपुंभद्रकपिलपुंसुषेणपुंसमितिंजयपुंक्रतुधामन्पुंवासुभद्रपुंबहुरूपपुंमहाक्रमपुंविधातृपुंआधारपुंएकाङ्गपुंवृषाक्षपुंसुवृषपुंअक्षजपुंरन्तिदेवपुंसिन्धुवृषपुंजितमन्युपुंवृकोदरपुंबहुशृङ्गपुंरत्नबाहुपुंपुष्पहासपुंमहातपस्पुंलोकनाभपुंसूक्ष्मनाभपुंधर्मनाभपुंपराक्रमपुंपद्महासपुंमहाहंसपुंपद्मगर्भपुंसुरोत्तमपुंशतवीरपुंमहामायपुंब्रह्मनाभपुंसरीसृपपुंवृन्दाङ्कपुंअधोमुखपुंधन्विन्पुंसुधन्वन्पुंविश्वभुज्पुंस्थिरपुंशतानन्दपुंचरुपुंयवनारिप्रमर्दनपुंयज्ञनेमिपुंलोहिताक्षपुंएकपाद्पुंद्विपदपुंकपिपुंएकशृङ्गपुंयमकीलपुंआसन्दपुंशिवकीर्तनपुंशद्रुपुंवंशपुंश्रीवराहपुंसदायोगिन्पुंसुयामुनपुं
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.370 · p. 43
अलङ्कर्मीण इत्युक्तः कर्मशीलस्तु यः पुमान् ।उत्तालस्त्वरितो ज्ञेयो विश्रब्धः स्थिर उच्यते ॥ ३७० ॥
अनुष्टुप्
genderविadj.
गणितनाममाला Gaṇitanāmamālā · हरदत्त चरस्थिरद्विस्वभावसंज्ञा Gaṇitanāmamālā 25.107 · p. 6
कुंभालिवृषसिंहाश्च कीर्त्तिता स्थिरराशयः ।चापयुग्मझषा प्रोक्ता कन्या च द्विस्वभावका ॥ १०७ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.5 · p. 8
मनोवेगः सत्रभुजः परान्नप्राशनाः स्थिराः ।ब्रह्मा विधाता विश्वात्मा पद्मभूः पुरुषोत्तमः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.42 · p. 218
व्युत्पन्नः संस्कृतः क्षुण्णः प्रहतोऽथ स्थिरोऽपि च ।नीलीरागो विश्रथः स्यात् स्थिरसौहृद इत्यपि ॥ ४२ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.12 · p. 249
वह्निपर्यायजन्मार्थो जन्तुरारोहकस्तरुः ।कारस्कर उरुर्द्वीपः पादपो विष्टर स्थिरः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पर्वतादिप्रकाण्डः Kalpadrukośa 1.13.2 · p. 341
कटक्यहार्यः शिखरी नगो दन्ती शिलोच्चयः ।ऐरावतोऽगो भाकूटः कुट्टारो दर्दुरः स्थिरः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.109 · p. 38
मेषः कर्कटकस्तुला च मकरश्चत्वार एते चलाःगौः सिंहो [25b]लिघटौ स्थिराश्च मिथुनं कन्या धनुर्मीनकाः ।एते स्युर्विनिसर्गका अथ पुमानोको हि राशिस्थलंसंक्रान्तिर्भवति स्त्रियां रविगता चेदस्त्रियां संक्रमः ॥ १०९ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.15 · p. 135
फलदो भूरुहो भूजस्तरु-जर्ण-पलाशिनः ।सालः स्थिरः पुलाकी च रुह्वानोकह-पादपौ ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.88 · p. 151
गोधनः कट्फलोऽथ स्यादारीः खदिरवल्लरी ।धवो दृढः स्थिरो गौरः शाकटाक्षो भरोद्वहः ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.285 · p. 23
तिरोहितं गूहितं च रुद्धमाच्छादितं च तत् ।अवकी[लित?]मुत्तालमुच्चण्डमवलम्बितम् ।अनश्वरं तु शाश्वतं सनातनं सदातनंध्रुवं च नित्यमक्षयं स्थिरं त्वकम्पमुच्यते ॥
अनुष्टुप्two metres in one verse
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.341 · p. 94
नित्यं त्वनश्वर स्थेयः स्थिरे स्थेष्ठमतिस्थिरम् ।स्थास्नु[52] कूटस्थमित्येवं सर्वकालैकरूपगम् ॥ ३४१ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.42 · p. 7
तत्खड्गे नन्दकः प्रोक्तस्तद्दण्डे निवृतिः स्मृता ।तत्पादुके सुखासीनौ तत्पीठं सुखदं स्थिरम् ॥ ४२ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.111 · p. 17
छायासुतोऽसितो मन्दः क्रूरात्मा च यम स्थिरः ।पङ्गुः क्रोडस्तथा कालः नीलवासा महाग्रहः ॥ १११ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.286 · p. 38
हरिः सौरिः हृषीकेशः शौरिः सोमः स्वभूः स्थिरः ।पुनर्वसुः शतावर्तः शद्रुर्वंशः सुयामुनः ॥ २८६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.7 · p. 2
अमरा स्वर्गिनः शौभा निलिम्पाः सुचिरायुषः ।आदित्या आदितेयाः स्युः स्थिरा अदितिनन्दनाः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.104 · p. 8
स्कन्दो विशाखः सेनानीः स्वामी द्वादशलोचनः ।कृकवाकुध्वजः शक्तिधरः षाण्मातुरः स्थिरः ।शरजन्मा महाबाहुर्युद्धरङ्गः शिखिध्वजः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शैलवर्गप्रकाशः Śabdaratnāvalī 3.3.2 · p. 55
कुट्टारोऽचलः जीमूतो धातुभृद्भूधरः स्थिरः ।कुटीलः कुटकी शृङ्गी निर्झरी च शिलोच्चयः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 लः (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.9 · p. 57
स्थिरः कारस्करः सालः नगोऽगः स्यादनोकहः ।अगमो द्रुः कुचारुश्च स्यात् कुचोरुक्ष इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.964 · p. 121
सर्वस्वभूतः पञ्चेषोः शृङ्गारः शुचिरुज्वलः ।स्निग्धं निष्पन्दमन्दस्तिमितविहसितन्यञ्चिताकुञ्चितानिस्मेरानन्दिप्रसन्नस्थिरमसृणमहीत्यश्रुविष्फारितानि ।प्रेङ्खोलोल्लासिलोलप्रणयिविलुलितप्रेमगर्भत्रिभङ्गि-व्यासङ्गिस्फीतकान्तीन्यलसमदनकह्लादिरूक्षाञ्चितानि ॥ ९६४ ॥
अनुष्टुप्two metres in one verse
genderविadj.
तन्त्राभिधान Tantrābhidhāna · अज्ञात अ Tantrābhidhāna 2.2.8 · p. 5
विश्वेशः श्रीविष्णुकण्ठौ प्रतिपत्तिः स्थिरं शिनी ।अर्कमण्डलवर्णाद्यौ ब्राह्मणः कामकर्षिणी ॥ ८ ॥
अनुष्टुप्
genderक्लीneut.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.26 · p. 37
स्थिरो जयन्तो जयजः शूली च चतुराननः ।मणिबन्धगतो वामो ज-कारो जप(न)को मतः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.35 · p. 38
दण्डीशो वरदः कृष्णो वामजानुगतः स्थिरः ।सौरिश्चापि विशालाक्षी थ-कारः परिकीर्त्तितः ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वनौषधिवर्गः Trikāṇḍaśeṣa 2.4.2 · p. 36
वृक्षः कारस्करो गच्छः पलाशो विष्टरः स्थिरः ।चैत्यो देवतरुर्देवावासे करिभकुञ्जरौ ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.36 · p. 20
श्रुतकर्मा नीलवासा वक्रः कोलः स्थिरः शनिः ।स्वर्भानुर्ग्रहकल्लोलः सैंहिकेयो विधुन्तुदः ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास रार्धश्लोकः Dharaṇikośa 26.2.3 · p. 165
तरिः स्यान्नावि भाण्डे च दीपादिस्थितिहेतुके ।स्थिरा भूः सालपर्णी च स्थिरौ कठिननिश्चलौ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.78 · p. 314
स्थिरा तु मह्यामपि शालपर्ण्यांस्थिर[51a]स्तु मोक्षे त्रिषु निश्चले स्यात् ।धारा तु सैन्याग्रिमभागवाजि-गतिप्रभेदद्रववस्तुपाते ॥ ७८ ॥
उपजातिःmetre not read in every linenearly उपजातिः: pāda 2, syllable 2 र (wrong syllable)
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1510 · p. 171
स्थिरं त्रिर्निश्चले ना तु शनौ स्त्री तु स्थिरा भुवि ।सालपर्ण्याख्यभैषज्येऽप्यथ स्थित इति त्रिषु ॥ १५१० ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र रद्विः Śivakoṣa 22.2.391 · p. 36
स्थिरा कलश्यंशुमत्योः सूर्यपर्णीद्वयेऽपि च ।धवे तु पुंसि हिंस्रा तु काकादन्यां चिरायुषि ॥ ३९१ ॥
अनुष्टुप्
meaningsधव

स्थिर as a meaning in nānārtha verses

  • धरणिकोश स्थाणुस्थाणुः शिवे [स्थि]रे कीले वृष्णिर्यादवमेषयोः । रणः स्यात्संयुगे क्काणे शाणः कषमाषचतुष्कयोः ॥ Dharaṇikośa 14.1.4
  • धरणिकोश अनुत्तरचराचरं जगदिदं गगने गतिमत्यपि । अनुत्तरः स्थिरेऽनूर्ध्वे श्रेष्ठेऽवाच्योऽप्यनुत्तरः ॥ Dharaṇikośa 26.2.70
  • कोषकल्पतरु अच्युत[291b]पुंस्यच्युतः शार्ङ्गिणि भेद्यलिङ्गः स्थिरेऽर्दितं त्वीरणरोगभेदे । त्रयेऽर्थिते हिंसितकेऽथ न स्त्री स्यादक्षतं भूम्नि तु लाजवाचि ॥ ७१ ॥ Koṣakalpataru 6.16.71
  • कोषकल्पतरु आहार्यअक्षय्ये द्रविणे च रेतसि मितेर्भेदेऽप्यकुप्ये तथा स्वर्णे चापि वराटके निगदितं न स्त्री हिरण्यं बुधैः । सौकर्यं तु वराहकर्मणि तथानायासपर्यायके ऽथाहार्यः स्थिरशैलयोर्निगदितः, श्याले पुनर्देवरे ॥ ७० ॥ Koṣakalpataru 6.26.70
  • कोषकल्पतरु ध्रुवमूर्वासु चान्त्ये * सुनिश्चितोहे स्थिरे तथा शाश्वतिकेऽन्यलिङ्गः । स्रुवा तु मूर्वागजभ[76b]क्ष्ययोः स्या- त्स्रुगन्तरे पुंसि भवेत्स्त्रियां च ॥ ९४ ॥ Koṣakalpataru 6.29.94
  • शब्दरत्नावली कूटकूटोऽस्त्रियां स्थिरे राशौ दम्भे च लोहमुद्गरे । मायायां गिरिशृङ्गेऽपि सीराङ्गेऽनृतयन्त्रयोः ॥ Śabdaratnāvalī 7.11.8
  • शब्दरत्नावली अच्युतअजितः केशवे पुंसि त्रिषु च स्यादनिर्जिते । अच्युतः पुंसि गोविन्दे वाच्यलिङ्गे स्थिरेऽपि च ॥ Śabdaratnāvalī 7.16.73
  • त्रिकाण्डशेष समर्यादस्त्रियां च शारदी तोयपिप्पलीसप्तपर्णयोः । संवित्सङ्केतकेऽपि स्यात्समर्यादोन्तिके स्थिरे ॥ २१२ ॥ Trikāṇḍaśeṣa 3.3.212