कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कादम्बिनी

kādambinīस्त्री · fem.

In 11 kośas: 11 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.86 · p. 10
कादम्बिनी मेघमाला दुर्दिनं मेघजं तमः ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.7
कादम्बिनी मेघमाला त्रिषु मेघभवेऽभ्रियम् ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.59 · p. 8
धारासम्पात आसारो वातास्तं वारिसीकरः ।दुर्दिनं मेघतिमिरं करकः स्याद्घनोपलः ।चलन्नवाभ्रमाला च बुधैः कादम्बिनी स्मृता ॥ ५९ ॥
अनुष्टुप्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर तृतीयोपदेशः Bālaprabodhikā 3.53 · p. 70
धूमज्योतिस्वरूपश्च पुष्पवान् सर्वतोमुखः ।कादम्बिनी मेघमाला काली कृष्णनवाम्बुदः ॥ ५३ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.160 · p. 397
मेघास्थि वर्षणं तु स्याद्गोघृतं च परामृतम् ।कादम्बिनी मेघमाला सर्वं मेघभवं त्रिषु ॥ १६० ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.8 · p. 26
घनाघनो वर्षुकोऽसावुदमेघोऽथ[?] मेघ्यं मेघभवे ।कादम्बिनी मेघमाला स्यात्काली कालिका च सा ॥ ८ ॥
metre not recognised
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.157 · p. 24
मेघानां तु या राजी कादम्बिन्यपि दृश्यते ।दुर्दिनं वार्दलं वृष्टौ वर्षया सह ॥ १५७ ॥
metre not recognised
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.79 · p. 11
कादम्बिनी कालिका च मेघपङ्क्तावथाशनिः ।ह्रादिनी विहृता शम्पा स्फूर्जथुः स्फुरिताक्षिभित् ॥ ७९ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.168 · p. 23
व्योमधूमस्तथा धूमयोनिश्च वारिवाहनः ।कादम्बिनी कालिका वै मेघमाला निगद्यते ॥ १६८ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.181 · p. 13
कादम्बिनी च काली च मेघमाला च कालिका ।मेघस्योपरि यो मेघः स ऐरावत उच्यते ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मेघाध्यायः Śabdaratnākara 1.6.215 · p. 29
कादम्बिनी कालिका स्याद् घनज्योतिरिरंमदः ।त्रिषु मेघभवं मेघ्यं त्रिष्वभ्रभवमभ्रियम् ॥ २१५ ॥
अनुष्टुप्
genderस्त्रीfem.