कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnāvalī

शब्दरत्नावली Śabdaratnāvalī

4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)

स्वरादिकाण्डः · स्वर्गवर्गप्रकाशः (2/5)

सुमेरौ मेरुहेमाद्रि-रत्नसानु-सुरालयाः ।पारिजातश्च मन्दारः सन्तानः कल्पवृक्षकः ॥
2.1.121 · p. 9
अनुष्टुप्
हरिचन्दनमस्त्री स्यात् पञ्च देवमहीरुहाः ।एतेषां कल्पवृक्षत्वं पञ्चासी बहुसम्मतम् ॥
2.1.122 · p. 9
अनुष्टुप्
वैधात्रो धातृपुत्रः स्यात् सनत्कुमार इत्यपि ।स्वर्वैद्यावश्विनौ दस्रौ नासत्यौ पुष्करस्रजौ ॥
2.1.123 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्कु (wrong syllable)
आश्विनेयौ च नासिक्यौ तावुभावश्विनीसुतौ ।स्वर्वेश्या उर्वशी रम्भा मेनका च तिलोत्तमा ॥
2.1.124 · p. 9
अनुष्टुप्
स्पर्शा नन्दा रतिमदा सुखदा मदनोत्सवा ।इत्याद्या बहवस्ताश्च बहुष्वप्सरसः स्त्रियाम् ॥
2.1.125 · p. 9
अनुष्टुप्
अप्सरेत्यपि केषाञ्चिन्मतं न बहुसम्मतम् ।हाहा-हूहूप्रभृतयो गन्धर्वा दिव्यगायनाः ।हाहा हाहाश्चासन्तन्तु त्रिविधा बहुसम्मताः ॥
2.1.126 · p. 9
अनुष्टुप्metre not read in every line
हूहूर्हुहुश्च द्विविधो हूहुहुहूश्च कुत्रचित् ।हाहाहूहूश्चित्ररथो वाह्लीकः पुष्पदन्तकः ॥
2.1.127 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 हु (wrong syllable)
इत्येवमादिगन्धर्वो गान्धर्वोऽपि निगद्यते ।अग्निर्वायुरथो वह्निः कृष्णवर्त्मा विभावसुः ॥
2.1.128 · p. 9
अनुष्टुप्
शोचिष्केशो बृहद्भानुः सप्तजिह्वो हुताशनः ।आश्रयाशश्चित्रभानुर्विश्वप्सा हव्यवाहनः ॥
2.1.129 · p. 10
अनुष्टुप्
धूमध्वजो धूमकेतुः सप्तार्चिर्धूमकेतनः ।बहुलो बाहुलः शुक्रः पिङ्गलो मन्त्रदीधितिः ॥
2.1.130 · p. 10
अनुष्टुप्
हवनायुर्जुहूवानः स्यात् शिखावानिशिवः शुचिः ।बर्हिःशुष्मा बर्हिःशुष्मा वीतिहोत्रो धनञ्जयः ॥
2.1.131 · p. 10
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 ब (wrong syllable)
उदर्चिरपि सप्तार्चिः पावनः पावकोऽनलः ।हिरण्यरेताः हव्याशो हुताशो हुतभुक् शिखी ॥
2.1.132 · p. 10
अनुष्टुप्
कृपीटयोनिर्दहनो धनदायी प्रभाकरः ।जलपित्तमपांपित्तमप्पित्तमाशुशुक्षणिः ॥
2.1.133 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्त (wrong syllable)
दमुना दमूना ज्योतिर्ज्वलनश्च्छागवाहनः ।अग्निहोत्रो नाचिकेतुर्वर्द्धनिः स्याद्विभाकरः ॥
2.1.134 · p. 10
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 मू (wrong syllable)
उषर्बुधश्च धनदो वसुप्राणस्तनूनपात् ।स्याद्वाडवाग्निः कर्ककश्च पातालवडवामुखः ॥
2.1.135 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वडवानल ऊर्वः स्यात् सलिलेन्धन इत्यपि ।दवाग्निरपि दावाग्निर्दावानल इतीरितः ॥
2.1.136 · p. 10
अनुष्टुप्
त्रिषु स्फुलिङ्गोऽग्निकणे तापे संतापसंज्वरौ ।ज्वालायाञ्च द्वयोर्ज्वालकीलौ तस्य शिखास्वपि ॥
2.1.137 · p. 10
अनुष्टुप्
अर्चिर्हेतिः शिखा स्त्री स्यादथोल्का झिङ्गिनीति च ।धूमो भस्तो मरुद्वाहः कचमालः शिखिध्वजः ॥
2.1.138 · p. 10
अनुष्टुप्
खतमालो मेघयोनिर्घननाभिर्नभोलयः ।अथ वह्निवधूः स्वाहा अग्नायी हुतभुक्प्रिया ॥
2.1.139 · p. 10
अनुष्टुप्
यमः पितृपतिर्धर्मो धर्मराजश्च धर्मराट् ।जीवितेशः श्राद्धदेवः कृतान्तो महिषध्वजः ॥
2.1.140 · p. 10
अनुष्टुप्
औडुम्बरो दण्डधरो दण्डधारः परेतराट् ।कीलाशो यमुनाभ्राता दध्नो महिषवाहनः ॥
2.1.141 · p. 10
अनुष्टुप्
समवर्ती शीर्णपादः शमनो भीमनाशनः ।कालोऽन्तकोऽपि यमराट् कङ्को वैवस्वतो हरिः ॥
2.1.142 · p. 10
अनुष्टुप्
धूमोर्णा यमपत्नी स्यात् चित्रगुप्तश्च लेखकः ।अथ चण्ड-महाचण्डौ यमानुचरकिङ्करौ ॥
2.1.143 · p. 10
अनुष्टुप्
पुरी संयमनी तस्य कणीची च सभा मता ।पञ्जिकास्याप्रसन्धानी नदी वैतरणी पुरः ॥
2.1.144 · p. 11
अनुष्टुप्
राक्षसः कर्बुरः क्रव्यात् क्रव्यादो निकषात्मजः ।सन्ध्याबलः पुण्यजनः क्षपाटो रजनीचरः ॥
2.1.145 · p. 11
अनुष्टुप्
कीलालपो घातुधानो नृचक्षा आशरोऽस्रपः ।नक्तञ्चरो रात्रिचरो रात्रिञ्चर-पलाशिनौ ॥
2.1.146 · p. 11
अनुष्टुप्
पलाशः कर्वुरो यातुरक्षसी भूतनैऋतौ ।वरुणो जम्बुकः पाशी मेघनादो जलेश्वरः ॥
2.1.147 · p. 11
अनुष्टुप्
परञ्जयो दैत्यदेवः प्रचेता यादसांपतिः ।अप्पतिर्जीवनावासो नन्दपालश्च वः स्मृतः ॥
2.1.148 · p. 11
अनुष्टुप्
वायुर्गन्धवहो गन्धवाहः स्पर्शनमारुतौ ।जगत्प्राणोऽजगत्प्राणः प्रभञ्जनसमीरणौ ॥
2.1.149 · p. 11
अनुष्टुप्
पृषदश्वो मातरिश्वा समीरः पवनानिलौ ।खश्वास आशुगो बाहो धूलिध्वजः फणिप्रियः ।मरुत्वातिर्नभः प्राणो भोगिकान्तः सदागतिः ॥
2.1.150 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 4, syllable 3 ध्व (wrong syllable)
नभस्वान् श्वसनो वातः पवमानः स्वकम्पकः ।अक्षतिः कम्पलक्ष्मा च श्वसी निश्वावको हरिः ॥
2.1.151 · p. 11
अनुष्टुप्
हृदि प्राणो गुदेऽपानः समानो नाभिदेशके ।उदानः कण्ठदेशे स्याद् व्यानः सर्वशरीरगः ॥
2.1.152 · p. 11
अनुष्टुप्
एते पञ्च शरीरस्था वायवः परिकीर्तिताः ।वेगः स्यदो जवो रंहस्तरसी रय इत्यपि ॥
2.1.153 · p. 11
अनुष्टुप्
शीघ्रं तूर्णं द्रुतं क्षिप्रं चपलं लघु सत्वरम् ।अरं त्वरितमाशु स्यादविलम्बितमित्यपि ॥
2.1.154 · p. 11
अनुष्टुप्
अव्ययः सप्त चैवान्ये शब्दाः स्युः शीघ्रवाचकाः ।अञ्जसाऽह्णाय झटिति मङ्क्षु स्राक् द्राक् सपद्यपि ॥
2.1.155 · p. 11
अनुष्टुप्
सततं सन्तताश्रान्तं नित्यानवरतानिशम् ।अनारतञ्चाविरतमजस्रं नित्यमित्यपि ॥
2.1.156 · p. 11
अनुष्टुप्
अतिवेलं भृशं गाठं प्रगाढं सुदृढं दृढम् ।उद्गाढं वाढमत्यर्थं सुभृशं भृशमित्यपि ॥
2.1.157 · p. 11
अनुष्टुप्
तीव्रं निर्भरमेकान्तं नितान्तमतिशायनम् ।भरश्चातिशयो वाढं भृशं स्यान्मान्तरमव्ययम् ॥
2.1.158 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
क्लीबे शीघ्रादयोऽसत्त्वे त्रिष्वेते सत्त्वगामिनः ।कुवेरो यक्षराजः स्यात् पौलस्त्यो गुह्यकेश्वरः ॥
2.1.159 · p. 12
अनुष्टुप्
राजराजः किन्नरेशः स्त्रिशिरा नरवाहनः ।मनुष्यधर्मा सौरभ्यः श्रीदः पुण्यजनेश्वरः ॥
2.1.160 · p. 12
अनुष्टुप्
एकलिङ्गो रत्नगर्भो धनकेलिर्धनाधिपः ।निधिनाथो वैश्रवणो यक्षराट् सत्यसङ्गरः ॥
2.1.161 · p. 12
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 वै (wrong syllable)
अलकाधिपतिर्यस्कः श्वेतोदरो धनेश्वरः ।धनदस्त्र्याम्बकसखो मयुराज-पिशाचिनौ ॥
2.1.162 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
कुवेरपत्नी यक्षी स्याद् यक्षिणीत्यपि सा मता ।नलकूवर-मणिग्रीवौ कुवेरतनयावुभौ ॥
2.1.163 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वसतिस्तस्य कैलासः पुरी स्यादलकप्रभा ।अलका च विमाणोऽस्य पुष्यकं रत्नवर्षुकम् ॥
2.1.164 · p. 12
अनुष्टुप्
किन्नरः स्यात् किंपुरुषो मयुरश्वमुखोऽपि च ।तुरङ्गवदनो गीतमोदी हरिणनर्तकः ॥
2.1.165 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 किं (wrong syllable)
शेवधिर्ना निधिः पुंसि निधानन्तु नपुंसकम् ।पद्म-शङ्खौ महापद्म-मकरौ खर्व-कच्छपौ ॥
2.1.166 · p. 12
अनुष्टुप्
नीलो मुकुन्द-नन्दौ च निधिभेदा अमी नव ।अन्तरीक्षमन्तरिक्षमभ्रं गगणमम्बरम् ॥
2.1.167 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क्ष (wrong syllable)
सुरवर्त्म मरुद्वर्त्म मेघवर्त्म वियन्नभः ।द्वे स्त्रियौ द्यो-दिवौ वा तु पुंस्याकाश-विहायसी ॥
2.1.168 · p. 12
अनुष्टुप्
नाक-विष्णुपद-व्योम-नभं पुस्करमक्षरम् ।विहायसमनङ्गञ्च खमनन्तत्रिपिष्टपम् ॥
2.1.169 · p. 12
अनुष्टुप्
दिक् दिशा स्यात् ककुप् काष्ठा ककुभा हरिता हरित् ।आशा गौरिति शब्दाः स्युः स्त्रियां दिग्वाचका अमी ॥
2.1.170 · p. 12
अनुष्टुप्
दिग्भवं सर्वमेव स्यात् दिथ्यं त्रिषु निगद्यते ।महेन्द्रोऽग्निर्धर्मराजो निर्ऋतिर्वरुणोऽनिलः ॥
2.1.171 · p. 12
अनुष्टुप्
धनेश ईशः पूर्वादिक्रमादष्टौ दिगीश्वराः ।ऐरावत-पुण्डरीक-वामन-कुमुदाञ्जनाः ॥
2.1.172 · p. 12
अनुष्टुप्metre not read in every line
पुष्पदन्त-सार्वभौम-सुप्रतीकास्त्वेते दिक्करिणो मताः ।करिण्यभ्रमु-कपिला-पिङ्गलाऽनुपमाः क्रमात् ॥
2.1.173 · p. 13
metre not recognised
ताम्रकर्णी-शुभ्रदन्ती चाङ्गना चाञ्जनावती ।मध्येदिशो रूपदिशं विदिशञ्च विदिक् स्त्रियाम् ॥
2.1.174 · p. 13
अनुष्टुप्
अभ्यन्तरञ्च सर्वासामन्तरालं तदुच्यते ।दिङ्मण्डलं चक्रवाडं चक्रवालमपीष्यते ॥
2.1.175 · p. 13
अनुष्टुप्
अब्जमभ्रं वारिवाहो घनो मेघः पयोधरः ।अम्भोधरो व्योमधूमो धूमयोनिर्घनाघनः ॥
2.1.176 · p. 13
अनुष्टुप्
धाराधरो वायुदारुः स्तनयित्नुर्नभश्चरः ।मुदिरः कन्दरः कन्द्यो नीरदो गगणध्वजः ॥
2.1.177 · p. 13
अनुष्टुप्
जलमुक् वारिमुक् वार्मुक् वनमुक् वारिदोऽम्बुभृत् ।अब्दस्तडित्वान् जीमूतः पर्जन्यः स्यान्नभोगजः ॥
2.1.178 · p. 13
अनुष्टुप्
मदयित्नुः कदः कन्दो गवेडुश्च गदामरः ।खतमालो वातरथः श्वेतनीलो बलाहकः ॥
2.1.179 · p. 13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
नागो जलकरङ्कः स्यात् पेचको भेक इत्यपि ।दर्दुरो मेघनामेति क्वचित् केचित् प्रचक्षते ॥
2.1.180 · p. 13
अनुष्टुप्
कादम्बिनी च काली च मेघमाला च कालिका ।मेघस्योपरि यो मेघः स ऐरावत उच्यते ॥
2.1.181 · p. 13
अनुष्टुप्
मेघशब्दे तु रसितं स्तनितं गर्जितादि च ।विद्युत् क्षणप्रभा शम्पा चपला चञ्चला तडित् ॥
2.1.182 · p. 13
अनुष्टुप्
सौदामन्यपि सौदाम्नी वीपा स्यात् चिलमीलिका ।सर्जुः शतह्रदा ह्रादिन्यैरावत्यचिरप्रभा ॥
2.1.183 · p. 13
अनुष्टुप्
सौदामिन्यस्थिरा मेघप्रभा चाशनिरित्यपि ।स्फुर्जथुर्वज्रनिष्पेषो वज्रशब्दे भवेद्द्वयम् ॥
2.1.184 · p. 13
अनुष्टुप्
मेघदीप्तौ घनज्वालो मेघज्योतिरिरम्मदः ।इन्द्रायुधं शक्रधनुः कौशिकायुधमित्यपि ॥
2.1.185 · p. 13
अनुष्टुप्
ऐरावतं रौहितं स्यादवक्रं यदि तद्धनुः ।वृष्टिर्वर्षं वर्षणञ्च गोघृतञ्च परामृतम् ॥
2.1.186 · p. 13
अनुष्टुप्
अथ वृष्टिविघातेऽवग्राहोऽवग्रह इत्यपि ।वृष्टिधाराभिसम्पात आसारः परिकीर्तितः ।धारासम्पात आशारस्त्रितयञ्चापि कुत्रचित् ॥
2.1.187 · p. 13
अनुष्टुप्
शीकराः शीभरास्ते स्युः सृताश्चाम्बुकणास्तु ये ।वीजोदकं घनकफो मेघास्थीराचरंकरः ॥
2.1.188 · p. 14
अनुष्टुप्
करकः करका चेति सप्तवृष्टिशिलाह्वये ।मेघच्छन्नदिनं यत्तु दुदिनं वार्दलञ्च तत् ।आच्छादनञ्च च्छदनमन्तर्धानं पिधानवत् ॥
2.1.189 · p. 14
अनुष्टुप्
अन्तर्धिर्व्यवधिः पुंसि त्वन्तर्धा व्यवधा स्त्रियाम् ।अपिधानं तिरोधानं च्छादनं चापवारणम् ॥
2.1.190 · p. 14
अनुष्टुप्
चन्द्रो हिमांशुः शुभ्रांशुः सुधांशुर्मृगलाञ्छनः ।मृगाङ्कश्चन्द्रमा इन्दुरब्जः कुमुदबान्धवः ॥
2.1.191 · p. 14
अनुष्टुप्
ओषधीशो दर्शविपत् तारापीडः कलानिधिः ।विधुर्जैवातृको राजा ग्लौः शशाङ्को निशापतिः ॥
2.1.192 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)
च्छायामृगधरः सोमो ग्रहनेमिस्तिथिप्रणीः ॥
2.1.193 · p. 14
दाक्षायणीपतिर्लक्ष्मीसहजो रजनीकरः ।सुधाकरः सुधाधारः शीतभानुस्तमोहरः ॥
2.1.194 · p. 14
अनुष्टुप्
नक्षत्रेशो रोहिणीशस्तुषारकिरणो हरिः ।हिमद्युतिर्द्विजपतिर्विश्वप्साऽमृतदीधितिः ॥
2.1.195 · p. 14
अनुष्टुप्
हरिणाङ्कः शशधरो दशाश्वो रोहिणीपतिः ।हरचूडामणिः सिन्धुनन्दनः श्वेतवाहनः ॥
2.1.196 · p. 14
अनुष्टुप्
तमोनुदेसातिलकः कुमुदेशः क्षपाकरः ।क्षीरोदनन्दनः कान्तः कलावान् यामिनीपतिः ॥
2.1.197 · p. 14
अनुष्टुप्
उडुपश्चन्दिरः सिप्रो मृगपिप्लुः सुधानिधिः ।तुङ्गीशो माः पक्षजन्मा चन्दोऽब्धि-नवनीतकः ॥
2.1.198 · p. 14
अनुष्टुप्
स्यात् पीयूषमहाः शीतमरीचिरपि शीतलः ।कौमुदी चन्द्रिका ज्योत्स्ना चन्द्रज्योत्स्ना निगद्यते ॥
2.1.199 · p. 14
अनुष्टुप्
प्रसन्नता प्रसादस्तु प्रसन्नर्धे (?) हि सर्वतः ।लाञ्छनं लक्ष्मणं लक्ष्म चिह्णं लक्षणमित्यपि ॥
2.1.200 · p. 14
अनुष्टुप्
कलङ्काङ्कौ कलङ्कस्य पर्यायः समुदाहृतः ।अथ सर्वोत्तमा शोभा सुषमा परिकीर्तिता ।शोभा शुभा द्युतिः कान्तिश्च्छविर्दीप्तिश्च भा द्वयोः ॥
2.1.201 · p. 14
अनुष्टुप्
श्रीर्भासाभाश्च सान्तोऽयमादन्तोऽपि च कुत्रचित् ।निहारोऽपि च नीहारः प्रालेयं तुहिनं हिमम् ।अवश्यायस्तुषारः स्यान्मिहिका महिकापि च ॥
2.1.202 · p. 15
अनुष्टुप्
अवश्या धूममहिषी नभोरेणुश्च धूमिका ।स्यात् कुज्झटिः कुज्झटिका कुज्झटी च कुहेलिका ॥
2.1.203 · p. 15
अनुष्टुप्
द्रुहा इति समाख्यातः पर्यायो हिमभेदके ।महद्धिमं हिमानी तु हिमसंहतिरित्यपि ॥
2.1.204 · p. 15
अनुष्टुप्
शीतं गुणे तद्वदर्थाः सन्त्येते वाच्यलिङ्गकाः ।सुषीमः शीतलः शीतस्तुषारः शिशिरो हिमम् ॥
2.1.205 · p. 15
अनुष्टुप्
जड इत्येष पर्यायः शीतलस्य निगद्यते ।अथ ध्रुवो ग्रहाधार औत्तानपादिरित्यपि ॥
2.1.206 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
अगस्त्यः कुटजोऽगस्तिराकालः कुम्भसम्भवः ।स्यान्मैत्रावरुणिर्मैत्रावरुणः कलसीसुतः ॥
2.1.207 · p. 15
अनुष्टुप्
समुद्रचुलुको विन्ध्यकूटो वातापिसूदनः ।और्वशीयश्च सर्वाग्निर्दीप्ताग्निराग्निमारुतिः ॥
2.1.208 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग्नि (wrong syllable)
लोपमुद्रा च वैदर्भी लोपामुद्रास्य भाविनी ।कौशीतकी तरणिकात्रमित्यपि (?) च कुत्रचित् ॥
2.1.209 · p. 15
अनुष्टुप्
तारकं तारका तारा नक्षत्रमुडु वा स्त्रियाम् ।भमृक्षं ज्योतिधिष्ण्यञ्च तारमित्यपि कुत्रचित् ॥
2.1.210 · p. 15
अनुष्टुप्
अश्विन्यादिकताराः स्युर्दाक्षायण्य इतीरिताः ।अश्विनी अश्वयुक् ख्याता भरणी भरणिस्तथा ॥
2.1.211 · p. 15
अनुष्टुप्
कृत्तिका कृत्तिरप्युक्ता रोहिणी चापि रोहिणिः ।राधा विशाखा विज्ञेया पुष्यायां पुष्य इत्यपि ।सिध्यस्तिर्ष्याऽपि च भवेत् श्रवणा श्रवणं श्रुतिः ॥
2.1.212 · p. 15
अनुष्टुप्
श्रविष्ठा च धनिष्ठासु धनिष्ठायामपीरिता ।अथ शतभिषायाञ्च ज्ञेया शतभिषग्बुधैः ॥
2.1.213 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 श (wrong syllable)
आषाढोऽपि तथाषाढा स्यात् पूर्वोत्तरयोरपि ।स्त्रियः प्रोष्ठपदा भद्रपदा भाद्रपदा त्रये ॥
2.1.214 · p. 15
अनुष्टुप्
मृगशीर्षं मृगशिरस्तथा मृगशिरापि च ।मृगशीर्षशिरोदेशे तारकाया वसन्ति हि ॥
2.1.215 · p. 16
अनुष्टुप्
इल्वला इल्वकास्तास्युरिल्वुला इति कुत्रचित् ।बृहस्पतिः सुरगुरुः जीवश्चित्रशिखण्डिजः ॥
2.1.216 · p. 16
अनुष्टुप्
वाचस्पतिः सुराचार्यो वाक्पतिर्वचसाम्पतिः ।उतथ्यानुज इन्द्रेज्यो देवेज्यो बृहतीपतिः ॥
2.1.217 · p. 16
अनुष्टुप्
गिरीश इज्यो वागीशश्चक्षा आङ्गिरसो गुरुः ।दीदिविर्द्वाशकरः प्राक् फाल्गुणश्च गीरथः ॥
2.1.218 · p. 16
अनुष्टुप्metre not read in every line
शुक्रः सितो दैत्यगुरुः कविर्भार्गव आस्फुजित् ।उशना शतपर्वेशः काव्यो भृगुसुतो भृगुः ॥
2.1.219 · p. 16
अनुष्टुप्
षोडशार्चिर्मघाभूश्च श्वेतः श्वेतरथोऽपि च ।मङ्गलोऽङ्गारको भौमः कुजो बक्रः महीसुतः ॥
2.1.220 · p. 16
अनुष्टुप्
वर्षार्चिर्लोहिताङ्गश्च खोन्मुखः स्यादृणान्तकः ।बुधः सौम्यो रौहिणेयो राजपुत्रः प्रहर्षणः ॥
2.1.221 · p. 16
अनुष्टुप्
स्यादिन्दुपुत्रः पत्राग्निरेकाङ्गोज्ञश्च बोधनः ।शनिः शनैश्वरः सौरिः पातङ्गिर्ग्रहनायकः ॥
2.1.222 · p. 16
अनुष्टुप्
च्छायासुतो भास्करिश्च मन्दो नीलाम्बरोऽपि च ।राहुरभ्रपिशाचः स्याद् ग्रहकल्लोल-सैंहिकौ ॥
2.1.223 · p. 16
अनुष्टुप्
उपप्लवः सैंहिकेयस्तमः स्वर्भानु-शीर्षकौ ॥
2.1.224 · p. 16
विधुन्तुदोपरागौ च सिंहिकासूनुरित्यपि ।केतुर्ज्योतीरथोऽपि स्यादश्लेषाभव आंहिकः ॥
2.1.225 · p. 16
अनुष्टुप्
उपप्लवश्च विकचः शिखावांश्च शिखीत्यपि ।मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः ।वशिष्ठश्चेति विख्याता इमे सप्तर्षयः क्रमात् ॥
2.1.226 · p. 16
अनुष्टुप्
ख्यातास्त एव लोकेषु सर्वे चित्रशिखण्डिनः ।होरा लग्नश्च राशीनामुदयः समुदाहृतः ॥
2.1.227 · p. 16
अनुष्टुप्
मेषो वृषश्च मिथुनं कर्कटः सिंह एव च ।कन्या तुला वृश्चिकश्च धनुर्मकर इत्यपि ॥
2.1.228 · p. 16
अनुष्टुप्
कुम्भो मीन इति प्रोक्ताः क्रमाद्द्वादशराशयः ॥
2.1.229 · p. 16
सूर्यः सूरोऽर्घमादित्यः शूरो भानुर्विभावसुः ।दिवाकरो द्वादशात्मा विवस्वान् भास्करोऽरुणः ॥
2.1.230 · p. 17
अनुष्टुप्
उष्णरश्मिश्चित्रभानुर्भगो मित्रः प्रभाकरः ।ब्रध्नो बृध्नः सहस्रांशुः पद्मिनीवल्लभो हरिः ॥
2.1.231 · p. 17
अनुष्टुप्
हंसो भास्वान् दिनमणिर्द्युमणिस्तरणी रविः ।चण्डांशुरर्को मार्तण्डः सप्तसप्तिर्गभस्तिमान् ॥
2.1.232 · p. 17
अनुष्टुप्
अंशुमाली काश्यपेयः सप्तास्यो मिहिरः खगः ।सविताऽहस्करः पुषा भानुमान् लोकलोचनः ॥
2.1.233 · p. 17
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 पु (wrong syllable)
अहर्पतिर्ग्रहपतिः पद्मबन्धुर्विरोचनः ।ज्योतिष्मानव्यथेशस्तु तपनस्तापनोऽपि च ॥
2.1.234 · p. 17
अनुष्टुप्
त्विषांपतिश्चित्ररथः खमणिः स्याद्दिवामणिः ।गभस्तिहस्तो र्होलः स्यात् पतङ्गोऽर्चिदिनप्रणीः ॥
2.1.235 · p. 17
अनुष्टुप्
वेदोदयः कालकृतो ग्रहराजस्तमोनुदः ।विकर्तनो रसाधारो हरिदश्वो विभाकरः ॥
2.1.236 · p. 17
अनुष्टुप्
प्रतिदिवा प्रतिदिवो ज्योतिः पीथ इनोऽपि च ।एते सूर्यस्य पार्श्वस्था दण्डपिङ्गलमाठरा ।अरुणः काश्यपिः सूरसूतोऽनूरुस्तथाश्मनः ॥
2.1.237 · p. 17
अनुष्टुप्metre not read in every line
गरुडाग्रजो तार्क्ष्यश्च सूर्यसारथिरित्यपि ।अथ च्छाया च संज्ञा च सूर्यस्य वनिताद्वयम् ।च्छाया स्यान्मन्दजननी सवर्णा भूमयीत्यपि ॥
2.1.238 · p. 17
अनुष्टुप्metre not read in every line
संज्ञा तु यमकालिन्दीमाता सूर्या सुवर्चला ।विश्वकर्मसुता स्वातिः सुवेनुर्द्युमयीति च ॥
2.1.239 · p. 17
अनुष्टुप्
परिधिः स्यात् परिवेशः मण्डलमुपसूर्यकम् ।किरणांशुमयुखोस्रघृणिधृष्णिगभस्तयः ॥
2.1.240 · p. 17
metre not recognised