कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

घनाघन

ghanāghanaपुं · masc.

In 17 kośas: 14 synonym verses, 9 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.164 · p. 10
नभ्राट्तडित्वान्मुदिरो घनाघनोऽभ्रं धूमयोनिस्तनयित्नुमेघाः ।जीमूतपर्जन्यबलाहका घनो धाराधरो वाहदमुग्धरा जलात् ॥ १६४ ॥
upajati mixed
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर तृतीयोपदेशः Bālaprabodhikā 3.52 · p. 70
मेघोऽभ्रो जलदो दभ्रान् तडित्वान् जलली जली ।कमली कमलाः कन्दो घनश्चाथ घनाघनः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 14 · p. 2
घनाघनस्तु मेघे स्यान्मणिचापे तु वाल्मिकम् ।सरस्वती महावेणी सेचनी स्रोतसावती ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.21 · p. 382
वृत्रो घनाघनः शक्रः सुनासीरः पुरंदरः ।पुरुहूतः प्रयागश्च वासवो हरिवाहनः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.153 · p. 396
घनाघनो वर्षमस्त्री स्त्री वृष्टिर्वर्षणं च षण् ।वर्षं तस्य प्रतीघाते वग्राहावग्रहौ तडित् ॥ १५३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.8 · p. 26
घनाघनो वर्षुकोऽसावुदमेघोऽथ[?] मेघ्यं मेघभवे ।कादम्बिनी मेघमाला स्यात्काली कालिका च सा ॥ ८ ॥
metre not recognised
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.15 · p. 190
स्याद्धंस-कालीतनयौ लुलायोऽपि घनाघनः ।अरण्यजेऽस्मिन्गवलो गवलं शृङ्गमस्य च ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 18 · p. 8
अम्बुदघनाघनो घनो मेघो जीमूतोऽभ्रं बलाहकः ।पर्जन्यो मिहिरो नभ्राट् शम्पा सौदामिनी तडित् ॥ १८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.154 · p. 24
मेघस्तु जलमुग्नभ्राड् घनाघनघनौ पुनः ।तडित्वान्मुदिरो धूमयोनिजीमूतशद्रयः ॥ १५४ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.86 · p. 10
वायवी चोत्तरेशानी ब्राह्मी नागीति ता दश ।वारिवाहो घनो मेघः स्तनयित्नुर्घनाघनः ॥ ८६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.165 · p. 23
[मेघो] घनाघनो नभ्राट् तडित्वान् मुदिरो घनः ॥ १६५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.176 · p. 13
अब्जमभ्रं वारिवाहो घनो मेघः पयोधरः ।अम्भोधरो व्योमधूमो धूमयोनिर्घनाघनः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.54 · p. 181
अन्तरिक्षमन्तरीक्षं मेघे घन-घनाघनौ ।ऋञ्जसानो रिञ्जसान उभ्रोऽभ्रमब्धमित्यपि ॥ ५४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 क्ष (wrong syllable); pāda 4, syllable 3 भ्र (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मेघाध्यायः Śabdaratnākara 1.6.214 · p. 29
वारिभृद्वारिवाहोऽथ वर्षुकोऽब्दो घनाघनः ।ऐरावतस्तु जलदो जलदस्योपरिस्थितः ॥ २१४ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.209
शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः ।
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.826 · p. 95
काले कल्पेऽपि विधिर्घनाघनः शक्रवर्षुकाम्बुदयोः ।अत्ययशब्दः प्राज्ञैः कृच्छ्रे चातिक्रमे च निर्दिष्टः ॥ ८२६ ॥
गीतिः
धरणिकोश Dharaṇikośa · धरणिदास नश्लोकः Dharaṇikośa 19.3.27 · p. 130
घनाघनो वर्षुकाब्दे शक्रे च मत्तहस्तिनि ।अन्योन्यघटने चैव घातके च घनाघनः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.34 · p. 266
उत्क्षेपणे प्रहसनं प्रहसे च भङ्गेमत्ते गजे सुरपतावपि घातुके च ।स्याद्वर्षुकाम्बुदपरस्परघट्टने चपुंस्त्वे घनाघन इति प्रथितः प्रवीणैः ॥ ३४ ॥
वसन्ततिलका
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.54 · p. 11
ग्रहराजस्तु विज्ञेयो भास्करे चन्द्रा?स्यपि ।शक्रे धातुकमत्तेभे वर्षुकाब्दे घनाघनः ॥ ५४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास घकारादयः Paramānandīyanāmamālā 5.10.5 · p. 184
घनाघनो मत्तहस्तिमेघयोर्घातके पुनः ।
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.108 · p. 244
घनाघनो मत्तगजे महेन्द्रवर्षुकाब्दयोः ।घोषयित्नुः पिके पुंसि भूमिदेवे च वन्दिनी ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्द्र (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2208 · p. 267
चन्द्रार्कयोर्ग्रहपतिः शंकरेऽपि गणेश्वरः ।वर्षुकाब्दे मत्तगजे वासवे च घनाघनः ॥ २२०८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 म (wrong syllable)
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 8.1.22 · p. 266
घनाघनो मत्तगजे वासवे वार्षुकांबुदे ।चक्रपादौ रथगजौ चित्त्रभानू इनानलौ ॥ २२ ॥
अनुष्टुप्