कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Amarakośa

नामलिङ्गानुशासनम् Amarakośa

2,373 verses · 12,470 words tagged · 1,463 marked doubtful (dashed)

प्रथमं काण्डम् · दिग्वर्गः

इति व्योमवर्गः

अथ दिग्वर्गः ।

दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः ।प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः ॥ १ ॥उत्तरा दिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे ।अवाग्भवमवाचीनमुदीचीनमुदग्भवम् ॥प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु ।इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत् ॥ २ ॥कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात् ।
1.3.1
अनुष्टुप्
रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः ॥बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः ।
1.3.2
अनुष्टुप्
ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ॥ ३ ॥पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ।करिण्योऽभ्रमुकपिलापिङ्गलानुपमाः क्रमात् ॥ ४ ॥ताम्रकर्णी शुभ्रदन्ती चाङ्गना चाञ्जनावती ।
1.3.3
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 भ्र (wrong syllable)
क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक्स्त्रियाम् ॥ ५ ॥
1.3.5
अनुष्टुप्
अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम् ।
1.3.5
अनुष्टुप्
अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः ॥ ६ ॥धाराधरो जलधरस्तडित्वान्वारिदोऽम्बुभृत् ।घनजीमूतमुदिरजलमुग्धूमयोनयः ॥ ७ ॥
1.3.7
अनुष्टुप्
कादम्बिनी मेघमाला त्रिषु मेघभवेऽभ्रियम् ।
1.3.7
अनुष्टुप्
स्तनितं गर्जितं मेघनिर्घोषे रसितादि च ॥ ८ ॥
1.3.8
अनुष्टुप्
शम्पाशतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा ।तडित्सौदामनी विद्युच्चञ्चला चपला अपि ॥ ९ ॥
1.3.9
अनुष्टुप्
स्फूर्जथुर्वज्रनिर्घोषो मेघज्योतिरिरम्मदः ।
1.3.10
अनुष्टुप्
इन्द्रायुधं शक्रधनुस्तदेव ऋजु रोहितम् ॥ १० ॥
1.3.10
अनुष्टुप्
वृष्टिर्वर्षं तद्विघातेऽवग्राहावग्रहौ समौ ।
1.3.12
अनुष्टुप्
धारासम्पात आसारः शीकरोऽम्बुकणाः स्मृताः ॥ ११ ॥
1.3.11
अनुष्टुप्
वर्षोपलस्तु करका मेघच्छन्नेऽह्नि दुर्दिनम् ।
1.3.14
अनुष्टुप्
अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम् ॥ १२ ॥अपिधानतिरोधानपिधानाच्छादनानि च ।
1.3.15
अनुष्टुप्
हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः ॥ १३ ॥विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः ।अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः ॥ १४ ॥द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः ।
1.3.16
अनुष्टुप्
कला तु षोडशो भागो बिम्बोऽस्त्री मण्डलं त्रिषु ॥ १५ ॥
1.3.15
अनुष्टुप्
भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंऽशके ।
1.3.18
अनुष्टुप्
चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता ॥ १६ ॥
1.3.16
अनुष्टुप्
कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम् ।
1.3.20
अनुष्टुप्
सुषमा परमा शोभा शोभा कान्तिर्द्युतिश्छविः ॥ १७ ॥
1.3.17
अनुष्टुप्
अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् ।प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः ॥ १८ ॥
1.3.18
अनुष्टुप्
शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः ।तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः ॥ १९ ॥
1.3.19
अनुष्टुप्
ध्रुव औत्तानपादिः स्यादगस्त्यः कुम्भसम्भवः ।मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी ॥ २० ॥
1.3.20
अनुष्टुप्
नक्षत्रमृक्षं भं तारा तारकाऽप्युडु वा स्त्रियाम् ।
1.3.25
अनुष्टुप्
दाक्षायण्योऽश्विनीत्यादि तारा अश्वयुगश्विनी ॥ २१ ॥
1.3.21
अनुष्टुप्
राधा विशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया ।समा धनिष्ठाः स्युः प्रोष्ठपदा भाद्रपदा स्त्रियः ॥ २२ ॥
1.3.22
अनुष्टुप्
मृगशीर्षं मृगशिरस्तस्मिन्नेवाग्रहायणी ।
1.3.28
अनुष्टुप्
इल्वलास्तच्छिरोदेशे तारका निवसन्ति याः ॥ २३ ॥
1.3.23
अनुष्टुप्
बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः ।जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः ॥ २४ ॥
1.3.24
अनुष्टुप्
शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः ।
1.3.31
अनुष्टुप्
अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः ॥ २५ ॥
1.3.25
अनुष्टुप्
रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ ।
1.3.33
अनुष्टुप्
तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः ॥ २६ ॥
1.3.26
अनुष्टुप्
सप्तर्षयो मरीच्यत्रिमुखाश्चित्रशिखण्डिनः ।
1.3.35
अनुष्टुप्
राशीनामुदयो लग्नं ते तु मेषवृषादयः ॥ २७ ॥
1.3.27
अनुष्टुप्
सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः ।भास्कराहस्करब्रध्नप्रभाकरविभाकराः ॥ २८ ॥भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः ।विकर्तनार्कमार्तण्डमिहिरारुणपूषणः ॥ २९ ॥द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः ।विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः ॥ ३० ॥भानुर्हंसः सहस्रांशुस्तपनः सविता रविः ।पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा ॥कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः ।प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः ॥इनो भगो धामनिधिश्चांशुमाल्यब्जिनीपतिः ।माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्वकाः ॥ ३१ ॥
1.3.31
अनुष्टुप्
सूरपुंसूर्यपुंअर्यमन्पुंआदित्यपुंद्वादशात्मन्पुंदिवाकरपुंभास्करपुंअहस्करपुंब्रध्नपुंप्रभाकरपुंविभाकरपुंभास्वत्पुंविवस्वत्पुंसप्ताश्वपुंहरिदश्वपुंउष्णरश्मिपुंविकर्तनपुंअर्कपुंमार्तण्डपुंमिहिरपुंअरुणपुंपूषन्पुंद्युमणिपुंतरणिपुंमित्रपुंचित्रभानुपुंविरोचनपुंविभावसुपुंग्रहपतिपुंत्विषांपतिपुंअहर्पतिपुंभानुपुंहंसपुंसहस्रांशुपुंतपनपुंसवितृपुंरविपुंपद्माक्षपुंतेजसांराशिपुंछायानाथपुंतमिस्रहन्पुंकर्मसाक्षिन्पुंजगच्चक्षुस्पुंलोकबन्धुपुंत्रयीतनुपुंप्रद्योतनपुंदिनमणिपुंखद्योतपुंलोकबान्धवपुंइनपुंभगपुंधामनिधिपुंअंशुमालिन्पुंअब्जिनीपतिपुंचण्डांशुपुंमाठरपुंपिङ्गलपुंदण्डपुं
सूरसूतोऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः ।
1.3.38
अनुष्टुप्
परिवेषस्तु परिधिरुपसूर्यकमण्डले ॥ ३२ ॥
1.3.32
अनुष्टुप्
किरणोस्रमयूखांशुगभस्तिघृणिरश्मयः ।भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम् ॥ ३३ ॥
1.3.33
अनुष्टुप्
स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः ।रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः ॥ ३४ ॥
1.3.34
अनुष्टुप्
कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति ।
1.3.42
अनुष्टुप्
तिग्मं तीक्ष्णं खरं तद्वन्मृगतृष्णा मरीचिका ॥ ३५ ॥
1.3.35
अनुष्टुप्