कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सर्वतोमुख

sarvatomukhaक्ली · neut.

In 17 kośas: 21 synonym verses, 5 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य जलकायः Abhidhānacintāmaṇi 4.2.1 · p. 42
नीरं वारि जलं दकं कमुदकं पानीयमम्भः कुशंतोयं जीवनजीवनीयसलिलार्णांस्यम्बु वाः संवरम् ।क्षीरं पुष्करमेघपुष्पकमलान्यापः पयःपाथसीकीलालं भुवनं वनं घनरसो यादोनिवासोऽमृतम् ॥ १०६९ ॥कुलीनसं कबन्धं च प्राणदं सर्वतोमुखम् ।
शार्दूलविक्रीडितम्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.2
आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम् ।पयः कीलालममृतं जीवनं भुवनं वनम् ॥ ३ ॥कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् ।अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् ॥ ४ ॥मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम् ।
अनुष्टुप्
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर तृतीयोपदेशः Bālaprabodhikā 3.53 · p. 70
धूमज्योतिस्वरूपश्च पुष्पवान् सर्वतोमुखः ।कादम्बिनी मेघमाला काली कृष्णनवाम्बुदः ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 5 · p. 1
शिवः पुराणाधिपतिः शितिकण्ठः पुरान्तकः ।शरभः केशवपतिः शिवाङ्गः सर्वतोमुखः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.16 · p. 9
तूणीरस्तस्य शरधिः सर्वतोमुख इत्यपि ।हिरण्यकशिपुद्वेषी नृसिंहो विश्वविक्रमः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.65 · p. 13
सीसं वङ्गं च योगेष्टं लघुतारं भुजङ्गकम् ।सर्पं कुम्भीनसं वित्तं मृद्भवं सर्वतोमुखम् ॥ ६५ ॥
अनुष्टुप्
genderक्लीneut.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.96 · p. 16
तत्समूहे झरा तु स्याझ्झरीति परिकीर्तितः ।पयः कीलालममृतं पुष्करं सर्वतोमुखम् ॥ ९६ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.9 · p. 344
वनं पवित्रममृतं कंवलं कं कुलीनसम् ।पानीयं पिप्पलं पीथं पातालं सर्वतोमुखम् ॥ ९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.89 · p. 389
भवो बुद्धः कृतकरोऽक्षत उत्सर्वतोमुखः ।सुप्रसादो महाकालः स्थाणू रुद्रश्च भौतिकः ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.2 · p. 439
स्रष्टा प्रजापतिर्वेधा विधाता कमलासनः ।स्वभूः कञ्जोऽब्जपर्याययोन्यर्थः सर्वतोमुखः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.3 · p. 99
वार्जीवनं जीवनीयं दगर्णे(?) सर्वतोमुखम् ।गवं(?)सरः कर्बुरं च पवित्रं पूतमङ्कुरः ।कम्बलं तामरं कृत्स्नं क्षणदं स्यन्दनं मधु ।क्षरं कंत्वलिगं * * न स्त्री कोडं(?)रसं विषम् ॥ ३ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.344 · p. 47
पानीयं जीवनं तोयं शंवरं नीरवारिणी ।पुष्करं कं जलं पाथः सलिलं सर्वतोमुखम् ॥ ३४४ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.52 · p. 8
श्रीपतिर्गोपतिर्गोप्ता हीरो हंसः पुरातनः ।यज्ञः सम्राड्यजः प्राज्ञः सर्वज्ञः सर्वतोमुखः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.29 · p. 126
संवरं शम्बरं चापि संभारं सर्वतोमुखम् ।पुष्पं च मेघपुष्पं च रसं घनरसं तथा ॥ २९ ॥
अनुष्टुप्
genderक्लीneut.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण स्वर्गादिलोकपालाधिकारः प्रथमस्सर्गः Śabdacandrikā 1.10 · p. 34
वरुणः सारथिः स्वामी नदीनाथः प्रजापतिः ।समुद्रवल्लभः शंभुः पाशभृत्सर्वतोमुखः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण समुद्राधिकारश्चतुर्थस्सर्गः Śabdacandrikā 4.3 · p. 40
कोलाहलस्तु तद्घोषे तरङ्गे बुद्बुदाकरः ।सलिलं कमलं नीरं पुष्करं सर्वतोमुखम् ॥ ३ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.111 · p. 13
उदकं पुष्करं क्षीरममृतं सर्वतोमुखम् ।कङ्कबन्धं घनरसमापो वा कमलं विषम् ॥ १११ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि अप्कायनामानि Suśīlanāmamālā 5.2.1856 · p. 303
कबन्धं कमलं चाऽम्भः कमन्धं शम्बरं दकम् ।अर्णोऽम्बु चाऽमृतं कं वाः आपोऽप् च सर्वतोमुखम् ॥ १८५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.39 · p. 39
वार्वारि तोयमुदकं नीरपानीयसम्बरम् ।अम्भः क्षीराम्बु सलिलं सर्वतोमुखजीवनम् ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.8 · p. 3
शतानन्दः शतधृतिः स्वयंभूः सर्वतोमुखः ।परमेष्ठी विश्वरेताः पुरुषो हंसवाहनः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 8.3.18 · p. 274
स्नेहं सेव्यं महच्छुद्धं धरुणं सर्वतोमुखम् ।पातालं स्वादु दिव्यं च तानि पंचदशाप्स्वपि ॥ १८ ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास खार्धश्लोकः Dharaṇikośa 2.2.10 · p. 20
सर्वतोमुखमम्बु स्यात्क्षेत्रज्ञः सर्वतोमुखः ।शीतमयूखशब्दोऽयं चन्द्रकर्पूरयोः स्मृतः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ खान्ताः Koṣakalpataru 6.2.89 · p. 162
शीतांशौ घनसारेशीतमयूखोऽथात्मधातृरुद्रेषु ।स्यात्सर्वतोमुखोऽन्त्येपुनरम्भस्यन्तरिक्षे च ॥ ८९ ॥
metre not recognised
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पञ्चाक्षरकाण्डः Nānārthārṇavasaṃkṣepa 7.100 · p. 101
यत् तु सर्वप्रकारे स्याद् भद्रं तत्र त्रिषु स्मृतम् ।सर्वतोमुखशब्दस्तु क्रतुभेदे विरिञ्चने ॥ १०० ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पञ्चाक्षरकाण्डः Nānārthārṇavasaṃkṣepa 7.101 · p. 101
ना नीरे क्ली त्रिषु पुनर्यस्य स्यात् सर्वतो मुखम् ।अथो सहस्रवीर्या स्त्री दूर्वायामपरः पुनः ॥ १०१ ॥
अनुष्टुप्
meaningsनीर
शब्दरत्नावली Śabdaratnāvalī · मथुरेश खान्ताः Śabdaratnāvalī 7.2.20 · p. 191
सर्वतोमुख उग्रे च ब्रह्मब्राह्मणयोः पुमान् ।क्लीबं वियति पानीये क्षेत्रज्ञे च पुमानयम् ॥
अनुष्टुप्

सर्वतोमुख as a meaning in nānārtha verses

  • शिवकोष क्षणदक्षणदा तु हरिद्रायां क्षणदः सर्वतोमुखे । कुमुदं कैरवे पद्मे कुम्भीकट्फलयोः स्त्रियाम् ॥ २२३ ॥ Śivakoṣa 14.2.223
  • शिवकोष पिप्पलपिप्पलः केशवावासे पिप्पलं सर्वतोमुखे । पिप्पली तूपकुल्यायां पिचुलस्त्विज्जले नरि ॥ ४६५ ॥ Śivakoṣa 23.2.465