कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnākara

शब्दरत्नाकर Śabdaratnākara

2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)

प्रथमः काण्डः · मेघाध्यायः

इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे ऋष्यध्यायश्चतुर्थः ।

मेघाध्यायः

अभ्रं मेघबलाहकवारिदवारिधरमुदिरजीमूताः ।स्तनयित्नुघनतटित्वद्धाराधरधूमयोनितोयमुचः ॥ २१३ ॥
1.6.213 · p. 29
गीतिः
वारिभृद्वारिवाहोऽथ वर्षुकोऽब्दो घनाघनः ।ऐरावतस्तु जलदो जलदस्योपरिस्थितः ॥ २१४ ॥
1.6.214 · p. 29
अनुष्टुप्
कादम्बिनी कालिका स्याद् घनज्योतिरिरंमदः ।त्रिषु मेघभवं मेघ्यं त्रिष्वभ्रभवमभ्रियम् ॥ २१५ ॥
1.6.215 · p. 29
अनुष्टुप्
तुषारः शीकरो बिन्दुः पृषतो विप्रुषः स्त्रियः ।पृषन्ति मेघपाषाणे करो ना करकाः स्त्रियाम् ॥ २१६ ॥
1.6.216 · p. 29
अनुष्टुप्
वर्षोऽस्त्री तत्प्रतिष्ठम्भे त्ववग्राहोऽप्यवग्रहः ।महती वृष्टिरासारः स्फूर्जथुर्वज्रपेषणे ॥ २१७ ॥
1.6.217 · p. 29
अनुष्टुप्
चञ्चलेन्द्रायुधं शक्रधनुर्मणिशरासनम् ।तेजोधनुः सुरधनुः स्यादेतदृजुरोहितम् ॥ २१९ ॥
1.6.219 · p. 29
अनुष्टुप्
गर्जितं मेघनिर्घोषो रसितस्तनितादि च ।अह्नि घनस्थगिते स्याद्दुर्दिनमन्तर्धिनिह्नवौ व्यवधा ॥ २२० ॥
1.6.220 · p. 30
अनुष्टुप्metre not read in every line
अन्तर्धाव्यवधानप्रावरणस्थगनगूहनास्तरणम् ।अपिधानं तिरोधानं विधानमपवारणम् ॥ २२१ ॥
1.6.221 · p. 30
अनुष्टुप्metre not read in every line
अन्तर्धानं प्रोर्णवनं तूत्थनच्छादने अपि ॥ २२२ ॥
1.6.222 · p. 30