कुडङ्ग
kuḍaṅgaपुं · masc.In 6 kośas: 7 synonym verses.
कुञ्जनिकुञ्जकुडङ्गाः स्थाने वृक्षैर्वृतान्तरे ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
कुडङ्गो वृक्षवल्लीनां वनं स्यादथ वल्लरम् ।झाटो गञ्जः कुञ्जमस्त्री निकुञ्जं च लतावृतम् ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
वृक्षावृतान्तरे कुञ्जो निकुञ्जकुडङ्गावपि ।वृक्षस्तु फलवान्पुष्पैर्वानस्पत्यो विना फलैः ॥ २६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ड (wrong syllable)
genderपुंmasc.
पराग उत्तरासङ्गन्युङ्खपूगसृगा नरे ।मस्तुलुङ्गकुडङ्गौ च मङ्गकालिङ्गमञ्चकाः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
ख्यातः कुञ्जो निकुञ्जश्च कुडङ्गोऽपि हि कथ्यते ।त्रीणि नामानि मन्यन्ते वृक्षैर्वृतान्तरे स्थले ॥ १९५७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्वृ (wrong syllable)
genderपुंmasc.
कायमानं तृणकुटी दुर्भटं निभृतं गृहम् ।कुडङ्गोद्घाटपिठरा इन्द्रकोषस्तु मञ्चकः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
कुडङ्गोऽस्त्री निकुञ्जोऽस्त्री कुञ्जो वृक्षवृतान्तरे ।आकरस्त्री खनिर्गञ्जा रुमा तु लवणाकरः ॥ १० ॥
अनुष्टुप्
genderपुंक्लीm. n.