All kośas › Paramānandīyanāmamālā
परमानन्दीयनाममाला Paramānandīyanāmamālā
1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)
तृतीयः परिच्छेदः (1/4)
इति श्रीकायस्थचिरवारीयमाथुरवंशभूषणमणिश्रीगढमलपुत्रश्रीमत्पर-
मानन्दनन्दनविरचितायां परमानन्दीयनाममालायां द्वितीयः
परिच्छेदः समाप्तः ॥
अथ तृतीयः परिच्छेदः
प्रणौमि परया भक्त्या प्रकृष्टविभुतां विभुम् ।नाशोत्पादस्थितिप्रष्टं परब्रह्म निरञ्जनम् ॥ १ ॥
3.1 · p. 51
अनुष्टुप्
अग्निश्छागरथो वह्निः कृशानुः पावकः शिखी ।चित्रभानुश्च दमुना धनंजयहुताशनौ ॥ ३ ॥
3.3 · p. 52
अनुष्टुप्
धूमध्वजो बृहद्भानुर्ज्वलाजिह्वस्तनूनपात् ।वैश्वानरः सप्तमन्त्रो जातवेदास्तरीरपि ॥ ४ ॥
3.4 · p. 52
अनुष्टुप्
ज्वलनो जागृविर्बर्हिः कृष्णवर्त्मानलौ शुचिः ।शुष्मदस्मौ तथा वीतिहोत्रानिलसखौ वसुः ॥ ५ ॥
3.5 · p. 52
अनुष्टुप्
शुक्रो विभावसुः केशश्चित्रभानुरुषर्बुधः ।वृषाकपिः शमीगर्भो रोहिताश्वो विरोचनः ॥ ६ ॥
3.6 · p. 52
अनुष्टुप्
अर्चिष्मानाश्रयाशोऽपि विश्वप्सा बहुलो हरिः ।तिथः कृपीटयोनिश्च तुत्थो हव्यवहः स्मृतः ॥ ७ ॥
3.7 · p. 52
अनुष्टुप्
सप्तोदर्चिरप्पित्तं च हव्यवाहाशुशुक्षणी ।पचनो हिरण्यरेता बर्हिर्ज्योतिस्तमोहरः ॥ ८ ॥
3.8 · p. 52
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable); pāda 3, syllable 4 हि (wrong syllable)
अग्निप्रिया स्मृताग्नायी स्वाहापि कथिता स्मृतौ ।संवर्तकः समुद्राग्निर्वडवामुखवाडवौ ॥ ९ ॥
3.9 · p. 52
अनुष्टुप्
वडवानल और्वोऽपि दवदाववनाग्नयः ।इरंमदो मेघवह्निः करीषानलछागणौ ॥ १० ॥
3.10 · p. 52
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ल (wrong syllable)
तुषवह्नौ कुकूलः स्यात्तुल्यौ संतापसंज्वरौ ।बाष्पे ऊष्माप्यथो वाह्निजिह्वा कीला शिखार्चिषः ॥ ११ ॥
3.11 · p. 53
अनुष्टुप्
ज्वाला हेतिः शिखा वृद्धा झलक्का परिकीर्तिता ।स्फुलिङ्गोल्कालातवह्निकणा ज्वलोल्मुके अपि ॥ १२ ॥
3.12 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ज्व (wrong syllable)
धूमोम्भःसूवायुवाहौ करमालोऽग्निकेतनम् ।अग्निवाहस्तरीः प्रोक्तस्तथा जीमूतवाह्यपि ॥ १३ ॥
3.13 · p. 53
अनुष्टुप्
श्रीमद्गढमलाङ्गोद्भूस्तेजोवर्गमरूपयत् ।वायुःसमीरणो वातो मातरिश्वा प्रभञ्जनः ॥ १४ ॥
3.14 · p. 53
अनुष्टुप्
समीरः पवनो नित्यगतिः कम्पाकमारुतौ ।[30] पृषदश्वो जगत्प्राणो नभस्वाननिलो मरुत् ॥ १५ ॥
3.15 · p. 53
अनुष्टुप्
प्रकम्पनाशुगौ गन्धवहः समिर इत्यपि ।नभःश्वासोऽहिकान्तोऽपि दैत्यदेवो महाबलः ॥ १६ ॥
3.16 · p. 53
अनुष्टुप्
स्पर्शनश्च हरिः प्रोक्तः पवमानसदागती ।स झञ्झा वृष्टियुक् प्रोक्तः व्यानस्त्वङ्मात्रसंस्थितः ॥ १७ ॥
3.17 · p. 53
अनुष्टुप्
अपानः पृष्ठपार्ष्णिस्थ उदानो हृच्छिरोऽन्तरे ।प्राणो हृन्नाभिनक्रस्थः समानो नाभिहृद्गतः ॥ १८ ॥
3.18 · p. 53
अनुष्टुप्
वायुवर्गोऽयमाख्यातो विद्वदम्बुजभानुना ।वनं वार्क्षं झषः कक्षः कान्तारोऽरण्यकानने ॥ १९ ॥
3.19 · p. 54
अनुष्टुप्
प्रस्तारो गहनं षण्डं दवदावावपीरितौ ।सत्रं क्लीबेऽटवी स्त्री स्याद् झषः स्यात्तृणयुग्वने ॥ २० ॥
3.20 · p. 54
अनुष्टुप्
अथोपवनमाख्यातमपपूर्वं वनं स्मृतम् ।आरामः कृत्रिमारण्ये गृहारामस्तु निष्कुटः ॥ २१ ॥
3.21 · p. 54
अनुष्टुप्
पौरकस्तु बहिःसत्रमाक्रीडोद्यान इत्यपि ।क्षुद्रारामः पुष्पवाटी वृक्षवाटी प्रसीदिका ॥ २२ ॥
3.22 · p. 54
अनुष्टुप्
अमात्यादेर्गृहोद्याने वनं प्रमदपूर्वकम् ।तरुः शाखी नगो वृक्षः पर्णी कारस्करोंऽह्रिपः ॥ २३ ॥
3.23 · p. 54
अनुष्टुप्
विटपी पादपश्चाद्रिर्द्रद्रुमौ विष्टरः कुठः ।वसुर्जर्णहरी सालोऽनोकहोऽगोऽपि पुष्पदः ॥ २४ ॥
3.24 · p. 54
अनुष्टुप्
रूक्षागमौ पुलाकी च फलदो गच्छ इत्यपि ।करालिकः क्षितिरुहो नन्द्यावर्तोपि कुत्रचित् ॥ २५ ॥
3.25 · p. 54
अनुष्टुप्
वृक्षावृतान्तरे कुञ्जो निकुञ्जकुडङ्गावपि ।वृक्षस्तु फलवान्पुष्पैर्वानस्पत्यो विना फलैः ॥ २६ ॥
3.26 · p. 54
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ड (wrong syllable)
वनस्पतिः फलवांस्तु विशेषः फलजन्मतः ।फलेग्रहिः फलवान्ध्यः फलिनः फलवान्फली ॥ २७ ॥
3.27 · p. 55
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable); pāda 3, syllable 6 ल (wrong syllable)
अवकेशी फलैर्वन्ध्य ओषधिश्चौषधिः समे ।फलपाकावसानाथ शाखो ह्रस्वशिफः क्षुपः ॥ २८ ॥
3.28 · p. 55
अनुष्टुप्
व्रततिः प्रततिस्तुल्ये लता वल्ली स्त्रियामुभे ।लतायां तु प्रतानिन्यां गुल्मिन्युलपवीरुधः ॥ २९ ॥
3.29 · p. 55
अनुष्टुप्
प्ररोहोऽङ्कुराङ्कूरावृक्तो रोहस्तु[31] पर्वणः ।शिखाशाखालतास्तुल्याः साला स्कन्धस्य शाखिका ॥ ३० ॥
3.30 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शालापि कथिता तत्र प्रकाण्डं स्कन्धमस्तके ।गण्डिः शाखावधिर्मूलात्प्रकाण्डोऽथ शिफाजटे ॥ ३१ ॥
3.31 · p. 55
अनुष्टुप्
गुल्मस्तु विटपः स्तम्बः प्रकाण्डरहितो मतः ।छल्ली वल्कं वल्कलं च त्वचि चोचमपि स्मृतम् ॥ ३२ ॥
3.32 · p. 55
अनुष्टुप्
सारो मज्जा पुमान्स्थाणुः शङ्कुर्ध्रुवक इत्यपि ।अंह्रिर्बुध्नः पुमान्मूले शिखरेऽग्रं शिरोऽपि च ॥ ३३ ॥
3.33 · p. 55
अनुष्टुप्
काष्ठं तु दलिकं दारु मञ्जरिर्वल्लरिः समे ।पर्णं बर्हं पलाशं च दलं पत्रं छदं पुनः ॥ ३४ ॥
3.34 · p. 56
अनुष्टुप्
छदनं च नवे तस्मिन्कशलं पल्लवोऽपि च ।तथा किसलयं तत्र प्रवालः कोशिकास्य तु ॥ ३५ ॥
3.35 · p. 56
अनुष्टुप्
माढिर्दलस्था शुङ्गा विस्तारे विटपः पुमान् ।पुष्पं मणीवकं सूनं प्रसवः कुसुमं समम् ॥ ३६ ॥
3.36 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ल (syllables merged)
प्रसूनं सुमनःशब्दो भूम्नि चैव मतः स्त्रियाम् ।जालकक्षारकौ पुंसिः कोरकः कलिका स्त्रियाम् ॥ ३७ ॥
3.37 · p. 56
अनुष्टुप्
मुकुलं कुड्मलं ज्ञेयं गुलुञ्छो गुच्छगुत्सकौ ।स्तबकोऽथ रजः पौष्पं परागोऽप्यथ तद्रसः ॥ ३८ ॥
3.38 · p. 56
अनुष्टुप्
मरन्दमकरन्दौ तु मधु प्रसवबन्धने ।वृन्तं च विकचं फुल्लं स्मितं व्याकोशमित्यपि ॥ ३९ ॥
3.39 · p. 56
अनुष्टुप्
प्रबुद्धं दलितोज्जृम्भे प्रफुल्लोन्मिषिते पुनः ।स्फटं चोच्छ्वासितं स्मेरं विनिद्रहसिते अपि ॥ ४० ॥
3.40 · p. 56
अनुष्टुप्
मुद्रितं मीलितं सङ्कुचितं निद्राणमिष्यते ।फलं सस्यं तत्र शुष्के वानशब्दो विभाव्यते ॥ ४१ ॥
3.41 · p. 56
अनुष्टुप्
आमं शलाट्वथ ग्रन्थिः शिम्बिः शिम्बा शमिः परुः ।बीजकोशीपर्वणी च पिप्पलो बोधिपादपः ॥ ४२ ॥
3.42 · p. 57
अनुष्टुप्
कृष्णवासस्तथाश्वत्थः श्रीवृक्षः कुञ्जराशनः ।जटी प्लक्षः पर्कटी च न्यग्रोधो बहुपात्पुनः ॥ ४३ ॥
3.43 · p. 57
अनुष्टुप्
वटश्चाथोम्बरो जन्तुफलश्चाम्रे रसालकः ।चूतातिसौ [32] रमौ तुल्यौ कामाङ्गः कोकिलप्रियः ॥ ४४ ॥
3.44 · p. 57
अनुष्टुप्
सहकारोऽपि माकन्द पलाशः किंशुकः पुनः ।त्रिपत्रो ब्रह्मवृक्षोऽसौ मोचा रभ्भा कदल्यथ ॥ ४५ ॥
3.45 · p. 57
अनुष्टुप्
सप्तपर्णस्त्वयुक्पत्रे गुडूच्यमृतवल्लिका ।छिन्ना छिन्नोद्भवा छिन्नरुहा वत्सादनीत्यपि ॥ ४६ ॥
3.46 · p. 57
अनुष्टुप्
पटोलः पाण्डुरः पाण्डुफलो राजीफलश्च सः ।हरिद्रा रजनी पीता पीतिका रञ्जनी च सा ॥ ४७ ॥
3.47 · p. 57
अनुष्टुप्
हलिनी च जयन्ती तु तथा वर्णविलासिनी ।शुण्ठी विश्वा नागरं तु विश्वभेषजनामकम् ॥ ४८ ॥
3.48 · p. 57
अनुष्टुप्
मञ्जिष्ठा तु जिगी वर्णदा शोषघ्नी प्रता परा ।मासकस्ताम्रमूली च दुरालम्भा च कच्छुरी ॥ ४९ ॥
3.49 · p. 57
अनुष्टुप्
खदिरो रक्तसारः स्यात्सोमवल्कस्तु कामुकः ।अथ दारुहरिद्रा च हेमकान्ता निगद्यते ॥ ५० ॥
3.50 · p. 58
अनुष्टुप्
करवीरो हयमारो बदर्यां कुवली स्मृता ।कर्कन्धुः कोलिरप्यत्र वेतसो वञ्जुलो रथः ॥ ५१ ॥
3.51 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 य (wrong syllable)
वानीरः शीतविदुलौ पिचुलो झाबकः समौ ।नीपः कदम्ब आख्यातः ककुभे त्वर्जुनो मतः ॥ ५२ ॥
3.52 · p. 58
अनुष्टुप्
कङ्केल्लिस्तु तथाशोकः केसरो बकुलः समौ ।दाडिमे करकः पुंसि ------------------------ ॥ ५३ ॥
3.53 · p. 58
अनुष्टुप्metre not read in every line
किंपाकस्तु महाकालो मधुष्ठीलो मधूलकः ।पियालस्तु प्रियालः स्यात्तथा राजादानोऽपि सः ॥ ५४ ॥
3.54 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 दा (wrong syllable)
नागरङ्गे तु नारङ्गस्तिन्तिडी चाम्लिका मता ।अरिष्टः फेनिलस्तुल्यौ तिनिशे च रथद्रुमः ॥ ५५ ॥
3.55 · p. 58
अनुष्टुप्
निम्बो नेता तथारिष्टः सर्वतोभद्रतिक्तकौ ।प्रभद्रः पिचुमन्दोऽपि कथितः प्रियभद्रकः ॥ ५६ ॥
3.56 · p. 58
अनुष्टुप्
यासो यवासकः प्रोक्तो बालपत्रो मरुद्भवः ।वृषाटरूपकौ वासा वासकः सिंहपर्ण्यपि ॥ ५७ ॥
3.57 · p. 58
अनुष्टुप्
किराते चाथ भूनिम्बो रामसेनक[33]तिक्तकौ ।कटुकी रोहिणी तिक्ता चक्राङ्गी कटुरोहिणी ॥ ५८ ॥
3.58 · p. 59
अनुष्टुप्
मुस्तं मेघो वराहोऽब्दो नादेयो नागरः पृथक् ।पर्पटस्तु रजो रेणुः कवचो ब्रह्मसण्टकः ॥ ५९ ॥
3.59 · p. 59
अनुष्टुप्
ह्रीवेरं वालकं तोयं सटी प्रोक्ता पलाशिनी ।पुष्कराह्वं पुष्करं तु काश्मीरं पद्मपत्रकम् ॥ ६० ॥
3.60 · p. 59
अनुष्टुप्
देवकाष्ठं देवदारु शक्रदारु सुदारु च ।कण्टालिका तु दुःस्पर्शा व्याघ्री निर्दग्धिका च सा ॥ ६१ ॥
3.61 · p. 59
अनुष्टुप्
क्षुद्रा तथा कण्टकिनी कण्टकारीत्यपि स्मृता ।श्वदंष्ट्रो व्यालदंष्ट्रोऽपि गोक्षुरश्च त्रिकण्टकः ॥ ६२ ॥
3.62 · p. 59
अनुष्टुप्
बिल्वो लक्ष्मीफलो गन्धागर्भः स्याद्भूतमारुतः ।अग्निमन्थोऽरणिर्ज्ञेयः शिलाभेदोऽश्मभेदकः ॥ ६३ ॥
3.63 · p. 59
अनुष्टुप्
भूतघ्नी राक्षसी गौरी सुरसा देवदुन्दुभिः ।वाकुची सोमवल्ली तु मदनः करघाटकः ॥ ६४ ॥
3.64 · p. 59
अनुष्टुप्
कपिकच्छूर्लाङ्गली तु स्वयंगुप्ता जहर्षभी ।आत्मगुप्ता मर्कटी च तुम्ब्यलाबूश्च कथ्यते ॥ ६५ ॥
3.65 · p. 60
अनुष्टुप्
जीमूतको देवदाली पीतपुष्पा निगद्यते ।आवर्तकी चर्मरङ्गा मेषशृङ्गी तु वर्तिका ॥ ६६ ॥
3.66 · p. 60
अनुष्टुप्
पीलुपर्णी रक्तफला गोल्ही बिम्बी च कथ्यते ।हरीतक्यभया पथ्या कायस्था पूतनामृता ॥ ६७ ॥
3.67 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
वयःस्थामलकी धात्रीफलं श्रीफलसंज्ञकम् ।हार्यः कलिद्रुमो भूतत्रासोऽक्षश्च बिभीतकः ॥ ६८ ॥
3.68 · p. 60
अनुष्टुप्
कृतमालो दीर्घफलः स्मृत आरग्वधोऽपि सः ।चम्पकस्तु हेमपुष्पो जपा जाता समे उभे ॥ ६९ ॥
3.69 · p. 60
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 दी (wrong syllable); pāda 3, syllable 4 स्तु (wrong syllable)
सिन्दुवारे च निर्गुण्डी वासन्ती माध[34]वी लता ।मल्लिका मालती तुल्ये यूथिका मागधी स्मृता ॥ ७० ॥
3.70 · p. 60
अनुष्टुप्
यूथिका पीतपुष्पा तु कथिता हेमपुष्पिका ।प्रियङ्गुः फलिनी श्यामा ------------------------ ॥ ७१ ॥
3.71 · p. 60
अनुष्टुप्metre not read in every line
निबूकं निबुकं चान्यद्राजशब्दादिपूर्वकम् ।जम्भीरो जम्भलो जम्भो जम्बीरो देश्यसंग्रहे ॥ ७२ ॥
3.72 · p. 61
अनुष्टुप्
मातुलिङ्गो मातुलुङ्गो बीजपूरे तु कथ्यते ।-------------------- करीरे क्रकरो मतः ॥ ७३ ॥
3.73 · p. 61
metre not recognised
बन्धुजीवकबन्धूकौ एरण्डे तु तथेक्ष्यताम् ।पञ्चाङ्गुलो धातकी तु धातुपुष्पी निगद्यते ॥ ७४ ॥
3.74 · p. 61
अनुष्टुप्
धत्तूरः कनकः प्रोक्तः केतकः क्रकचच्छदः ।कपित्थस्तु दधिफलो वेणुर्वंशस्तृणध्वजः ॥ ७५ ॥
3.75 · p. 61
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्तु (wrong syllable)
त्वचिसारो यवफलः शतपर्वा तु मस्करः ।सच्छिद्रः कीचकः प्रोक्तो लाङ्गली नालिकेरकः ॥ ७६ ॥
3.76 · p. 61
अनुष्टुप्
गूवाकक्रमुकौ पूग उद्वेगं तत्फलं स्मृतम् ।वंशक्षीरी तुकाक्षीरी त्वक्क्षीरी वंशरोचना ॥ ७७ ॥
3.77 · p. 61
अनुष्टुप्
यावन्ति नागनामानि ततो वल्ली नियोज्यते ।ताम्बूली च तथा प्रोक्ता स्मृता ताम्बूलवल्यसौ ॥ ७८ ॥
3.78 · p. 61
अनुष्टुप्
गुञ्जा तु कृष्णला तुल्ये विशाला चेन्द्रवारुणी ।हारहूरा तु मृद्वीका गोस्तनी द्राक्षया सह ॥ ७९ ॥
3.79 · p. 62
अनुष्टुप्
उशीरं वीरुणीमूले कमलं नलिनं कजम् ।पुण्डरीकं च --------पुष्करं पङ्कजं समे ॥ ८० ॥
3.80 · p. 62
अनुष्टुप्metre not read in every line
राजीवमरविन्दं तु पुण्डरीकं सिताम्बुजम् ।रक्तोत्पलं तु रक्ताब्जं तत्स्यात्कोकनदं पुनः ॥ ८१ ॥
3.81 · p. 62
अनुष्टुप्
उत्पलं च कुवलयं कुवेलं कुवलं कुवम् ।कमलिन्यां तु नलिनी पङ्कजिन्यपि दृश्यते ॥ ८२ ॥
3.82 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 च (wrong syllable)
मृणालिनी कुमुद्वत्यामथ कैरविणी स्मृता ।इन्दीवरं नीलपद्मे श्वेते च कुमुदं समम् ॥ ८३ ॥
3.83 · p. 62
अनुष्टुप्
कैरवं गर्दभाख्यं च पद्मनाले च कर्णिका ।वराटको बी[35]जकोशो मृणाले बिसतन्तुले ॥ ८४ ॥
3.84 · p. 62
अनुष्टुप्
केसरे त्वथ किञ्जल्के करहाटः शिफा मता ।उत्पलानां तु कन्दे स्याच्छालूकं चाथ शेवले ॥ ८५ ॥
3.85 · p. 62
अनुष्टुप्
शेपालं तु शेवालं शैवालं जलनीलिका ।सस्यसीत्ये समे धान्यं व्रीहिस्तम्बकरी समे ॥ ८६ ॥
3.86 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 शे (syllables merged)
षष्टिको गर्भपाकी च पाटलस्त्वाशुरुच्यते ।कलामकस्तु कलमो रक्तशालिस्तु लोहिते ॥ ८७ ॥
3.87 · p. 62
अनुष्टुप्
सौगन्धिको महाशालिर्भेदाः शालेस्तु भूरयः ।हयप्रियस्तीक्ष्णशूको यवस्तोक्मो हरिन्मतः ॥ ८८ ॥
3.88 · p. 63
अनुष्टुप्
मङ्गल्यको मसूरस्तु मयुष्टकमकुष्टकौ ।वनव्रीहौ तु नीवारः श्यामाकः श्यामकोऽपि च ॥ ८९ ॥
3.89 · p. 63
अनुष्टुप्
सतीनककलायौ तु चणको हरिमन्थकः ।बलाटः प्रथनो लोभ्यो मुद्गस्तु हरितो हरिः ॥ ९० ॥
3.90 · p. 63
अनुष्टुप्
बली बीजवरो माषः गोधूमसुमनौ [समौ ?] ।शितिशिम्बिकवल्लौ तु कालवृन्तं कुलत्थकः ॥ ९१ ॥
3.91 · p. 63
अनुष्टुप्
कङ्गुक्वङ्गू कङ्गुनी च सर्षपस्तन्तुभो मतः ।कदम्बकः स च श्वेतः सिद्धार्थः कथितो बुधैः ॥ ९२ ॥
3.92 · p. 63
अनुष्टुप्
सस्यशूकं तु किंशारुः कणिशं धान्यमस्तके ।स्नुहिर्वज्री महावृक्षो कम्पिल्लो रक्तचूर्णकः ॥ ९३ ॥
3.93 · p. 63
अनुष्टुप्
भिण्डी रक्ता त्रिभण्डी च त्रायन्ती त्रायमाणकम् ।गन्धपुष्पस्ताम्रफलोऽप्यङ्कोठो दीर्घकीलकः ॥ ९४ ॥
3.94 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्ता (wrong syllable)
तुरगी वराहकर्णी च बल्या स्यादश्वगन्धिका ।पुनर्नवा कटिल्लः स्यात्सैरेयकसहाचरौ ॥ ९५ ॥
3.95 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सोफका सितिपुष्पाची अहिच्छिन्ना शिका मिसिः ।नालपत्री तालपर्णी मिश्रे या च मिसिस्तथा ॥ ९६ ॥
3.96 · p. 64
अनुष्टुप्
उग्रगन्धा वचा प्रोक्ता जटिलोग्रा च लोमशा ।जन्तुहन्त्री वि[36]डङ्गः स्यात्कुटजो गिरिमल्लिका ॥ ९७ ॥
3.97 · p. 64
अनुष्टुप्
शुक्राह्वेन्द्रयवा प्रोक्ता वराङ्गं त्वचमुच्यते ।तमालपत्रकं पत्रं वाह्लीकं हिङ्गु रामठम् ॥ ९८ ॥
3.98 · p. 64
अनुष्टुप्
सूक्ष्मैला बहुला तुत्था द्रविडी त्रुटिरित्यपि ।चाम्पेयं नागपुष्पं तु केसरं नागकेसरम् ॥ ९९ ॥
3.99 · p. 64
अनुष्टुप्
कुस्तुम्बरु तु धान्याकं धन्याकं धन्यया सह ।क्षवः क्षुताभिजननो राजसर्षपराजिके ॥ १०० ॥
3.100 · p. 64
अनुष्टुप्
कृष्णा सा चासुरी प्रोक्ता मरिचं कोल्लकोषणे ।वेल्लजं यवनेष्टं च कृष्णं स्याद्धार्मपत्तनम् ॥ १०१ ॥
3.101 · p. 64
अनुष्टुप्
मागधी पिप्पली कृष्णा कणा स्यादुपकुल्यया ।वैदेही पिप्पलीमूले ग्रन्थिकं कथितं बुधैः ॥ १०२ ॥
3.102 · p. 64
अनुष्टुप्
कणाजाजी जीरकश्च चविका कोलवल्ल्यपि ।चव्यं च चविकं प्रोक्तं श्रेयसी गजपिप्पली ॥ १०३ ॥
3.103 · p. 65
अनुष्टुप्
रसाम्लः शीतभेदी च भीमश्चाप्याम्लवेतसः ।अजमोदा खराह्वा च कारवी लोमकर्कटी ॥ १०४ ॥
3.104 · p. 65
अनुष्टुप्
मातुलानी शणं भङ्गा उमा स्यादतसी क्षुमा ।गवेधुकागवेधू च जर्तिकोऽरण्यजे तिले ॥ १०५ ॥
3.105 · p. 65
अनुष्टुप्
अरिष्टो लसुनो म्लेच्छकन्दश्चापि रसोनकः ।महौषधं महाकन्दो दीर्घपत्रः पृथक्पुनः ॥ १०६ ॥
3.106 · p. 65
अनुष्टुप्
गृञ्जनश्चाप्याथ भृङ्गराजः स्यात्केशरञ्जनः ।मार्कवश्च भृङ्गरजो वायसी काकमाच्यपि ॥ १०७ ॥
3.107 · p. 65
metre not recognised
कूष्माण्डककर्कारू कारवेल्लकटिल्लकौ ।सूरणः कथितोऽर्शोघ्न आर्द्रकं शृङ्गबेरके ॥ १०८ ॥
3.108 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 कू (syllables merged)
कर्कटी चिर्भटी तुल्ये वालुङ्की तु तथा स्मृता ।सुगन्धकः किलासघ्नः कर्कोटस्तिक्तपत्रकः ॥ १०९ ॥
3.109 · p. 65
अनुष्टुप्
सेकिमं हरिपर्णं तु मूलकं हस्तिदन्तकम् ।कुशो बर्हिः पवित्रं च कुथदर्भावुभौ समौ ॥ ११० ॥
3.110 · p. 66
अनुष्टुप्
तेजनो मुञ्जगुन्द्रौ च दूर्वा स्याच्छतपर्विका ।हरिताली रुहानन्ता नडपोटगलौ समौ ॥ १११ ॥
3.111 · p. 66
अनुष्टुप्
धमनः कुरुविन्दोऽपि मुद्रा गुद्रा तथोच्यते ।असिपत्रस्तथेक्षुः स्याद्रसालस्तद्भिदा यथा ॥ ११२ ॥
3.112 · p. 66
अनुष्टुप्
पुण्ड्रकान्तारमुख्याः स्युस्तन्मूलं मोरटं स्मृतम् ।इषीकाकाश इत्येवमर्जुनं यवसं तृणम् ॥ ११३ ॥
3.113 · p. 66
अनुष्टुप्
घासोऽथ -----------विषः क्ष्वेडो हलाहलः ।कालकूटं वत्सनागो ब्रह्मपुत्रोऽपि दारदः ॥ ११४ ॥
3.114 · p. 66
metre not recognised
प्रदीपनश्च काकोलः सौल्किकेयस्तथापरः ।सौराष्ट्रिकोऽप्यहिच्छत्रो मर्कटो मेषशृङ्गकः ॥ ११५ ॥
3.115 · p. 66
अनुष्टुप्
तथा हैमवतेन्द्रौ च सर्षपो मूलकोऽपरः ।कालिङ्गो विस्फुलिङ्गोऽपि गौतमोऽप्येष विश्रुतः ॥ ११६ ॥
3.116 · p. 66
अनुष्टुप्
सक्तुकः कर्दमोऽङ्कोल्लसारोऽपि मधुसिक्थकः ।अग्रबीजास्तत्र केचिन्मूलबीजास्तथापरे ॥ ११७ ॥
3.117 · p. 66
अनुष्टुप्
सल्लकीप्रमुखाः स्कन्धजास्तु बीजरुहा मताः ।सम्मूर्च्छजास्तथा केचित्पर्वयोनय इत्यपि ॥ ११८ ॥
3.118 · p. 67
अनुष्टुप्
एवं षड्भिदः सर्वस्तरुवर्गो निवेदितः ।कृमिरन्तर्जनिर्जीवो नीलङ्गुस्तु बहिर्भवः ॥ ११९ ॥
3.119 · p. 67
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 ए (syllables merged)
क्षुद्रकीटस्तथा तुल्यः पुलकास्तूभये मताः ।काष्ठकीटघुणौ तुल्यौ कुसूकिंचुलकौ समौ ॥ १२० ॥
3.120 · p. 67
अनुष्टुप्