कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Paramānandīyanāmamālā

परमानन्दीयनाममाला Paramānandīyanāmamālā

1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)

लिङ्गानुशासनम् · पुंलिङ्गसंग्रहः

[ अथ पुंलिङ्गसंग्रहः ।]

हस्तदन्तनखौष्ठान्धुगुच्छगुल्फपतद्ग्रहाः ।स्तननाककपोलारिरसवोलरथाः समाः ॥ ६ ॥
6.1.6 · p. 211
अनुष्टुप्
हैमाशनी कुठारोऽपि दिनसर्तुविषाकवः ।निर्यासकण्ठकोष्ठाब्दा एते नरि सनामकाः ॥ ७ ॥
6.1.7 · p. 211
अनुष्टुप्
वर्षश्वेतप्लवाः शोणः पङ्कमन्थजलाशयाः ।मुरजात्मासिमासाद्रिबाणध्वानाध्वराग्नयः ॥ ८ ॥
6.1.8 · p. 212
अनुष्टुप्
निधिरश्मिकफा वायुद्रुममानार्थवाचकाः ।देहभृद्विषयाद्याः स्युः सभेदा नरलिङ्गगाः ॥ ९ ॥
6.1.9 · p. 212
अनुष्टुप्
बर्हध्वनिः पर्णपिच्छभिन्नार्थे नरलिङ्गगः ।वप्रेऽहिः पुंसि तद्भिन्नवाच्ये भेदोऽपि वक्ष्यते ॥ १० ॥
6.1.10 · p. 212
अनुष्टुप्
हायनो व्रीहिगः पुंसि वह्नौ बर्हिस्तथा नरे ।मस्तुर्धानाविकारे त्वच्छो नरे स्फटिकार्थगः ॥ ११ ॥
6.1.11 · p. 212
अनुष्टुप्
इने मित्रो नरे नीलो मणौ भेकेश्वरे पुमान् ।अस्रः कोणे पुमान् कोशश्चषकार्थे नरो मतः ॥ १२ ॥
6.1.12 · p. 212
अनुष्टुप्
दारासुबल्वजा भूम्नि तलस्तालचपेटयोः ।सूर्यचन्द्रायसामग्रे कान्तशब्दः पुमान् स्मृतः ॥ १३ ॥
6.1.13 · p. 212
अनुष्टुप्
यानार्थवाचकादग्रे युगशब्दो नृलिङ्गगः ।पुमान् स्यादसमाहारे द्वन्द्वोऽश्ववडवाविति ॥ १४ ॥
6.1.14 · p. 212
अनुष्टुप्
वाकोत्तरपदाः शब्दाः सूक्तवाकादयो नरे ।नक्तको रल्लकाङ्कौ च तरङ्गो रङ्ग इत्यपि ॥ १५ ॥
6.1.15 · p. 212
अनुष्टुप्
पराग उत्तरासङ्गन्युङ्खपूगसृगा नरे ।मस्तुलुङ्गकुडङ्गौ च मङ्गकालिङ्गमञ्चकाः ॥ १६ ॥
6.1.16 · p. 212
अनुष्टुप्
तमङ्गापाङ्गवर्गौघखगार्घाः पुच्छगच्छकौ ।मुञ्जपुञ्जावटाः पट्टकोष्ठौ पिच्छौजवाजकाः ॥ १७ ॥
6.1.17 · p. 212
अनुष्टुप्
कलिञ्जगण्डौ लगुडः पिचण्डोवरण्डकूष्माण्डकरण्डरुण्डाः ।नाडीव्रणाङ्गुष्ठह[2]ठा गुणश्चघटो नरे भ्रूणशिखण्डचण्डाः ॥ १८ ॥
6.1.18 · p. 213
उपजातिः
अलक्तकुन्तौ पृषताः कपर्दोगदागदौ बुद्बुदपोतगन्धाः ।अगाधपिष्टातसुदर्शनाश्चशम्बाम्बतिष्याः सिचयोल्लपुण्ड्राः ॥ १९ ॥
6.1.19 · p. 213
उपजातिः
अर्धःखण्डे पुमान् स्कन्धोत्पातव्रातार्थदेवनाः ।मकरन्दकलापारकटप्रामित्रपुद्गलाः ॥ २० ॥
6.1.20 · p. 213
अनुष्टुप्
वर्षारात्रादयः पुंस्यपवादोऽपि च वक्ष्यते ।पूर्वाह्णाद्यास्तु पुंलिङ्गेऽपराह्णः पुंनपुंसके ॥ २१ ॥
6.1.21 · p. 213
अनुष्टुप्
जनाभिजनफेनाश्च वृत्रमन्त्रौ च देवलः ।खल्लतल्लौ तु कल्लोलपूपापूपकहिङ्गुलाः ॥ २२ ॥
6.1.22 · p. 213
अनुष्टुप्
पुष्यो जनपदो रेफशोफौ सूपनितम्बकौ ।स्तम्बो निकाय्यः कण्डोलजगलौ गोलतण्डुलौ ॥ २३ ॥
6.1.23 · p. 213
अनुष्टुप्
कालः पोटगलावेलबालाः फालगलौ तथा ।वातूलबहुलौ पत्रपालो भृमलकामलौ ॥ २४ ॥
6.1.24 · p. 213
अनुष्टुप्
निचोलतालकुद्दलयावस्वस्रुवरौरवाः ।दावध्रुवकहावांशपणवादीनवस्पशाः ॥ २५ ॥
6.1.25 · p. 214
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 द्द (wrong syllable)
शिवावयवकोटीशवंशोड्डीशवृषाः कुशः ।पुरेडाशवरासी च निर्यूहर्षी घृणिध्वनी ॥ २६ ॥
6.1.26 · p. 214
अनुष्टुप्
कुल्माषमाधवौ पक्षराशिदुन्दुभिरालयः ।निष्कुहः कलहो ज्ञातिपाणिवृष्ण्यविकुक्ष्यः ॥ २७ ॥
6.1.27 · p. 214
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वह्न्यग्निदीदिविग्रन्थिकृमयो वमतिस्तथा ।गिरिजायू दृतिः शिश्रुरर्दनिः कलिरञ्जलिः ॥ २८ ॥
6.1.28 · p. 214
अनुष्टुप्
हाहाहूहूर्नग्नहूर्गर्मुदंह्रीपादश्मानौ ------ यक्ष्मतुल्याः ।पञ्चाहाद्या ये समाहारगम्याःपुंलिङ्गे स्यात्स्थेमशब्देऽपि नन्तः ॥ २९ ॥
6.1.29 · p. 214
शालिनीmetre not read in every line
कान्ताष्टान्ता णान्तपान्ता भमान्ताघान्ता रान्ता यान्तवान्ताश्च सान्ताः ।स्त्वन्ता भूम्ना पुंसि शब्दाः सुधीभिःप्रोक्तास्तेषां वक्ष्यते चापवादः ॥ ३० ॥
6.1.30 · p. 214
शालिनी