पिठर
piṭharaपुं · masc.In 15 kośas: 17 synonym verses, 7 as a nānārtha head word, 1 as a meaning of another word.
स्थाल्युखा पिठरं कुण्डं चरुः कुम्भी घटः पुनः ।कुटः कुम्भः करीरश्च कलशः कलसो निपः ॥ १०१९ ॥
अनुष्टुप्
genderक्लीneut.
पिठरः स्थाल्युखा कुण्डं कलशस्तु त्रिषु द्वयोः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
अङ्गारशकटीं प्राहुर्हसन्तीं च हसन्तिकाम् ।उखा स्थाली चरुः कुम्भी पिठरं कुण्डमुच्यते ॥ ३१४ ॥
अनुष्टुप्
genderक्लीneut.
घृतादिना क्लेदिनि स्यात्कटाहस्त्रिष्वलिञ्जरः ।अस्त्रियां पिठरं कुण्डं क्लीब आस्थाल्युखे स्त्रियौ ॥ १०१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
वराहः पूर्णको[47b]ष्टश्च भद्रहंसोऽपरः पुनः ।नादेयः पिण्डमुस्तः स्यान्नागरः पिठरं च सः ॥ ११ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
वार्द्धनी कारकोऽस्त्री स करङ्को नालिकेरजः ।* * * * * * * * कुम्भी कुम्भीरुखा कुला ।चरुर्ना पिठरस्त्रय्यां कलशः कलसस्त्रिषु ।घटः कुम्भः करीरो ना न स्त्री कुट-निपावुभौ ।घटः कुम्भश्च मिथुने करीरोऽस्त्री कुटो निपः ॥ ६४ ॥
अनुष्टुप्metre not read in every line
genderपुंस्त्रीक्लीm. f. n.
समेऽर्द्धो इङ्गुदो जृम्भो दाडिमं कन्दरं [दरम्] ।पात्रं छत्रं च वल्लूरं नखरं पिठरं पुरम् ॥ ८८ ॥
अनुष्टुप्
genderपुंस्त्रीक्लीm. f. n.
चुल्यधिश्रयिणी स्थाली पिठरोखे चरुस्तथा ।कुटो निपो कटः कुम्भः करीरकलसौ समौ ॥ २९७ ॥
अनुष्टुप्
genderपुंmasc.
तटपुटवटवाटाः कुण्डपेटौ कपाटःकटशकटविडङ्गास्तारकस्तूणनीडौ ।पटपिटकविषाणा आढको मण्डलस्तुकुवलपिठरछत्राः कङ्कतः कन्दलोऽपि ॥ १७६ ॥
मालिनीmetre not read in every linenearly मालिनी: pāda 2, syllable 6 र (wrong syllable)
genderविadj.
कुण्डे तु पिठरः स्थाली पिठरी चाप्युखा सुखा ।घटे तु कुमुदः कुण्डी निपातः(वः?) कुट इत्यपि ॥ ४४७ ॥
अनुष्टुप्
genderपुंmasc.
उखा चरुरुषा स्थाली कुम्भी कुण्डं च पिठरम् ॥ १७५२ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कुत्रङ्गः पिठरञ्चैवमुद्घाटः सस्वभेदकाः ।मञ्चेन्द्रकोषौ स्याद्ब्रह्मशासनं धर्मकीलकः ॥
अनुष्टुप्
genderक्लीneut.
भाण्डभेदे तु चल्लक उष्ट्रिका चुल्लकेत्यपि ।स्थाली कुण्डञ्च कुण्डा च पिठरं कुण्ड्युखापि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ल्ल (wrong syllable)
genderक्लीneut.
अखन्तकमखन्तं च चुल्लि-चुल्ल्यावुदः परे ।हानं धानं ध्मानं च, पिठरस्त्रिषु चोखया ॥ ५९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 नं (syllables merged)
genderविadj.
अवगाहो जलद्रोणिः कटाहः कर्परः समौ ।स्थाल्युखा पिठरः कुण्डं मणिकं तु त्रिलिङ्गकम् ॥ ८९६ ॥
अनुष्टुप्
genderपुंmasc.
कायमानं तृणकुटी दुर्भटं निभृतं गृहम् ।कुडङ्गोद्घाटपिठरा इन्द्रकोषस्तु मञ्चकः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
हसन्त्यङ्गारशकटी हसन्यङ्गारधान्यपि ।पिठरः स्थाल्युखा कुंभिः पिधानं स्यादुदञ्चनम् ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
अन्यत्र पिप्परा वृक्षभेदे स्यात् पिठरं तु नप् ।मन्थानदण्डेऽपि प्राह रभसः शब्दवित्तमः ॥ ११८० ॥
अनुष्टुप्
meaningsमन्थानदण्ड
मुस्तके पिठरी तु स्यात् स्थाल्यां स्त्री शण्डलिङ्गकः ।स्थाल्यां तूक्त्वा पृथग्ब्रूत उखायां शाकटायनः ॥ ११८१ ॥
अनुष्टुप्
meaningsमुस्तक
पिठर as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप पक्त्रइन्द्रपुच्छेति वर्गस्याप्यादितस्त्रिषु सामसु । पक्त्रं तु गार्हपत्येऽपि पिठरे पक्ष्मवाक् पुनः ॥ ३८ ॥ Nānārthārṇavasaṃkṣepa 2.3.38