खनि
khaniस्त्री · fem.In 18 kośas: 18 synonym verses, 2 as a nānārtha head word, 8 as a meaning of another word.
स्यादाकरः खनिः खानिर्गञ्जा धातुस्तु गैरिकम् ॥ १०३६ ॥
अनुष्टुप्
genderस्त्रीfem.
genderस्त्रीfem.
अयस्कान्तविशेषाः स्युश्चुम्बकभ्रामकादयः ।आकरः स्यात्खनिर्गञ्जा रुमा च लवणाकरः ॥ १६९ ॥
अनुष्टुप्
genderस्त्रीfem.
कुडुङ्गोऽपि निकुञ्जोऽपि कुञ्जो वृक्षलतान्तरे ।आकरस्तु खनिर्गञ्जा रुमा तु लवणाकरः ॥ १८९ ॥
अनुष्टुप्
genderस्त्रीfem.
खनिः खानिः खनी च स्यात् तुल्यौ द्वौ हीरहीरकौ ।अटवी(वि?)मटवीं प्राहुर्वनीमपि वनं तथा ॥ ८८ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्रियां धृषद्धृशच्चापि दृशद्दृषच्छिलापि च ।खनिः खानिः खनी खानी स्यात्स्त्रियामाकरश्च ना ॥ २३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्दृ (wrong syllable)
genderस्त्रीfem.
स्याद्वितर्दिस्तिरीतिश्च दर्विर्नी विश्छविर्लविः ।राजिर्जाती रुचिः श्रेणी सूचिः साची खलिः खनिः ॥ ३५ ॥
अनुष्टुप्
genderस्त्रीfem.
उद्देशो गण्डकूपोऽद्रेः खनिः खानिः स्त्रियामुभे ।आकरो ना द्वयोर्गञ्जा चाथाकरिक-खानिकौ ।त्रिष्वाकरे नियुक्तौ यौ रुमा स्त्री लवणाकरः ॥ १९ ॥
अनुष्टुप्
genderस्त्रीfem.
गिरेर्मनःशिलादिः स्याद्धातुः स्याद्गैरिकादिकम् ।अथाकरे खनिः खानिर्लोहं कालायसं घनम् ॥ ३१६ ॥
अनुष्टुप्
genderस्त्रीfem.
विस्रसेशावली भङ्ग्यायतिः शाला ( शिला?) च सर्वला ।साचिः सूची रुचिः खानिः खनिः खारी क्लमिः कृषिः ॥ ५८ ॥
अनुष्टुप्
genderस्त्रीfem.
मनःशिला मर्मशिला रत्नभूराकरः खनिः ।हरितालं पीतरसं कर्चूरं गिरिपित्तकम् ॥ १२३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पी (wrong syllable)
genderस्त्रीfem.
genderस्त्रीfem.
गण्डशैलास्तु ते शैलाच्च्युताः स्थूलोपलाश्च ये ।खनिः खानिः खनी खानी वाकरो रत्नजन्मभूः ॥
अनुष्टुप्
genderस्त्रीfem.
शिलाशिल्यौ ग्रावाकारे खनी खानी खनिस्तथा ।निधितडागयोरप्येतौ द्वौ, धातौ तु गैरिकम् ॥ ७३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ग्रा (wrong syllable); pāda 3, syllable 3 त (wrong syllable)
genderस्त्रीfem.
प्रत्यन्तो म्लेच्छदेशः स्यादपरान्तस्तु पश्चिमः ।प्राकरस्तु खनिः स्त्री स्याद्रुमा तु लवणाकरः ॥ ३८९ ॥
अनुष्टुप्
genderस्त्रीfem.
शिवमल्ली झिल्लिचुल्ली वल्ली मल्ली मतल्ल्यपि ।दर्विर्वेदिः खनिः श्रोणिरश्रिरङ्गुलिरोषधिः ॥ २३०९ ॥
अनुष्टुप्
genderस्त्रीfem.
genderस्त्रीfem.
कुडङ्गोऽस्त्री निकुञ्जोऽस्त्री कुञ्जो वृक्षवृतान्तरे ।आकरस्त्री खनिर्गञ्जा रुमा तु लवणाकरः ॥ १० ॥
अनुष्टुप्
genderस्त्रीfem.
गर्ते तु कश्चिदाहाथो खलिः स्त्री पिष्टतण्डुले ।घनद्रवे द्रव्यभेदे जलपक्वे परे पुनः ॥ ३१५ ॥
अनुष्टुप्
meaningsगर्त
doubtful
खनि as a meaning in nānārtha verses
- धरणिकोश गञ्जागुञ्जा तु वाद्यभाण्डं स्यात्काकचिञ्च्यां कलध्वनौ । गञ्जो रीढा भाण्डागारे गञ्जा खन्यां सुरागृहे ॥ Dharaṇikośa 7.2.4
- कोषकल्पतरु गञ्जाक्लीबे प्रजाविस्तृतिलोकलाम- ज्जकेषु गुञ्जा तु कलध्वनौ स्त्री । स्यात्काकणन्त्यां पटहेऽथ गञ्जा द्वयोः खनौ मद्यगृहे पुनः स्त्री ॥ २७ ॥ Koṣakalpataru 6.7.27
- कोषकल्पतरु कामिकृष्यन्विते रासभवाचक[32b]श्च कामिस्तु खन्यां त्रिषु कामुके सा । होमिः पुमान्पावकसर्पिषोः स्यात् लक्ष्मीः स्त्रियां संपदि [वि]ष्णुनार्याम् ॥ ७४ ॥ Koṣakalpataru 6.25.74
- परमानन्दीयनाममाला गण्डकपोले गण्डके गण्डश्चिह्ने योगे खनावथ । गोपस्तु वल्लवे भूपे ग्रामयुक्ते मुनीश्वरे ॥ १५२ ॥ Paramānandīyanāmamālā 5.9.152
- शब्दरत्नावली गञ्जाखर्जूः स्त्रियान्तु कण्डूतौ खर्जूरी द्रुमकीटयोः । गञ्जा खनौ स्वरागे(?) स्यात् तथा पामरसद्मनि ॥ Śabdaratnāvalī 7.8.8
- त्रिकाण्डशेष गञ्जनखे करञ्जे करजः कुब्जो न्युब्जे द्रुमान्तरे । खनौ सुरागृहे गञ्जो गुञ्जा पटहकृष्णले ॥ ८३ ॥ Trikāṇḍaśeṣa 3.3.83
- वैजयन्ती गञ्जागव्यूतौ गोगणे गव्या ज्यायागद्रव्ययोर्नपुम् । भाण्डागारे पुमान् गञ्जः स्त्री तु खन्यां सुरागृहे ॥ २६ ॥ Vaijayantī 6.5.26
- वैजयन्ती आकररुग्भीतितापेष्वातङ्क आशुगोऽर्के शरेऽनिले । तदात्वे पात आपात आकरो निकरे खनौ ॥ ९ ॥ Vaijayantī 7.1.9