All kośas › Vaijayantī
वैजयन्ती Vaijayantī
3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)
भूमिकाण्डः · शैलाध्यायः
इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां भूमिकाण्डे देशाध्यायः
शैलोऽगः पर्वतः क्ष्माभृत् सानुमान् दुर्गमो गिरिः ।अहार्यगोत्रकुट्टीरकुट्टारा भूधरोऽचलः ॥ १ ॥
3.2.1 · p. 41
अनुष्टुप्
बन्धाकिः फलिकः कुध्रः प्रपात्यद्रिः शिलोच्चयः ।सुवेलः स्याच्चित्रकूटस्त्रिकूटस्त्रिककुच्च सः ॥ २ ॥
3.2.2 · p. 41
अनुष्टुप्
लोकालोकश्चक्रवालो लोकांताद्रिः पराचलः ।मलये त्रिकलाषाढौ विन्ध्यस्तु जलवालकः ॥ ३ ॥
3.2.3 · p. 41
अनुष्टुप्
हिरण्यनाभो मैनाकः सुदारुः पारियात्रकः ।माल्यवांस्तु प्रस्रवणो हिमवांस्तु हिमाचलः ॥ ४ ॥
3.2.4 · p. 41
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्र (wrong syllable)
रजताद्रिस्तु कैलासो हराद्रिर्महितश्च सः ।वेंकटो वृषभः सिंहः केसरः केशवप्रियः ॥ ५ ॥
3.2.5 · p. 41
अनुष्टुप्
उदयस्तूदयाद्रिः स्यादस्तस्त्वस्तमयाचलः ।दरी गुहा कन्दरोऽक्ली प्रपातस्तु तटो भृगुः ॥ ६ ॥
3.2.6 · p. 41
अनुष्टुप्
उत्सः प्रस्रवणं तोयप्रवाहे झरनिर्झरौ ।स्नुर्वप्रोऽस्त्री सानुरस्त्री पादाः पर्यंतपर्वताः ॥ ७ ॥
3.2.7 · p. 41
अनुष्टुप्
कूटोऽस्त्री शिखरं शृंगं नितंबः कटकोऽस्त्रियाम् ।पाषाण उपलोऽश्मा च प्रस्तरश्च शिला दृषत् ॥ ८ ॥
3.2.8 · p. 41
अनुष्टुप्
गंडशैलास्तु पाषाणाः स्थूलाः प्रगलिता गिरेः ।उपत्यका त्वधोभूमिर्गिरेरूर्ध्वमधित्यका ॥ ९ ॥
3.2.9 · p. 41
अनुष्टुप्
कुडङ्गोऽस्त्री निकुञ्जोऽस्त्री कुञ्जो वृक्षवृतान्तरे ।आकरस्त्री खनिर्गञ्जा रुमा तु लवणाकरः ॥ १० ॥
3.2.10 · p. 41
अनुष्टुप्
गैरिकं पीतधातुः स्यात् कुनटी तु मनः शिला ।रोचनी रञ्जनी हृद्या रसनेत्री महासना ॥ ११ ॥
3.2.11 · p. 41
अनुष्टुप्
करवीरा कला विद्युन्नागमाता विगन्धिका ।शिला मनोऽभिधा काला नागजिह्वा च ताः समाः ॥ १२ ॥
3.2.12 · p. 42
अनुष्टुप्
शुक्लधातौ पाकशुक्ला कठिनी कक्खटी खटी ।हरितालं तु खर्जूरं पिञ्जरं नटभूषणम् ॥ १३ ॥
3.2.13 · p. 42
अनुष्टुप्
तालमालं वंशपत्रं पीतनं रोमहृद्वरम् ।सौगन्धिकस्तु पामारिः पीतो गन्धाश्मगन्धकौ ॥ १४ ॥
3.2.14 · p. 42
अनुष्टुप्
बोलो गोलः शशः पिण्डः प्राणो गन्धरसो रसः ।अभ्रकं व्योममेघाख्यं चक्रसंज्ञं नु माक्षिकम् ॥ १५ ॥
3.2.15 · p. 42
अनुष्टुप्
शिलाजतु तु गैरेयमर्थ्यमश्मजमद्रिजम् ।सौराष्ट्री पार्वती काक्षी कालिका पर्पटी सती ॥ १६ ॥
3.2.16 · p. 42
अनुष्टुप्
आढकी तुवरी काली भूनामा च मृदाह्वया ।सुराष्ट्रजाप्यथो गोला नैपाली कुनटीति च ॥ १७ ॥
3.2.17 · p. 42
अनुष्टुप्
रुक्मं कार्तस्वरं स्वर्णं महारजतमौजसम् ।चामीकरं जातरूपं तपनीयं शिलोद्भवम् ॥ १८ ॥
3.2.18 · p. 42
अनुष्टुप्
लोभनं कनकं शुक्रं सुवर्णं चन्द्रकानञ्चने ।दाक्षायणं श्रीमकुटं गारुडं तारजीवनम् ॥ १९ ॥
3.2.19 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अग्निबीजं रत्नवरं गैरिकं हेम कर्बुरम् ।जाम्बूनदं शातकुम्भं हाटकं भूरिरस्त्रियौ ॥ २० ॥
3.2.20 · p. 42
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
वैणवं कर्णिकाराभं वेणूतटजकाञ्चनम् ।सुवर्णद्वीपजास्वर्णशुक्तिकाभ्रकसन्निभाः ॥ २१ ॥
3.2.21 · p. 42
अनुष्टुप्
रसविद्धं तु देवार्हं पवित्रं वज्रधारणम् ।अलंकारसुवर्णं तु शृंगीकनकमाशु च ॥ २२ ॥
3.2.22 · p. 42
अनुष्टुप्
रूप्यहेम्री तु संश्लिष्टे घनगोलकमस्त्रियाम् ।रजतं त्रापुषं रूप्यं चन्द्रभीरु यवीयसम् ॥ २३ ॥
3.2.23 · p. 42
अनुष्टुप्
सौधं सुभीरुकं शुभ्रं खर्जूरं वंगजीवनम् ।ताम्रं शुल्बं मर्कटाम्यं रक्तं व्यष्ठं कनीयसम् ॥ २४ ॥
3.2.24 · p. 43
अनुष्टुप्
म्लेच्छ वरिष्ठं म्लेच्छास्यं श्रेष्ठं काम्यमुद्रुंबरम् ।रिरी तु रीतिरुत्साहा पीतलोहं सुलोहकम् ॥ २५ ॥
3.2.25 · p. 43
अनुष्टुप्metre not read in every line
लाह्यमप्यार कूटोऽस्त्री पित्तलं त्वारमस्त्रियाम् ।राजरीत्यां ब्रह्मरीतिः स्वर्णरातिर्महेश्वरी ॥ २६ ॥
3.2.26 · p. 43
अनुष्टुप्
काञ्चनी कपिला राज्ञी ब्राह्मण कपिलोहकम् ।मीलिकायां तु सरटी निष्ठुरं दारुकण्टकम् ॥ २७ ॥
3.2.27 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ह्म (wrong syllable)
गुरुज्येष्ठं सिंहमलं पञ्चलोहान्यलोहके ।कांस्यं नु कृत्रिम नाट्यं प्रभासमसुराह्वयम् ॥ २८ ॥
3.2.28 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
घण्टास्वनं भृरिलोहं रवणं लोहजं मलम् ।सौराष्ट्रं चाथ सीसोऽस्त्री योगेष्टं भुजगाह्वयम् ॥ २९ ॥
3.2.29 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
यवनेष्टं समोलूकं हेमघ्नं भृतलोद्भवम् ।त्रपु नागं चीनपट्टं रङ्गमप्यथ पिच्छटम् ॥ ३० ॥
3.2.30 · p. 43
अनुष्टुप्
रङ्गं वङ्गं त्रपु क्षोभ्यं मृद्वङ्गं नागजीवनम् ।परासं सिंहलं ज्येष्ठं वक्राख्यं मुखभूषणम् ॥ ३१ ॥
3.2.31 · p. 43
अनुष्टुप्
अयः कृष्णायसं चीनं शस्त्राख्व्यं विषमायुधम् ।धीवरं धीमकं लोहं लौहकालदृढानि च ॥ ३३ ॥
3.2.33 · p. 43
अनुष्टुप्
स्त्री कुटिर्ना पारशवो गिरिसारोऽश्मसारकः ।अथ कालायसं तीक्ष्णं सुलोह रूक्षमासुरम् ॥ ३४ ॥
3.2.34 · p. 43
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable); pāda 4, syllable 3 ह (wrong syllable)
वैकृन्तः स्याद्रसवरो रसज्ञो व्योमधारणः ।रसकस्त्वयसस्मारो विकारो लोहजः कुशी ॥ ३५ ॥
3.2.35 · p. 43
अनुष्टुप्
धूर्तमण्डूरसिंहाणविष्ठाख्यानि त्वयोमले ।लोहं तु तैजसं सर्वं वसु रत्नं मणिर्न षण् ॥ ३६ ॥
3.2.36 · p. 44
अनुष्टुप्
स्फटिकोऽर्को रविग्रावा सूर्यकान्तोऽनलोपलः ।चन्द्रकान्तश्चन्द्रमणिः सुसामोऽथ त्वयोमणिः ॥ ३७ ॥
3.2.37 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्च (wrong syllable)
अयस्कान्तस्तद्विशेषाश्चुम्बकभ्रामकादयः ।गारुत्मतं मरकतमश्मगर्भं हरिन्मणिः ॥ ३८ ॥
3.2.38 · p. 44
अनुष्टुप्
शोणरत्नं लोहितकं पद्मरागोऽरुणोपलः ।विद्रुमो ना प्रवालोऽस्त्री वज्रोऽस्त्री हीरकः पुमान् ॥ ३९ ॥
3.2.39 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 लो (wrong syllable)
इन्द्रनीलं महानीलं वैडूर्यं वालवायजम् ।कुरुविन्दास्तु कुल्माषा रत्नभेदास्तु मौक्तिकम् ॥ ४० ॥
3.2.40 · p. 44
अनुष्टुप्
माणिक्यं पौष्यकं शंखः पुलको विमलादयः ।रसाञ्जनं तार्क्ष्यशैलं शैलेयं रसगर्भकम् ॥ ४१ ॥
3.2.41 · p. 44
अनुष्टुप्
स्रोतोऽञ्जनं तु सौवीरं कपोताञ्जनयामुने ।तुत्थाञ्जनं शिखिग्रीवं वितुन्नकमयूरके ॥ ४२ ॥
3.2.42 · p. 44
अनुष्टुप्
रीतिपुष्पं पुष्पकेतुः पौष्पकं कुसुमाञ्जनम् ।तुत्थं तु दार्विका क्वाथसम्भवं कर्परीति च ॥ ४३ ॥
3.2.43 · p. 44
अनुष्टुप्
कुलुत्थिका तु चक्षुष्या कुम्भकारी कुलालिका ।रसस्तु पारतः सूतो हिंगुलो दारदो रसः ॥ ४४ ॥
3.2.44 · p. 44
अनुष्टुप्