वृक्ष
vṛkṣaपुं · masc.In 21 kośas: 21 synonym verses, 1 as a nānārtha head word, 91 as a meaning of another word.
वृक्षोऽगः शिखरी च शाखिफलदावद्रिर्हरिद्रुर्द्रुमोजीर्णो द्रुर्विटपी कुठः क्षितिरुहः कारस्करो विष्टरः ।नन्द्यावर्तकरालिकौ तरुवसू पर्णी पुलाक्यंह्रिपःसालानोकहगच्छपादपनगा रूक्षागमौ पुष्पदः ॥ १११४ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
वृक्षो महीरुहः शाखी विटपी पादपस्तरुः ।अनोकहः कुटः शालः पलाशी द्रुद्रुमागमाः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
वृक्षोंऽह्रिपः क्षितिरुहः शिखरी च शाखी,शालो वनस्पतिरगो विटपी कुठश्च ।अद्रिः कुजस्तरुरनोकह इत्यभिन्नाः,शब्दा द्रुविष्टरनगद्रुमपादपाश्च ॥ १७७ ॥
वसन्ततिलका
genderपुंmasc.
वार्क्षिकं कानने तु स्याद्वृक्षे तु वसुविष्टिका ।लतायां वल्लरी वल्ली पुष्पे सूनं मणीचकम् ॥ २०२ ॥
अनुष्टुप्
genderपुंmasc.
रजताद्रिस्तु कैलासो हराद्रिरिति कथ्यते ।अङ्घ्रिपः पादपो वृक्षः कुजः शाखी वसुर्द्रुमः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
अस्त्री निकुञ्जकुञ्जौ द्वे लतादिपिहितोदरे ।वृक्षस्तु विटपी स्कन्धी सीमाको हरितच्छदः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
वनस्पतिर्वृक्ष-गच्छ-नन्द्यावर्त-करालिकाः ।पुष्पतः फलवान्वानस्पत्योऽपुष्पो वनस्पतिः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
आत्म-मेघ-तरि-कूप-रिपूणांनिभ( ? )गाङ्गि-किरणासि-कफानाम् ।वृक्ष-तण्डुल-समास-कन्दुक-प्रोन्दुकाशनि-कपर्द-विषाणाम् ॥ ४ ॥
metre not recognisednearly स्वागता: pāda 2, syllable 1 नि (wrong syllable)
genderपुंmasc.
एते शब्दाः स्त्रियांभवन्ति । इयमीर्ष्याऽसूया । रुचिर्दीप्तिः अभिलाषो वा । स्फुलिङ्गा अग्निकणाः । शय्या शयनीयम् । निःश्रेणी अधिरोहणी । कोटिः सङ्ख्या । कुटी गृहम् । वाणी वाक् । पेशी मांसपिण्डी । वरूथिनी सेना । कुथा उर्णाकृता । नाडिका कालपरिमाणम् । कन्था जीर्णवासःप्रावरणम् ।नाड्युपपदं व्रणं पुंसि वृक्षजनपांसुकन्दुककलशाश्च ।पञ्जरपलितद्वन्द्वाक्षराणि विद्यादितरजातौ ॥ ६२ ॥
metre not recognised
genderपुंmasc.
तत्पर्य्यायधरः शैलस्तत्पर्य्यायपतिर्नृपः ।तत्पर्य्यायरुहो वृक्षः शब्दमन्यं च योजयेत् ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
अञ्जनं कज्जलं नागं गजपाटलमारुणम् ।सालं परिधि वृक्षं च कुल्यां स्त्रीं सारणीं विदुः ॥ १८१ ॥
अनुष्टुप्
genderपुंmasc.
अमात्यादेर्गृहोद्याने वनं प्रमदपूर्वकम् ।तरुः शाखी नगो वृक्षः पर्णी कारस्करोंऽह्रिपः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
वृक्षावृतान्तरे कुञ्जो निकुञ्जकुडङ्गावपि ।वृक्षस्तु फलवान्पुष्पैर्वानस्पत्यो विना फलैः ॥ २६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ड (wrong syllable)
genderपुंmasc.
तरुर्महीरुहो वृक्षः पादपो विटपी कुटः ।पलाशी मूलपः शालो दुर्द्रुमो वल्लरीपतिः ॥ १४९ ॥
अनुष्टुप्
genderपुंmasc.
वृक्षो द्रुमस्तरुः शाखी पादपश्च महीरुहः ।अनोकहोंऽह्रिपः सालः पलाशी विटपी कुटः ॥ १४१ ॥
अनुष्टुप्
genderपुंmasc.
वृक्षो रूक्षो द्रुमोऽद्रिश्च हरिद्रुर्द्रुर्महीरहः ॥ १९५२ ॥
अनुष्टुप्
genderपुंmasc.
वृक्षः शाखी द्रुमो गच्छः पलाशी विटपी तरुः ।महीरुहो विष्टरः स्याद् महीरुट् पादपः कुचिः ॥
अनुष्टुप्
genderपुंmasc.
पर्णलः पर्णिलो वृक्षे स्थाने वृक्षैर्वृतान्तरे ।निकुञ्ज-कुञ्जौ जरुट-जरुडौ च, वनस्पतौ ॥ १२४ ॥
अनुष्टुप्
genderपुंmasc.
पादपवृक्षपलाशिद्रुमतरुकुटविटपिशाखिनगसालाः ।अगमो द्ररगो भूरुट् कुजोऽनोकह इत्यपि ॥ ४३९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
वृक्षः कारस्करो गच्छः पलाशो विष्टरः स्थिरः ।चैत्यो देवतरुर्देवावासे करिभकुञ्जरौ ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
पुष्पवाटी त्वमात्यादेस्त्रयी वाटी फलाय चेत् ।वृक्षो द्रुमो भूरुहो द्रुर्विटपी विष्टरोंऽघ्रिपः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
वृक्ष as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् नगघृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ । Amarakośa 3.3.39
- हलायुधकोशः (अभिधानरत्नमाला) पीलुमन्दस्वच्छन्दयोः स्वैरं कक्षः स्यात्कच्छवीरुधोः । करेणुर्गजहस्तिन्योः पीलुश्च गजवृक्षयोः ॥ ८३३ ॥ Abhidhānaratnamālā (Halāyudha) 5.833
- धरणिकोश नगनगावगौ च वृक्षाद्री खगा बाणार्कपक्षिणः । लङ्गः सङ्गे च षिङ्गे च चङ्गः शोभनदक्षयोः ॥ Dharaṇikośa 3.1.3
- धरणिकोश प्रियङ्गुमृदङ्गो घोषके वाद्ये प्रियङ्गुः कङ्गुवृक्षयोः । भुजंगौ षिङ्गभुजगौ मातंगौ श्वपचद्विपौ ॥ Dharaṇikośa 3.1.4
- धरणिकोश गिरिजव्रजा गोष्ठाध्वसंघाता न्युब्जोऽधोमुखकुब्जयोः । भुजः पाणौ च बाहौ च गिरिजो व्याधिवृक्षयोः ॥ Dharaṇikośa 7.1.2
- धरणिकोश वाटवाटो मार्गे वृतौ वाटो वृक्षे च गृहवास्तुनि । त्रुटिः स्यात्संशये चाल्पे सूक्ष्मैलाकालमानयोः ॥ Dharaṇikośa 10.2.6
- धरणिकोश वनस्पतिवनस्पतिर्वृक्षमात्रे विना पुष्पं फलद्रुमे । पुष्पदन्तस्तु दिङ्नागनागविद्याधरान्तराः ॥ Dharaṇikośa 15.2.78
- धरणिकोश पलाशिन्सुकर्मा ग्रहयोगेऽपि अथर्वा ब्राह्मणेऽपि च । पलाशी राक्षसे वृक्षे कञ्चुक्यहिमहल्लयोः ॥ Dharaṇikośa 19.1.20
- धरणिकोश शाखिन्[श्येनाख्यो विहगः पत्री ?] पत्रिणौ शरपक्षिणौ । शाखिनः स्युः तुरुष्काख्या जना वृक्षाश्च शाखिनः ॥ Dharaṇikośa 19.2.11
- धरणिकोश अर्जुनअर्जुनास्तृणवृक्षाक्षिरोगभेदास्तथार्जुनाः । सितपार्थकार्तवीर्याः करतोयार्जुनी च गौः ॥ Dharaṇikośa 19.3.17
- धरणिकोश बहुफलबहुफलस्तु वृक्षेऽपि गोलाङ्गलः कपावपि । पोटगलाः स्मृताः काशा बृहन्नलौ नलार्जुनौ ॥ Dharaṇikośa 27.1.11
- धरणिकोश पीलुपीलुर्मतो गजे वृक्षे क्रिमौ काण्डप्रसूनयोः । कीलः कफोणिकाघाते स्थाणौ च ज्वलनार्चिषि ॥ Dharaṇikośa 27.2.5
- धरणिकोश निचुलनिचुलस्तु निचोलः स्यान्निचुलो वृक्ष इत्यपि । कुरलः पक्षिभेदः स्यात्कुरलश्चूर्णकुन्तलः ॥ Dharaṇikośa 27.2.21
- धरणिकोश रसालरसाल इक्षौ वृक्षे च रसालीं पालकीं ? विदुः । अरालः कुटिले प्रोक्तो रसः सर्जस्य च स्मृतः ॥ Dharaṇikośa 27.2.35
- धरणिकोश पाटलपाटलं पाटला चेति पुष्पे वृक्षे च पाटला । पाटलः श्वेतरक्तः स्यादाशुव्रीहौ च पाटलः ॥ Dharaṇikośa 27.3.28
- धरणिकोश धवधवो नरे धवो वृक्षे धवो भर्ता च योषिताम् । हव आह्वानमाख्यातं हव आज्ञा हवः क्रतुः ॥ Dharaṇikośa 28.2.3
- धरणिकोश प्रग्रहप्रग्रहस्तु तुलासूत्रे वहुवादिमतेऽपि च ? । भासि योक्त्रे च वृक्षे च सुवर्णहलिसाह्वये ॥ Dharaṇikośa 32.3.4
- कल्पद्रुकोशः वाणस्याद्वाणपिप्पलौ वृक्षे नाभिर्वृन्ते तु वर्ष्मणः । बलिरर्थविशेषेऽपि प्रधिर्नेमौ कुटो गृहे ॥ ११० ॥ Kalpadrukośa 3.5.110
- कोषकल्पतरु तित्तिडस्त्री स्याद्गौर्यौषध्यो- र्भेरुण्डो भीमदर्शने परवत् । देवीयक्षीभेदे स्त्रियामथो तित्तिडो वृक्षे ॥ ८७ ॥ Koṣakalpataru 6.12.87
- कोषकल्पतरु करुणमञ्जिष्ठातिविषात्रिवृत्सु वनिता तद्रागवत्स्वन्यव- द्वृक्षे पुंसि रसान्तरे च करुणः प्रोक्तो दयायां स्त्रियाम् । सूर्ये वारिपतौ तरौ च वरुणोऽथो कुब्जपुष्पे भवे- देरण्डे तरुणः स यूनि परवत्स्याद्दारुणो ना रसे ॥ १८ ॥ Koṣakalpataru 6.15.18
- कोषकल्पतरु वनस्पतिसेनापतिः सैन्यपतौ गुहे च लवङ्गपूगद्रुमयोस्तु विष्णौ । लक्ष्मीपतिः स्यादथ वृक्षमात्रे वनस्पतिः पुष्पफलद्रुमे च ॥ ७२ ॥ Koṣakalpataru 6.17.72
- कोषकल्पतरु शिखिन्स्त्रियां गुडूचीत्रिवृतोः शिखी तु वह्नौ वृषे स्याद्विशिखे च वृक्षे । केतुग्रहे केकिनि कुक्कुटे च स्याच्छार्ङ्गकेषु त्रितये सचूडे ॥ ७४ ॥ Koṣakalpataru 6.21.74
- कोषकल्पतरु शिखरिन्वृक्षेऽप्यपामार्गतरौ च दुर्गे क्लीबे तु तद्धीरकरत्नवाचि । व्याले विलासी भुजगे सभोगे निशाचरे किं च तरौ पलाशी ॥ ४० ॥ Koṣakalpataru 6.21.40
- कोषकल्पतरु शाल्मलिवृक्षद्वीपविभेदे शाल्मलिरुक्ता स्त्रियां पुंसि । केवलमेकसमग्रे निर्णीतेऽन्त्ये पुमान्कुहने ॥ ६६ ॥ Koṣakalpataru 6.28.66
- कोषकल्पतरु जीवंजीवजीवंजीवः पक्षिवृक्षप्रभेदे Koṣakalpataru 6.29.59
- कोषकल्पतरु रूक्षवस्त्रे च भित्तावथ वीक्षमीक्ष्ये- द्भुतेऽथ मोक्षो नरि मुष्ककद्रौ । निःश्रेयसे मोचनवाचकोऽथ रूक्षस्तु वृक्षे त्रिषु हार्दही[85b]ने ॥ ५४ ॥ Koṣakalpataru 6.30.54
- कोषकल्पतरु पुरुषस्यात्सूक्ष्मकाले परुषं तु रूक्षे चित्रेऽन्यवन्निष्ठुरभाषके च । स्यात्पूरुषाभः पुरुषो नरे च क्षेत्रज्ञपुंनागकवृक्षयोश्च ॥ ४७ ॥ Koṣakalpataru 6.30.47
- नानार्थार्णवसंक्षेप अगवृक्षावयवभेदे च स्यादगो गिरिवृक्षयोः । अश्नोऽभ्रे भूधरेऽथाभो(?)वायावात्मन्यथार्कवाक् ॥ ८ ॥ Nānārthārṇavasaṃkṣepa 2.2.8
- नानार्थार्णवसंक्षेप कुटिनापितस्योपकरणे कुटिस्तु वृषलालये । पापे वृक्षेऽपि कुध्रस्तु समुद्रे पर्वतेऽपि च ॥ ३३ ॥ Nānārthārṇavasaṃkṣepa 2.2.33
- नानार्थार्णवसंक्षेप धत्रभूमीगुडूच्योर्ध्रत्रस्तु ना वृक्षेऽर्केऽप्यथो नपि । गृहे नभसि सूत्रे च धत्रा तु दिवि सा स्त्रियाम् ॥ ६३५ ॥ Nānārthārṇavasaṃkṣepa 2.5.635
- नानार्थार्णवसंक्षेप नेपनेत्रं नाड्यां तरोर्मूले वस्त्रे दृशि मथो गुणे । क्ली पुंसि चान्ये नेपस्तु नये वृक्षे पुरोहिते ॥ ६९८ ॥ Nānārthārṇavasaṃkṣepa 2.5.698
- नानार्थार्णवसंक्षेप रूक्षत्रिषु वृक्षे तु ना रूढः पुनः पुंसि यवे त्रि तु । कृतप्ररोहणे शब्देऽवयवार्थबहिष्कृते ॥ ११२० ॥ Nānārthārṇavasaṃkṣepa 2.5.1120
- नानार्थार्णवसंक्षेप शिखिन्श्लिकुर्न ना विषादे ना ज्योतिषेऽपि मृगास्थनि । शिखी नाग्न्यंशुवृक्षेषु शरे केतुग्रहे द्विजे ॥ १३७१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1371
- नानार्थार्णवसंक्षेप शुङ्गशुङ्गा त्रयी पल्लवस्य कोश्यां वृक्षस्य ना पुनः । ऋषिभेदेऽमुना प्रोक्तमधीते वेत्ति वापि यः ॥ १३८९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1389
- नानार्थार्णवसंक्षेप उद्दालउद्दालस्तु भवेद्वृक्षे श्लेष्मातक इति श्रुतेः । उन्नते मुकुलाकारे मत्स्यग्रहनसाधने ॥ ५० ॥ Nānārthārṇavasaṃkṣepa 3.2.50
- नानार्थार्णवसंक्षेप विष्टरतथैव शक्तिसम्पत्तौ क्षान्तौ च रभसोऽपठीत् । विष्टरस्त्वासने वृक्षे दर्भमुष्टौ च भाषितः ॥ १९५ ॥ Nānārthārṇavasaṃkṣepa 3.2.195
- नानार्थार्णवसंक्षेप स्यमीकस्यमीकस्त्वपि वल्मीके नृपगोत्रे च कुत्रचित् । वृक्षेऽप्यथ समीकः स्यादर्णवे मिथुनेऽपि च ॥ २३२ ॥ Nānārthārṇavasaṃkṣepa 3.2.232
- नानार्थार्णवसंक्षेप अश्वत्थपन्नगेऽपि पठत्येनं रभसस्तद्विचार्यताम् । अश्वत्थस्तु नृलिङ्गं स्याद् वृक्षे पिप्पलसंज्ञके ॥ ६३ ॥ Nānārthārṇavasaṃkṣepa 4.63
- नानार्थार्णवसंक्षेप अगमचतुर्विंशत्यङ्गुलके वटहीने तु स त्रिषु । अगमस्तु गिरौ वृक्षे गतिहीने तु भेद्यवत् ॥ ११२ ॥ Nānārthārṇavasaṃkṣepa 4.112
- नानार्थार्णवसंक्षेप अङ्कुरिन्अस्थिमानस्थिसङ्घातसंज्ञवल्ल्यन्तरे तु ना । अङ्कुरी तु वसन्ते ना वृक्षे चाथ त्रि साङ्कुरे ॥ १६४ ॥ Nānārthārṇavasaṃkṣepa 4.164
- नानार्थार्णवसंक्षेप चिकुरत्रि तु चित्रशरीरे स्याच्चिकुरस्तु पुमानयम् । केशे वृक्षे वृक्षभेदे रभसः प्रोक्तवानमुम् ॥ ७४६ ॥ Nānārthārṇavasaṃkṣepa 4.746
- नानार्थार्णवसंक्षेप निवेषनिलिम्पस्तु द्वयोर्देवे निलिम्पा तु स्त्रियामियम् । (जाग्र्या ?) निवेषस्तु पुमान् कृपे वृक्ष इतीतरे ॥ १०२४ ॥ Nānārthārṇavasaṃkṣepa 4.1024
- नानार्थार्णवसंक्षेप पादपपादपस्तु पुमान् वृक्षे पादपीठेऽप्यथ स्त्रियाम् । पादपा पादुकायां स्यात् पादरक्षे तु भेद्यवत् ॥ ११३२ ॥ Nānārthārṇavasaṃkṣepa 4.1132
- नानार्थार्णवसंक्षेप पारिन्दपाचलो राधनद्रव्ये पुमान् स्यात् पचने तु नप् । पारिन्दस्तु पुमान् वृक्षे गाथके त्वभिधेयवत् ॥ ११४६ ॥ Nānārthārṇavasaṃkṣepa 4.1146
- नानार्थार्णवसंक्षेप पालिकपालिकस्तु पुमान् वृक्षे नृपतौ चाथ भेद्यवत् । गाथके रक्षके मुख्ये पूज्ये चाप्यथ पालुकः ॥ ११४७ ॥ Nānārthārṇavasaṃkṣepa 4.1147
- नानार्थार्णवसंक्षेप रोहन्तरोहन्तस्तु पुमान् वृक्षे रोहन्ती तु स्त्रियामियम् । लतायां भेद्यवत् तु स्याद् रोहतादिति कर्तरि ॥ १५३५ ॥ Nānārthārṇavasaṃkṣepa 4.1535
- नानार्थार्णवसंक्षेप वमनवराला हंसकान्तायां स्त्री भैषज्यान्तरे तु नप् । वमनस्तु पुमान् वृक्षे विज्ञेयोऽङ्कोठसंज्ञके ॥ १५९१ ॥ Nānārthārṇavasaṃkṣepa 4.1591
- नानार्थार्णवसंक्षेप उदुम्बरवृक्षे जन्तुफलाभिख्ये देहल्यां च नृभूम्नि तु । नीवृतः साल्वसंज्ञस्यावयवे क्षुद्रनीवृति ॥ ८९ ॥ Nānārthārṇavasaṃkṣepa 6.89
- परमानन्दीयनाममाला कुणिकुणिर्वृक्षे कुहस्तेऽथ पिप्पल्यां जीरके कणा । काकं काकसमूहे च योषितां करणान्तरे ॥ ८४ ॥ Paramānandīyanāmamālā 5.7.84
- परमानन्दीयनाममाला काचकाचो वृक्षे मणौ शिक्ये मृत्तिकानेत्ररोगयोः । कम्बुः शङ्खे कपर्दे च कर्चूरे नलके गजे ॥ ८७ ॥ Paramānandīyanāmamālā 5.7.87
- परमानन्दीयनाममाला कुजकुजो वृक्षे महीपुत्रे कुटः कुम्भे गृहे द्रुमे । क्रमस्तु परिपाट्यां स्यात्पदशक्त्योः कठो मुनौ ॥ ८८ ॥ Paramānandīyanāmamālā 5.7.88
- परमानन्दीयनाममाला कुन्दकोटिः संख्याग्रयोः कन्दो मूले सूरणमेघयोः । कुन्दो वृक्षे निधौ यन्त्रे कन्था प्रावरणे पुरे ॥ १०८ ॥ Paramānandīyanāmamālā 5.7.108
- परमानन्दीयनाममाला करजकृपीटं तूदरे नीरे करजो नखवृक्षयोः । करेणुर्हस्तिहस्तिन्योः कर्णिकारद्रुमेऽपि च ॥ १२७ ॥ Paramānandīyanāmamālā 5.7.127
- परमानन्दीयनाममाला जटायुजटायुर्गुग्गुले वृक्षे [पक्षि?] भेदेऽथ जङ्गलम् । निर्जले पिशिते गर्ते जम्बूलः क्रकचद्रुमे ॥ २०५ ॥ Paramānandīyanāmamālā 5.13.205
- परमानन्दीयनाममाला तालतर्कः कर्मविशेषे स्याद्विचारेऽपि तथोच्यते । गीतकर्ममितौ तालस्तालो वृक्षे कराहतौ ॥ २१६ ॥ Paramānandīyanāmamālā 5.15.216
- परमानन्दीयनाममाला नलनन्दा तिथ्यन्तरे वाचि मणिकेऽथ नलं कजे । पितृदेवे कपौ वृक्षे नालं काण्डमृणालयोः ॥ २६६ ॥ Paramānandīyanāmamālā 5.18.266
- परमानन्दीयनाममाला नेमिनेमः कालेऽवधौ गर्तदम्भयोर्वरणेऽपि च । नेमिर्वृक्षे प्रधौ निन्दापवादे निन्दने स्मृता ॥ २६७ ॥ Paramānandīyanāmamālā 5.18.267
- परमानन्दीयनाममाला नन्द्यावर्तनिशाचरस्तु जम्बूकरक्षसोश्चौरसर्पयोः । नन्द्यावर्तं पुरे वृक्षे गेहभेदेऽपि दृश्यते ॥ २८० ॥ Paramānandīyanāmamālā 5.18.280
- परमानन्दीयनाममाला बाणवर्णः कीर्तौ द्युतौ गीतक्रमे शुक्लद्विजादिके । बाणो दैत्ये शरे वृक्षे वाणिर्मेघः सरस्वती ॥ ३४८ ॥ Paramānandīyanāmamālā 5.24.348
- शब्दरत्नावली शल्लकीछत्रादिकाष्ठीशरयोः शल्लकी पशुवृक्षयोः । शङ्खकः स्यात् शिरोरोगे शङ्खेऽस्त्रीवलयेऽपि च ॥ Śabdaratnāvalī 7.1.144
- शब्दरत्नावली स्यमीकसम्पाकः तर्कके धृष्टे त्रिषु ना चतुरङ्गुले । स्यमीका नीलिकायाञ्च पुमान् वल्मीकवृक्षयोः ॥ Śabdaratnāvalī 7.1.148
- शब्दरत्नावली वटपटुः पटोले दक्षे च नीरोगे चतुरेऽन्यवत् । पट्टः पेषणपाषाणव्रणादिवस्त्रपोरपि ॥ राजशासनभेदेऽपि पत्रे पीठे चतुष्पथे । पटिः स्त्री पटभेदे स्याद् वागुलौ कुम्भिकाद्रुमे ॥ पुष्टिः पोषणवृद्धयोः स्त्रीफटादम्भे फणेऽपि च । वटी त्रिषु गुणे ना तु वृक्षनाथकपर्दयोः ॥ Śabdaratnāvalī 7.11.22
- शब्दरत्नावली करुणईक्षणं नयने दृष्टौ ईरिणं शून्य उषरे । उषणा स्त्रीकणायां स्यादुषणं मरिचेऽपि च ॥ एषणी व्रणमार्गानुसारिण्यां मानभेदके । करुणा स्त्री कृपायाञ्च करुणो रसवृक्षयोः ॥ Śabdaratnāvalī 7.15.26
- शब्दरत्नावली शृङ्गिन्शृङ्गी शृङ्गयुते वृक्षे पर्वते द्विरदे पुमान् । शयनं सुरते शय्यानिद्रयोश्च नपुंसकम् ॥ Śabdaratnāvalī 7.20.82
- शब्दरत्नावली शिखिन्शिखी वह्णिवलीवर्द-शर-केतुग्रहेषु च । मयूरे कुक्कुटे वृक्षे पुमान् शिखावति त्रिषु ॥ Śabdaratnāvalī 7.20.86
- शब्दरत्नावली जयाजया जयन्त्यां पार्वत्यां तत्सख्यां तिथिवृक्षयोः । पुमान् जयन्ते विजयेऽप्यग्निमन्थे युधिष्ठिरे ॥ जन्यं युद्धे परीवादे हहेऽपि च नपुंसकम् । जन्या स्त्री मातृसख्याञ्च जनके तु भवेत्पुमान् ॥ वरस्निग्धोत्पाद्यभृत्य नवीदाज्ञातिषु त्रिषु । जन्युः पुमान् वीतिहोत्रे शरीरिणि विधातरि ॥ तार्क्ष्ये शालेह्ये स्वर्णे गरुडे गरुडाग्रजे । पुमान् रसाञ्जने क्लीबं तार्क्ष्यी वनलतादिषु ॥ तिष्यो ना कलिनक्षत्रे तिष्योधात्र्यामपि स्त्रियाम् । द्रव्यं लेपे च पृथ्यादौ क्लीबं पित्तलवित्तयोः ॥ Śabdaratnāvalī 7.26.17
- शब्दरत्नावली करीरशबले वाच्यलिङ्गं स्यात्कृष्णवृन्तासु स्त्रियाम् । कर्परः स्यात्कटाहे च कपालशस्त्रभेदयोः ॥ कन्धरः स्याज्जलधरे ग्रीवायां कन्धरा स्त्रियाम् । कञ्जारो भास्करे कुक्षौ मुनौ वेधसि वारणे ॥ करीरो ना घटे वृक्षे तथा वंशाङ्कुरेऽस्त्रियाम् । करीरा चीरिकायां स्त्री दन्तमूले च हस्तिनाम् ॥ Śabdaratnāvalī 7.27.60
- शब्दरत्नावली कुचारुकुचारुर्वानरे वृक्षे शस्त्रकारे भवेत्पुमान् । केशरोऽस्त्री तु किञ्जल्के क्लीबलिङ्गन्तु हिङ्गुनि ॥ Śabdaratnāvalī 7.27.66
- शब्दरत्नावली खदिरखर्जूरस्तु खले रूप्ये शल्ये ना भूरुहे द्वयोः । खदिरी शाकभेदे स्त्री खदिरो वृक्षचन्द्रयोः ॥ Śabdaratnāvalī 7.27.70
- शब्दरत्नावली पटलपरिच्छदे च तिलके न क्लीबं ग्रन्थवृक्षयोः । प्रवालोऽस्त्री पल्लवे स्याद् वीणादण्डे च विद्रुमे ॥ Śabdaratnāvalī 7.28.72
- शब्दरत्नाकर नगनगः शिलोच्चये वृक्षे नाकः स्वर्गान्तरिक्षयोः । नागः सर्पे गजे ग्राहे नरोऽर्जुनमनुष्ययोः ॥ १९४६ ॥ Śabdaratnākara 4.1.1946
- शब्दरत्नाकर मुनिमौलिस्तु संयते केशे चूडायां मकुटे द्वयोः । वाचंयमे वसिष्ठादौ बुद्धे वृक्षे जिने मुनिः ॥ १९७६ ॥ Śabdaratnākara 4.1.1976
- शब्दरत्नाकर अर्जुनअर्जुनः फल्गुने वृक्षे मातुरेकसुते सिते । सहस्रबाहौ दृग्रोगे क्लीबे तृणसुवर्णयोः ॥ २०३१ ॥ Śabdaratnākara 4.1.2031
- शब्दरत्नाकर काञ्चनकाञ्चनं हेम्नि वृक्षे तु काञ्चनः काञ्चनी निशा । क्वाथे कुथे कषायोऽस्त्री निर्यासे सौरभे रसे ॥ २०७३ ॥ Śabdaratnākara 4.1.2073
- शब्दरत्नाकर कुशिकबकुलेऽस्त्री तु किञ्जल्के कपिलो मुनिवर्णयोः । कटीरं कन्दरे कट्यां कुशिको मुनिवृक्षयोः ॥ २०८० ॥ Śabdaratnākara 4.1.2080
- शब्दरत्नाकर स्यन्दनबदरे देशभेदे ना स्यन्दनो रथवृक्षयोः । संगरस्तु प्रतिज्ञायां विपत्त्यां सांपरायिके ॥ २१८४ ॥ Śabdaratnākara 4.1.2184
- शब्दरत्नाकर वनस्पतिवनस्पतिर्वृक्षमात्रेऽप्यपुष्पात् फलवद्द्रुमे । स्याद्वर्धमान एरण्डे शरावे भूषणेऽपि च ॥ २२२७ ॥ Śabdaratnākara 4.1.2227
- तन्त्राभिधान ननशब्दः स्वागते बन्धौ वृक्षे सूर्ये च कीर्त्तितः ।) पः कुबेरः समाख्यातः पश्चिमे च प्रकीर्त्तितः ॥ २३ ॥ Tantrābhidhāna 3.23
- त्रिकाण्डशेष शल्लकीशिलाटको विलेपेऽट्टे शुल्को यौतकदानयोः । श्वाविध्वृक्षौ च शल्लक्यौ मणौ खड्गे च सस्यकः ॥ ४६ ॥ Trikāṇḍaśeṣa 3.3.46
- त्रिकाण्डशेष पुन्नागनागः श्रेष्ठेभसर्पेषु क्लीबं सीसकरङ्गयोः । वृक्षे स्यात्पुंसि पुन्नागः पतङ्गः शलभे रवौ ॥ ६२ ॥ Trikāṇḍaśeṣa 3.3.62
- त्रिकाण्डशेष पलाशिन्पाठीनो गुग्गुलुद्रौ च रक्षोवृक्षौ पलाशिनौ । फाल्गुनो मासि पार्थे च स्त्री विदग्धा च वाणिनी ॥ २४८ ॥ Trikāṇḍaśeṣa 3.3.248
- त्रिकाण्डशेष पादपपादुकायां स्त्रियां वृक्षे पादपीठे च पादपः । पिण्डपुष्पौ जवाशोकौ पुष्यं कुसुम आर्त्तवे ॥ २७७ ॥ Trikāṇḍaśeṣa 3.3.277
- त्रिकाण्डशेष द्रुमतोक्मं कर्णमले पुंसि हरिते च हरिद्यये । द्रुमो यक्षेश्वरे वृक्षे दमो दमथुदण्डयोः ॥ २९७ ॥ Trikāṇḍaśeṣa 3.3.297
- त्रिकाण्डशेष अगुरुहविर्वह्नी चाऽग्निहोत्रौ वृक्षे लघुनि चाऽगुरुः । शक्तो निरण्डश्चाण्डीरावङ्घ्रिः स्यात्पादमूलयोः ॥ ३३० ॥ Trikāṇḍaśeṣa 3.3.330
- त्रिकाण्डशेष सरलऋजौ वृक्षे च सरलः सालो वरणसर्जयोः । हस्तिमल्लो गजास्ये च हेलाऽवज्ञाविलासयोः ॥ ४११ ॥ Trikāṇḍaśeṣa 3.3.411
- वैजयन्ती धवदुवदावौ वनारण्यवह्न्योः स्वर्गार्कयोर्द्युवा । धवो वृक्षे नरे पत्यौ ध्वांक्षः स्याद्वायसे बके ॥ २७ ॥ Vaijayantī 6.1.27
- वैजयन्ती शिखिन्कुक्कुटेऽग्नौ मयूरेंऽशौ वृक्षे केतुग्रहे शिखी । पद्ये यशसि च श्लोकः षण्डौ विट्चरपण्डकौ ॥ ६० ॥ Vaijayantī 6.1.60
- वैजयन्ती पलाशिन्पदाजिर्युधि मार्गे च रक्षोवृक्षौ पलाशिनौ । प्रतिघौ रुट्प्रतीघातौ प्रतापौ पौरुषातपौ ॥ ५४ ॥ Vaijayantī 7.1.54
- वैजयन्ती स्यमीकमन्त्री सहायः सचिवः सहुरी वृषभास्करौ । स्यमीकौ वृक्षवल्मीकौ समीकौ मिथुनार्णवौ ॥ ७५ ॥ Vaijayantī 7.1.75
- वैजयन्ती समिकसंघर्षौ घर्षणं स्पर्धा शरखड्गौ तु सायकौ । समिकौ वृक्षवल्मीकौ सृदाकू व्याघ्रपावकौ ॥ ७७ ॥ Vaijayantī 7.1.77
- वैजयन्ती शिखरिन्यादस्पतिश्च तावब्धावप्यथो यक्षगुह्यकौ । धनदेऽप्यथ वृक्षेऽद्रौ शिखर्यगनगागमाः ॥ ५८ ॥ Vaijayantī 8.1.58