कुञ्ज
kuñjaपुं · masc.In 18 kośas: 21 synonym verses, 9 as a nānārtha head word, 5 as a meaning of another word.
कुञ्जनिकुञ्जकुडङ्गाः स्थाने वृक्षैर्वृतान्तरे ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
genderपुंक्लीm. n.
कुडुङ्गोऽपि निकुञ्जोऽपि कुञ्जो वृक्षलतान्तरे ।आकरस्तु खनिर्गञ्जा रुमा तु लवणाकरः ॥ १८९ ॥
अनुष्टुप्
genderपुंmasc.
अस्त्री निकुञ्जकुञ्जौ द्वे लतादिपिहितोदरे ।वृक्षस्तु विटपी स्कन्धी सीमाको हरितच्छदः ॥ ११ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कवचार्द्धर्चयोः पुच्छकच्छाच्छानां व्रजस्य च ।निकुञ्जोटजकुञ्जानां तथैवापुञ्जभूर्जयोः ॥ १५३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कुडङ्गो वृक्षवल्लीनां वनं स्यादथ वल्लरम् ।झाटो गञ्जः कुञ्जमस्त्री निकुञ्जं च लतावृतम् ॥ १३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कच्छो निकुञ्जो रज-भूर्ज-कुञ्ज-व्रजाङ्गजाः शङ्खगतस्तथाब्जः ।ध्वजो नटः कर्वटकुक्कुटाट्टाःकुटारकूटावपि कालकूटः ॥ ४१ ॥
उपजातिः
genderपुंक्लीm. n.
छायादयः शब्दाः स्त्रियां स्युर्भवेयुरित्यर्थः । यथा छाया वृक्षादेः प्रतिबिम्बः । सुरा मदिरा । निशा रात्रिः । वालुका सिकता । चमूः सेना । कन्था प्रसिद्धा । इरा जलभूमिः । एते शब्दाः स्त्रीलिङ्गे भवन्ति । यथा इयमापत् व्यसनम् । संपद्धनम् । विपत् दुःखम् । प्रतिपत्तिथिविशेषः । समित्काष्ठम् । विप्रुट् बिन्दुः ।कुशकूबरकुञ्जाङ्कुरकुठारकुन्दकुतुपा हि पुंस्युक्ताः ।कुलकूलकुङ्कुमानि तु नपुंसान्येव जानीयात् ॥ ३३ ॥
metre not recognised
genderपुंmasc.
वृक्षावृतान्तरे कुञ्जो निकुञ्जकुडङ्गावपि ।वृक्षस्तु फलवान्पुष्पैर्वानस्पत्यो विना फलैः ॥ २६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ड (wrong syllable)
genderपुंmasc.
पिण्याकझर्झरकहंसकतण्डकानिमस्तिष्कशङ्खमुखपुङ्खनखाधिकाङ्गाः ।उद्योगटङ्गयुग [संयुग?] पद्मरागाःशृङ्गं भगः क्रकचकूर्चनिदाघकुञ्जाः ॥ १३३ ॥
वसन्ततिलका
genderपुंक्लीm. n.
अर्धर्चः कवचः कच्छपुच्छोञ्छास्तु व्रजोटजौ ।[9] कुञ्जो मलयजो भूर्जध्वजाम्बुजसमास्तथा ॥ १३४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
असुरो वारणः कुञ्जः कुञ्जरः पीलुरित्यपि ।महामृगः शूर्पकर्ण समाजसिन्धुरः कपी ॥ २५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ज (wrong syllable)
genderपुंmasc.
वाटिकोपवनं दावः कक्षः कान्तारनिःकुटौ ।अटव्यरण्यं गहनं सान्द्रे कुञ्जो निकुञ्जवत् ॥ १४० ॥
अनुष्टुप्
genderपुंmasc.
ख्यातः कुञ्जो निकुञ्जश्च कुडङ्गोऽपि हि कथ्यते ।त्रीणि नामानि मन्यन्ते वृक्षैर्वृतान्तरे स्थले ॥ १९५७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्वृ (wrong syllable)
genderपुंmasc.
काच्छली काच्छलिश्चापि कखटी च खटी तथा ।अथ कुञ्ज-निकुञ्जौ च वा तु क्लीबे लतागृहे ॥
अनुष्टुप्
genderपुंक्लीm. n.
आरनालकरक्षोघ्नसौविरञ्च तुषोदकम् ।कुञ्जकुल्माषाभिषुतं कुल्माषाभिषुतञ्च तत् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 षा (wrong syllable)
genderक्लीneut.
पर्णलः पर्णिलो वृक्षे स्थाने वृक्षैर्वृतान्तरे ।निकुञ्ज-कुञ्जौ जरुट-जरुडौ च, वनस्पतौ ॥ १२४ ॥
अनुष्टुप्
genderपुंmasc.
मेखला कटकोऽस्त्री स्याद्गह्वरं तु गुहा दरी ।कन्दरः कन्दरा कुञ्जनिकुञ्जौ वा नपुंसकौ ॥ ४१२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
निष्कोशः स्यात् कुक्षिमध्ये हनौ नाकुञ्जः कर्णप्रान्तरे दुर्दरः स्यात् ।उत्खातः स्यात् कर्णमूलोर्ध्वभागेशम्बूका स्त्री वक्त्रपार्श्वैकदेशः ॥ ७०१ ॥
शालिनी
genderपुंmasc.
आकाशकुञ्जकुतपौदनवारवाणप्रस्थावतंसनखमण्डपकच्छपुच्छाः ।कान्तारकङ्कणतडागकिरीटराष्ट्रतीर्थव्रणस्तबकसङ्क्रमपीठकानि ॥ १२ ॥
वसन्ततिलका
genderपुंक्लीm. n.
कुडङ्गोऽस्त्री निकुञ्जोऽस्त्री कुञ्जो वृक्षवृतान्तरे ।आकरस्त्री खनिर्गञ्जा रुमा तु लवणाकरः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
संस्तरः प्रस्तरेऽप्युक्तो हनौ कुञ्जो रणे स्पशः ।गर्जन्मेघेऽपि पर्जन्यः सन्धा स्यादवधावपि ॥ ८१८ ॥
अनुष्टुप्
meaningsहनु
हनौ लतादिपिहितोदरेऽथो पुंस्यृषौ क्वचित् ।कुब्जस्तु गडुले त्रि स्यान्निखर्वे चापि सज्जनः ॥ २३१ ॥
अनुष्टुप्
doubtful
कुञ्ज as a meaning in nānārtha verses
- धरणिकोश वल्लरवल्लरं निर्जलस्थाने वनक्षेत्रे च वल्लरम् । वल्लरं गहने कुञ्जे मञ्जर्यां वल्लरी स्मृता ॥ Dharaṇikośa 26.3.38
- कोषकल्पतरु मञ्जुलशृङ्गारे नरि विशदे त्रिषूज्ज्वलः स्या- दुद्दीप्ते भवति विकासिनि स्मृतश्च । स्यात्कुञ्जे मिथुनविवर्जितं परस्मि- न्किर्मीरे जलहरिणे तु मञ्जुलो ना ॥ २३ ॥ Koṣakalpataru 6.28.23
- शब्दरत्नावली दन्तदन्तः कुञ्जे च दशने दन्ती स्यादोषधीभिदि । दान्तस्तू दलिते पुंसि तपः क्लेशसहे त्रिषु ॥ Śabdaratnāvalī 7.16.16
- शब्दरत्नावली गह्वरखण्डाभ्रं न द्वयोर्दन्तक्षतभेदाभ्रलेशयोः । गणेरुः करिणीवेश्याकर्णिकारेषु च स्त्रियाम् ॥ गर्गरो मीनभेदेऽस्त्री मन्थन्यां न पुमानयम् । गह्वरन्तु गुहादम्भवने कुञ्जे तु पुंस्यपि ॥ गान्धारो रागसिन्दूरदेशभेदेषु पुंस्ययम् । घर्घरो नदभेदे ना स्यादुलूके च निर्झरे ॥ Śabdaratnāvalī 7.27.71
- त्रिकाण्डशेष गह्वरगह्वरे द्वे गुहाकुञ्जे पूर्द्वारि द्वारि गोपुरम् । नग्नकन्योमयोर्गौरी गौरः स्यादुज्ज्वलेऽपि च ॥ ३४७ ॥ Trikāṇḍaśeṣa 3.3.347